युधिष्ठिरः-
न मां प्रीणयते राज्यं त्वय्येवं दुःखिते नृप
धिङ्मामस्तु सुदुर्बुद्धिं राज्यलुब्धं प्रमादिनम्
वने भवन्तं दुःखार्तम् उपवासकृशं नृप
यताहारं भूमिशयं नाविन्दं भ्रातृभिस्सह
अहोऽस्मि वञ्चितो मूढो भवता गूढबुद्धिना
विश्वासयित्वा पूर्वं मां यदि त्वमिदमुक्तवान्॥
किं मे राज्येन भोगैर्वा किं यज्ञैः किं फलेन वा
पीडितं चापि जानामि राज्यमात्मानमेव च
यस्य मे त्वं महीपाल दुःखान्येवमवाप्तवान्
अनेन वचसा तेऽद्य दुःखितोऽस्मि जनेश्वर
भवान् पिता भवान् माता भवान् नः परमो गुरुः
भवता विप्रहीणा हि क्व नु तिष्ठामहे वयम्
औरसो भवतः पुत्रो युयुत्सुस्तरुणोऽपि सन्
अस्तु राजा महाराज यं चान्यं मन्यते भवान्
अहं वनं गमिष्यामि भवान् राज्यं प्रशास्त्विदम्
न मामयशसा दग्धं भूयस्त्वं दग्धुमर्हसि
नाहं राजा भवान् राजा भवता परवानहम्
कथं गुरुं महाराजम् अनुज्ञातुमिहोत्सहे
न मन्युरिह नः कश्चित् सुयोधनकृते नृप
भवितव्यं तथा तद्धि वयं ते चैव मोहिताः
वयं हि पुत्रा भवतो यथा दुर्योधनादयः
गान्धारी चैव कुन्ती च निर्विशेषे मते मम
यद्येवमपि मां राजन् परित्यज्य गमिष्यसि
पृष्ठतस्त्वनुयास्यामि सत्येनात्मानमालभे
इयं हि वसुसम्पूर्णा मही सागरमेखला
भवता विप्रहीणस्य न मे प्रीतिकरी भवेत्
भवदीयमिदं सर्वं शिरसा त्वां प्रसादये
त्वदधीनास्स्म राजेन्द्र व्येतु ते मानसो ज्वरः
भवितव्यमनुप्राप्तं मन्ये त्वेतज्जनाधिप
दिष्ट्या शुश्रूषमाणस्त्वां मोक्ष्यामि मनसो ज्वरम्
धृतराष्ट्ः-
तापस्ये मे मनस्तात वर्तते कुरुनन्दन
उचितं हि कुलेऽस्माकम् अरण्यगमनं प्रभो
चिरमस्म्युषितः पुत्र चिरं शुश्रूषितस्त्वया
वृद्धं मामभ्यनुज्ञातुं राजन्नर्हसि मा चिरम्

एवमुक्त्वा वेपमानं पाण्डुपुत्रं कृताञ्जलिम्
उवाच विदुरं राजा धृतराष्ट्रोऽम्बिकासुतः
धृतराष्ट्रः-
सञ्जयं च महामात्रं कृपं चापि महारथम्
अनुनेतुमिहेच्छामि भवद्भिः पृथिवीपतिम्
म्लायते हि मनस्तात मुखं च परिशुष्यति
वयसा च प्रकृष्टेन व्यायामेनाप्यनेन च
वैशम्पायनः-
इत्युक्त्वा स तु धर्मात्मा वृद्धो राजा कुरूद्वहः
गान्धारीं शिश्रिये धीमान् सहसैव गतासुवत्
तं तु दृष्ट्वा तथाऽऽसीनं निश्चेष्टं कुरुपार्थिवम्
आर्तिं राजा ययौ तूर्णं कौन्तेयः परवीरहा
युधिष्ठिरः-
यस्य नागसहस्रेण दशसङ्ख्येन वै बलम्
सोऽयं नारीं समाश्रित्य शेते राजा गतासुवत्
आयसी प्रतिमा येन भीमसेनस्य वै पुरा
चूर्णीकृता बलवता स बलार्थेऽश्रयत् स्त्रियम्
धिगस्तु मामधर्मज्ञं धिग् बुद्धिं धिग् बहुश्रुतम्
यत्कृते पृथिवीपालश् शेतेऽयमतथोचितः
अहमप्युपवत्स्यामि यथैवायं गुरुर्मम
यदि राजा न भुङ्क्तेऽयं गान्धारी च यशस्विनी

ततोऽस्य पाणिना राज जलशीतेन पाण्डवः
उरो मुखं चैव शनैः पर्यमार्जत धर्मवित्
तेन रत्नौषधिमता पुण्येन सुखगन्धिना
पाणिस्पर्शेन राज्ञस्तु तथा सुखमवाप ह
धृतराष्ट्रः-
स्पृश मां पाणिना भूयः परिष्वज च पाण्डव
जीवामीव हि संस्पर्शात् तव राजीवलोचन
मूर्धानं च तवाघ्रातुम् इच्छामि मनुजाधिप
पाणिभ्यां च परिस्प्रष्टुं प्राणेना मम चात्मनि
अष्टमो ह्यद्य कालोऽयम् अहारस्य कृतस्य मे
येनाहं कुरुशार्दूल न शक्नोमि विचेष्टितुम्
व्यायामश्चायमत्यन्तं कृतस्त्वामभियाचता
ततो ग्लानमना राजन् नष्टसञ्ज्ञ इवाभवम्
तवामृतसुखस्पर्शं हस्तस्पर्शमिमं प्रभो
लब्ध्वा सञ्जीवितोऽस्मीति मन्ये कुरुकुलोद्वह
वैशम्पायनः-
एवमुक्तस्तु कौन्तेयः पित्रा ज्येष्ठेन भारत
पस्पर्श सर्वगात्रेषु स्नेहार्द्रं तं शनैस्तदा
उपलभ्य ततः प्राणान् धृतराष्ट्रो महीपतिः
बाहुभ्यां सम्परिष्वज्य मूर्ध्नि चाघ्रत पाण्डवम्
विदुरादयश्च ते सर्वे रुरुदुर्दुःखिता भृशम्
अतिदुःखात्तु राजानं नोचुः किञ्चन पाण्डवाः
गान्धारी त्वेव धर्मज्ञा मनसोद्वहती तदा
दुःखान्यवारयद्राजन् मैवमित्येव चाब्रवीत्
इतरास्तु स्त्रियस्सर्वाः कुन्त्या सह सुदःखिताः
नेत्रैस्तास्सास्त्रविक्लेदैः परिवार्य स्थिता भवन्
तदाऽब्रवीत् पुनर्वाक्यं धृतराष्ट्रो युधिष्टिरम्
धृतराष्ट्ः-
अनुजानीहि मां राजंस् तपसे भरतर्षभ
ग्लायते मे मनस्तात भूयो भूयः प्रजल्पतः
न मामितः परं पुत्र परिक्लेष्टुमिहार्हसि
वैशम्पायनः-
तस्मिंस्तु कौरवश्रेष्टे तथा ब्रुवति पाण्डवम्
सर्वेषामवरोधानाम् आर्तनादो महानभूत्
दृष्ट्वा कृशं विवर्णं च राजानमतथोचितम्
उपवासपरिक्लान्तं त्वगस्थिपरिवारितम्
धर्मपुत्रस्स्वपितरं परिष्वज्य महाभुजः
शोकजं बाष्पमुत्सृज्य पुनर्वचनमब्रवीत्
युधिष्ठिरः-
न कामये नरश्रेष्ठ जीवितं पृथिवीं तथा
यथा तव प्रियं राजंश् चिकीर्षामि परन्ततः
वैशम्पायनः-
यदि त्वहमनुग्राह्यो भवतो दयितोऽपि वा
क्रियतां तावदाहारस् ततो वेत्स्यामहे परम्
ततोऽब्रवीन्महाराजो धर्मराजं स कौरवः
धृतराष्ट्रः-
अनुज्ञातस्त्वया पुत्र भुञ्जीयेति मतिर्मम
वैशम्पायनः-
इति ब्रुवति राजेन्द्रे धृतराष्ट्रे युधिष्ठिरम्
ऋषिस्सत्यवतीपुत्रो व्यासोऽभ्येत्य वचोऽब्रवीत्