धृतराष्ट्रः-
विदितं भवतामेतद् यथा वृत्तं कुरुक्षयम्
ममापराधात् तत् सर्वम् इति ज्ञेयं तु कौरवाः
योऽहं दुष्टमतिं मूर्खं ज्ञातीनां भयवर्धनम्
दुर्योधनं कौरवाणाम् आधिपत्येऽभ्यषेचयम्
यच्चाहं वासुदेवस्य वाक्यं नाश्रौषमर्थवत्
बध्यतां साध्वयं पापस् सामात्य इति दुर्मतिः
पुत्रस्नेहाभिभूतश्च हितमुक्तो हितैषिणा
विदुरेणाथ भीष्मेण द्रोणेन च कृपेण च
पदे पदे भगवता व्यासेन च महात्मना
सञ्जयेनाथ गान्धार्या तदिदं तप्यते मया
यच्चाहं पाण्डुपुत्रेषु गुणवत्सु महात्मसु
न न्यस्तवाञ्श्रियं दीप्तां पितृपैतामहीमिमाम्
पश्यन्नपि विनाशं हि सर्वराज्ञां गदाग्रजः
एतच्छ्रेयस्स परमम् अमन्यत जनार्दनः
सोऽहमेतान्यतीतानि दुर्वृत्तान्यात्मनस्सदा
हृदये शल्यभूतानि धारयामि सहस्रशः
विशेषतस्तु दह्यामि वर्षे पञ्चदशे हि वै
अस्य पापस्य शुद्ध्यर्थं नियतोऽस्मि सुदुर्मतिः
चतुर्थे नियते काले कदाचिदपि चाष्टमे
तृष्णापनयनं भुञ्जे गान्धारी वेद तन्मम
करोत्याहारमिति च सर्वः परिजनस्सदा
युधिष्टिरभयाद्वेत्ति भृशं तप्येत पाण्डवः
भूमौ शये जप्यपरो दर्भेष्वजिनसङ्धृतः
नियमव्यपदेशेन गान्धारी च यशस्विनी
वैशम्पायनः-
हतं पुत्रशतं वीरं सङ्ग्रामेष्वपलायिनम्
नानुतप्ये ह्याहं तच्च क्षत्रधर्मं हि तं विदुः
इत्युक्त्वा धर्मराजं सोऽथाभ्यभाषत वीर्यवान्
धृतराष्ट्ः-
भद्रं ते यादवीमातर् वाक्यं चेदं निबोध मे
सुखमस्म्युषितः पुत्र त्वया सुपरिपालितः
मया दानानि दत्तानि श्राद्धानि च पुनः पुनः
प्रकृष्ठं मे वयः पुत्र पुण्यं प्राप्तं यथाबलम्
गान्धारी हतपुत्रेयं धैर्येणावेक्षते च माम्
द्रौपद्यशुभकर्तारस् तव चैश्वर्यहारिणः
समतीता नृशंसास्ते धर्मेण निहता युधि
न तेषु प्रतिकर्तव्यं पश्यामि कुरुनन्दन
सर्वे शस्त्रजिताल्ँलोकान् गता ह्युभिमुखा हताः
आत्मनस्तु सतां मुख्य प्रतिकर्तव्यमद्य मे
गान्धार्याश्चैव राजेन्द्र तदनुज्ञातुमर्हसि
त्वं हि धर्मभृतां श्रेष्ठस् सततं धर्मवत्सलः
राजा गुरुः प्राणभृतां तस्मादेतद्ब्रवीम्यहम्
अनुज्ञातस्त्वया वीर संश्रयेयं वनान्यहम्
चीरवल्कलभृद्राजन् गान्धार्या सहितोऽनघ
तवाशिषः प्रयुञ्जानो भविष्यामि वनेचरः
उचितं नः कुले तात सर्वेषां भरतर्षभ
पुत्रेष्वैश्वर्यमाधाय वयसोऽन्ते वनं नृप
तत्राहं वायुभक्षो वा निराहारोऽपि वा वसन्
पत्न्या सहानया वीर चरिष्यामि तपः परम्
त्वं चापि फलभुक् तात तपसा पार्थिवो ह्यासि
फलभाजो हि राजानः कल्याणस्येतरस्य वा