वैशम्पायनः-
युधिष्ठिरस्य नृपतेर् दुर्योधनपितुस्तदा
नान्तरं ददृशू राजन् पुरुषाः प्रणयं प्रति
यदा तु कौरवो राजा पुत्रं सस्मार बालिशम्
तदा भीममपध्याति हृदयेनाम्बिकासुतः
कौरवश्चैव भीमश्च हृदाऽन्योन्यमदूष्यताम्
ध्यायन्तौ श्लक्ष्णया वाचा अन्योन्यमभितिष्ठताम्
अप्रकाशं व्यलीकानि कुरुतेऽस्य वृकोदरः
आज्ञां प्रत्यहरच्चैव कृतकैः पुरुषैस्सदा
असकृच्चाप्युवाचेदं हतास्ते मन्दचेतसः
अथ भीमस्सुहृन्मध्ये बाहुशब्दमतथाऽकरोत्
संश्रवे धृतराष्ट्रस्य युद्धं संवर्णयन्निव
स्मृत्वा दुर्योधनं शत्रुं कर्णदुश्शासनावपि
प्रोवाचेदं सुसंरब्धो भीमस्स परुषं वचः
भीमः-
अन्धस्य नृपतेः पुत्रा मया परिघबाहुना
नीता लोकममुं सर्वे नानाशस्त्रास्त्रयोधिनः
इमौ पीनौ सुवृत्तौ मे नागराजकरोपमौ
यावासाद्य रणे मूढा धार्तराष्ट्राः क्षयं गताः
ताविमौ चन्दनेनाक्तौ वन्दनीयौ च मे भुजौ
याभ्यां दुर्योधनो निन्ये क्षयं ससुतबान्धवः
वैशम्पायनः-
एताश्चान्याश्च विविधाश् शल्यभूता जनाधिपः
श्रुत्वा निर्वेदमापेदे भीमवाग्बाणचोदितः॥
सा च बुद्धिमती देवी कालपर्यायवेदिनी
गान्धारी सर्वधर्मज्ञा तान्यलीकानि शुश्रुवे
ततः पञ्चदशे वर्षे समतीते नराधिपः
राजा निर्वेदमापेदे भीमवाग्बाणपीडितः
सुखासक्तं कृच्छ्रपरं ज्ञात्वा चैव युधिष्ठिरम्
तपोयोगात् तपस्तप्तुं मनश्चक्रे महामतिः
नान्वबुध्यत तद्राजा कुन्तीपुत्रो युधिष्ठिरः
श्वेताश्वो वाऽथ कुन्ती वा द्रौपदी वा यशस्विनी
माद्रीपुत्रौ च भीमस्य चित्तज्ञावन्वमोदताम्
राज्ञस्तु चित्तं रक्षन्तौ रक्षन्तौ नोचतुस्स्वयमप्रियम्
ततस्समानयत् सर्वं धृतराष्ट्रस्सुहृज्जनम्
बाष्पसन्दिग्धमत्यर्थम् इदमाह वचो भृशम्