वैशम्पायनः-
एवं सम्पूजितो राजा पाण्डवैरम्बिकासुतः
विजहार यथापूर्वम् ऋषिभिः पर्युपस्थितः
ब्रह्मदेयाग्रहारांश्च प्रददौ कुरुसत्तमः
तच्च कुन्तीसुतो राजा सर्वमेवान्वमोदत
युधिष्ठिरः-
आनृशंस्यपरो धीमान् प्रीयमाणो युधिष्ठिरः
उवाच च स तान् भ्रातॄन् अमात्यांश्च महीपतिः
मया चैव भवद्भिश्च मान्य एव नराधिपः
निदेशे धृतराष्ट्रस्य यस्स्थास्यति स मे सुहृत्
विपरीतश्च मे शत्रुर् निरस्यश्च भवेन्नरः
परिवृत्तेषु चाहस्सु पुत्राणां श्राद्धकर्मणि
ददातु राजा वित्तानि यावदस्य चिकीर्षितम्
वैशम्पायनः-
ततस्स राजा कौरव्यो धृतराष्ट्रो महामनाः
ब्राह्मणेभ्यो यथार्हेभ्यो ददौ वित्तमनेकशः
धर्मराजश्च भीमश्च सव्यसाची यमावपि
तत् सर्वमन्ववर्तन्त धृतराष्ट्रव्यपेक्षया
कथं नु राजा वृद्धस्सन् पुत्रशोकसमाहतः
शोकमस्मत्कृतं प्राप्य न म्रियेतेति चिन्त्य वै
यावद्धि कुरुमुख्यस्य जीवपुत्रस्य वै सुखम्
तावत् सुखमवाप्नोतु भोगांश्चैति व्यवस्थिताः
ततस्ते सहितास्सर्वे भ्रातरः पञ्च पाण्डवाः
दानशीलास्तथा तस्थुर् धृतराष्ट्रस्य शासने
धृतराष्ट्रस्तु तान् वीरान् विनीतान् विनये स्थितान्
शिष्यवृत्तौ स्थितान् नित्यं गुरुवत् तानपश्यत
गान्धारी चापि पुत्राणां विविधैश्श्राद्धकर्मभिः
आनृण्यमगमत् कामं विप्रेभ्यः प्रतिपाद्य वै
एवं धर्मभृतां श्रेष्ठो धर्मराजो युधिष्ठिरः
भ्रातृभिस्सहितो धीमान् पूजयामास तं नृपम्
स राजा सुमहातेजा वृद्धः कुरुकुलोद्वहः
नापश्यत तदा किञ्चिद् अप्रियं कुरुनन्दनात्
वर्तमानेषु सद्वृत्तिं पाण्डवेषु महात्मसु
प्रीतिमानभवद्राजा धृतराष्ट्रोऽम्बिकासुतः
सौबलेयी च गान्धारी पुत्रशोकमपास्य तम्
सदैव प्रीतिमत्यासीत् पाण्डवेषु निजेष्विव
प्रियाण्येव तु कौरव्यो नाप्रियाणि कुरूद्वहः
वैचित्रवीर्ये नृपतौ समाचरत सर्वदा
यद्यद्ब्रूते च किञ्चित् स धृतराष्ट्रो नराधिपः
गुरु वा लघु वा कार्यं गान्धारी वा यशस्विनी
तत् स राजा नरव्याघ्रः पाण्डवानां धुरन्धरः
पूजयित्वा वचस्तत्तद् अकार्षीत् परवीरहा
तेन तस्याभवत् प्रीतो वृत्तेन स नराधिपः
अन्वतप्यत संस्मृत्य पुत्रं मन्दमचेतसम्
सदा च प्रातरुत्थाय कृतजप्यश्शुचिर्नृपः
आशास्ते पाण्डुपुत्राणां समरेष्वपराजयम्
ब्राह्मणान् वाचयित्वा च हुत्वा चैव हुताशनम्
आयूंषि पाण्डुपुत्राणाम् अनुशास्ते स कौरवः
स तां प्रीतिं परामाप स्वप्नेभ्यस्स महीपतिः
यां प्रीतिं पाण्डुपुत्रेभ्यस् समवाप महीपतिः
ब्राह्मणानां च वृद्धानां क्षत्रियाणां च भारत
तथा विट्शूद्रसङ्घानाम् अभवत् पाण्डवः प्रियः
यच्च किञ्चित् पुरा पापं धृतराष्ट्रसुतैः कृतम्
अकृत्वा हृदि तद्राजा तं नृपं सोऽन्ववर्तत
यश्च कश्च नरः किञ्चिद् अप्रियं ह्याम्बिकासुते
कुरुते द्वेष्यतामेति स कौन्तेयस्य धीमतः
न राज्ञो धृतराष्ट्रस्य न च दुर्योधनस्य च
अरोचद् दुष्कृतं कञ्चिद् युधिष्ठिरभयान्नृपः
तुष्टोऽभूद्धृतराष्ट्रश्च गान्धारी च महायशाः
अजातशत्रोर्वृत्तेन न तु भीमस्य पार्थिवः
अन्ववर्तत भीमोऽपि निष्ठनन् धर्मजं नृपम्
धृतराष्ट्रं स सम्प्रेक्ष्य सदा भवति दुर्मनाः
राजानमनुगच्छंस्तु धर्मपुत्रं महामित्रम्
अन्ववर्तत सक्रोधो हृदयेन पराङ्मुखः