जनमेजयः-
राज्यं प्राप्य नरव्याघ्राः पितृपैतामहं महत्
कथमासन् महाराजे धृतराष्ट्रे महात्मनि
स हि राजा हतामात्यो हतपुत्रो निराश्रयः
कथमासीद्गतैश्वर्यो गान्धारी च यशस्विनी
कियन्तं चैव कालं ते पितरो मम पूर्वकाः
स्थिता राज्ये महात्मानस् तन्मे व्याख्यातुमर्हसि
वैशम्पायनः-
प्राप्य राज्यं महात्मानः पाण्डवा हतशत्रवः
धृतराष्ट्रं पुरस्कृत्य पृथिवीं पर्यपालयन्
धृतराष्ट्रमुपातिष्ठद् विदुरस्सञ्जयस्तथा
युयुत्सुश्चैव मेधावी वेश्यापुत्रस्स कौरवः॥
पाण्डवास्सर्वकार्येषु पृच्छन्ति स्म च तं नृपम्
चक्रुस्तेनाभ्यनुज्ञाता वर्षाणि दश पञ्च च
सदाऽभिगम्य ते वीराः पर्युपासत तं नृपम्
पादाभिवन्दनं कृत्वा युधिष्ठिरमते स्थिताः
तेन ते मूर्ध्नि चाघ्रातास् सर्वकार्याणि चक्रिरे
कुन्ती भोजसुता चैव गान्धारीमन्ववर्तत
द्रौपदी च सुभद्रा च याश्चान्याः पाण्डवस्त्रियः
सतां वृत्तमवर्तन्त तयोश्श्वश्र्वोर्यथाविधि
शयनानि महार्हाणि वासांस्याभरणानि च
सर्वाणि भक्ष्यभोज्यानि विविधानि च सर्वशः
युधिष्ठिरो महाराजो धृतराष्ट्रे ह्युपानयत्
तथैव कुन्ती गान्धार्यां गुरुवृत्तिमवर्तत
विदुरस्सञ्जयश्चैव युयुत्सुश्चैव कौरव
उपासन्ति स्म तं वृद्धं हतपुत्रं नराधिपम्
स्यालो द्रोणस्य यश्चैको दयितो ब्राह्मणो महान्
स च तस्मिन् महेष्वासे कृपस्समभवत् तदा
व्यासश्च भगवान् नित्यं वासं चक्रे नृपेण ह
कथां कुर्वन् पुराणर्षिर् देवर्षिर्नृपरक्षसाम्
धर्मयुक्तानि कार्याणि व्यवहारान्वितानि च
धृतराष्ट्राभ्यनुज्ञातो विदुरस्तान्यकारयत्
कामतो हि प्रियाण्यस्य कार्याणि सुगुरूण्यपि
प्राप्यन्तेऽर्थैस्सुलघुभिः प्रभावाद्विदुरस्य वै
अकरोद्बन्धमोक्षांश्च वध्यानां मोक्षणं तथा
न च धर्मात्मजो राजा कदाचित् किञ्चिदब्रवीत्
विहारयात्रासु पुनः कुरुराजो युधिष्ठिरः
सर्वान् कामानुपस्थाप्य धृतराष्ट्रे न्यवेदयत्
आरालिकास्सूपकारा रागषाडविकास्तथा
उपातिष्ठन्त राजानं धृतराष्ट्रं यथापुरम्
वासांसि सुमहार्हाणि माल्यानि विविधानि च
उपाजह्रुर्यथाकालं धृतराष्ट्रस्य पाण्डवाः
मैरेयकाणि मांसानि पानकानि लघूनि च
चित्रान् भक्ष्यविकारांश्च चक्रुरस्य यथापुरम्
ये चापि पृथिवीपालास् समाजग्मुस्समन्ततः।
उपातिष्ठन्त ते सर्वे कौरवेन्द्रं यथापुरम्
कुन्ती च द्रौपदी चैव सात्वती चैव भामिनी।
उलूपी नागकन्या च देवी चित्राङ्गदा तथा
धृष्टकेतोश्च भगिनी जरासन्धस्य चात्मजा।
एताश्चान्याश्च बह्व्यो वै योषितः पुरुषर्षभ
किङ्करास्समोपतिष्ठन्ति सर्वास्तास्सुबलात्मजाम्॥
यथा पुत्रवियुक्तोऽयं न किञ्चिद्दुःखमाप्नुयात्
इति राजाऽन्वशाद्भ्रातॄन् नित्यमेव युधिष्ठिरः
एतत् ते धर्मराजस्य श्रुत्वा वचनमर्थवत्
सविशेषमवर्तन्त भीममेकं विना तदा॥
न हि तत् तस्य वीरस्य हृदयादपगच्छति
धृतराष्ट्रस्य यद्वृत्तं दुर्बुद्धेर्द्यूतमण्डले