युधिष्ठिरः-
कीदृशानां तु शूद्राणां नानुगृह्णासि चार्चनम्
उद्वेगस्तव कस्माद्धि तन्मे ब्रूहि सुरेश्वर
श्रीभगवान्-
अव्रतेनाप्यभक्तेन स्पृष्टां शूद्रेण चार्चनाम्
तां वर्जयामि राजेन्द्र श्वपाकविहितामिव
अहं च शङ्करश्चापि गावो विप्रास्तथैव च
अश्वत्थोऽमररूपं च त्रयमेतद्युधिष्ठिर
एतत् त्रयं हि मद्भक्तो नावमन्येत कर्हिचित्
अवमानितमेतत्तु दहत्यासप्तमं कुलम्
अश्वत्थो ब्राह्मणा गावो मन्मयास्तारयन्ति हि
तस्मादेतत् प्रयत्नेन त्रयं पूजय पाण्डव
युधिष्ठिरः-
ब्राह्मणेनैव देहेन शुद्रत्वं कथमाप्नुयात्
ब्रह्म वा नश्यति कथं वक्तुं देव त्वमर्हसि
श्रीभगवान्-
कूपस्नानं तु यो विप्रः कुर्याद्द्वादशवार्षिकम्
स तेनैव शरीरेण शूद्रत्वं यात्यसंशयः
यस्तु राजाश्रयेणैव जीवेद्द्वादशवार्षिकम्
स शूद्रत्वं व्रजेद्विप्रो वेदानां पारगोऽपि सन्
पत्तने नगरे वाऽपि यो द्वादश समा वसेत्
स शूद्रत्वं व्रजेद्विप्रो नात्र कार्या विचारणा
उत्पादयति यः पुत्रं शूद्रायां कामतो द्विजः
तस्य कायगतं ब्रह्म सद्य एव विनश्यति
मद्यपस्त्रीमुखं मोहाद् आस्वादयति यो द्विजः
तस्य कायगतं ब्रह्म सद्य एव विनश्यति
यस्सोमलतिकां विप्रः केवलं भक्षयेद्वृथा
तस्य कायगतं ब्रह्म सद्य एव विनश्यति
मैथुनं कुरुते यस्तु जिह्वायां ब्राह्मणो नृप
तस्य कायगतं ब्रह्म सद्य एव विनश्यति
विप्रत्वं दुर्लभं प्राप्य दुर्मार्गैरेवमादिभिः
विनाशयन्ति ये तत्तु ताञ्शोचामि युधिष्ठिर
तस्मात् सर्वप्रत्नेन मत्प्रियो यो युधिष्ठिर
जातिभ्रंशकरं कर्म न कुर्यादीदृशं द्विजः