वैशम्पायनः-
केशवेनैवमुक्ते तु चान्द्रायणविधिक्रमे
अपृच्छत् पुनरन्यांश्च धर्मान् धर्मात्मजो नृप
युधिष्ठिरः-
सर्वभूतपते श्रीमन् सर्वभूतनमस्कृत
सर्वभूतहितं धर्मं सर्वज्ञ कथयस्व मे
श्रीभगवान्-
यद्दरिद्रजनस्यापि स्वर्ग्यं सुखकरं भवेत्
सर्वपापप्रशमनं तच्छृणुष्व युधिष्टिर
कार्तिकाद्यास्तु ये मासा द्वादशैव प्रकीर्तिताः
तेष्वेकबुक्तनियमस् सर्वेषामुच्यते मया
कार्तिके यस्तु वै मासे नन्दायां संयतेन्द्रियः
एकभुक्तेन मद्भक्तो मासमेकं तु वर्तते
जलं वा न पिबेन्मासे नान्तरं भोजनात् परम्
आदित्यरूपं मां नित्यम् अर्चयन् सुसमाहितः
व्रतान्ते भोजयेद्विप्रान् दक्षिणां सम्प्रदाय च
क्रोधलोभविनिर्मुक्तस् तस्य पुण्यफलं शृणु
विधिवत् कपिलादाने यत् पुण्यं समुदाहृतम्
तत् पुण्यं समनुप्राप्य सूर्यलोके महीयते
ततश्चापि च्युतः कालात् पुरुषेषूपजायते
मार्गशीर्षं तु यो मासम् एकभुक्तेन वर्तते
कामं क्रोधं च लोभं च परित्यज्य यथाविधि
स्नात्वा चादित्यरूपं माम् अर्ययेन्नियतेन्द्रियः
जपेन्नेव तु गायत्रीं मामिकां वाग्यतश्शुचिः
मासे परिसमाप्ते तु भोजयित्वा द्विजाञ्शुचिः
तानर्चयति मद्भक्त्या तस्य पुण्यफलं शृणु
अग्निहोत्रे कृते पुण्यम् आहिताग्नेश्च यद्भवेत्
तत्पुण्यफलमासाद्य योनेनाम्बरशोभिना
सप्तर्षिलोके चरति यथाकालं यथासुखम्
ततश्चापि च्युतः कालाद्धरिवर्षेषु जायते
तत्र प्रकामं क्रीडित्वा राजा पश्चाद्भविष्यति
पौषमासं क्षिपेदेवम् एकभुक्तेन यो नरः
अर्चयन्नेव मां नित्यं मद्गतेनान्तरात्मना
अहिंसासत्यसहितः क्रोधहर्षविवर्जितः
एवं युक्तस्य राजेन्द्र शृणु यत् फलमुत्तमम्
विप्रातिथ्यसहस्रेषु यत् पुण्यं समुदाहृतम्
तत् पुण्यं समनुप्राप्य शक्रलोके महीयते
अवतीर्णस्ततः कालाद् इलावर्षे तु जायते
तत्र स्थित्वा चिरं कालम् अस्मिन् विप्रो भविष्यति
माघमासं तथा यस्तु वर्तते चैकभुक्ततः
मदर्चनपरो भूत्वा डम्भक्रोधविवर्जितः
मामिकामपि सावित्रीं सन्ध्यायां तु जपेद्बुधः
दत्त्वा दु दक्षिणामन्ते भोजयित्वा द्विजानपि
नमिस्करोति तान् भक्त्या मद्गतेनान्तरात्मना
त्रिकालं स्नानयुक्तस्य तस्य पुण्यफलं शृणु
नीलकण्ठप्रयुक्तेन यानेनाम्बरशोभिना
पितृलोकं व्रजेच्छ्रीमान्सेव्यमानोप्सरोणैः
तत्र प्रकामं क्रीडित्वा भद्राश्वेषूपजायते
ततश्च्युतश्चतुर्वेदी विप्रो भवति भूतले
यः क्षिपेत् फाल्गुनं मासम् एकभुक्तो जितेन्द्रियः
नमो ब्रह्मण्यदेवायेत्येतन्मन्त्रं जपेत् सदा
पायसं भोजयेद्विप्रान् व्रतान्ते संयतेन्द्रियः
मदर्चनपरोऽक्रोधस् तस्य पुण्यफलं शृणु
विमानं सारसैर्युक्तम् आरूढः कामगामि च
नक्षत्रलोके रमते नक्षत्रसदृशाकृतिः
ततश्चापि च्युतः कालात् केतुमालेषु जायते
तत्र प्रकामं क्रीडित्वा मानुषेषु मुनिर्भवेत्
चैत्रमासं तु यो राजन्नेकभुक्तेन वर्तते
ब्रह्मचारी तु मद्भक्तस् तस्य पुण्यफलं शृणु
यदग्निहोत्रिणः पुण्यं यथोक्तव्रतचारिणः
तत्पुण्यफकलमासाद्य चन्द्रलोके महीयते
ततोऽवतीर्णो जायेत वर्षे रमणके पुनः
भुक्त्वा कामांस्ततस्तस्मिन्निह राजा भविष्यति
वैशाखे यस्तु वै मासे एकभक्तेन वर्तते
द्विजमग्रासने कृत्वा भुञ्जन् भूमौ च वाग्यतः
नमो ब्रह्मण्यदेवायेत्यर्चयित्वा दिवाकरम्
व्रतान्ते भोजयेद्विप्रांस् तस्य पुण्यफलं शृणु
फलं यद्विधिवत् प्रोक्तम् अग्निष्टोमातिरात्रयोः
तत्पुण्यफलमासाद्य देवलोके महीयते
ततो हैमवते वर्षे जायते कालपर्ययात्
तत्र प्रकामं क्रीडित्वा विप्रः पश्चाद्भविष्यति
ज्येष्ठमासं तु यो राजन्नेकभक्तेन वर्तते
विप्रमग्रासने कृत्वा भूमौ भुञ्जन् यथाविधि
नमो ब्रह्मण्यदेवायेत्यर्चयन् मां समाहितः
डम्भानृतविनिर्मुक्तस् तस्य पुण्यफलं शृणु
चीर्णे चान्द्रायणे सम्यग् यत् पुण्यं समुदाहृतम्
तत्पुण्यफलमासाद्य देवलोके महीयते
अथोत्तरकुरुष्वेव जायते निर्गतस्ततः
ततश्चापि च्युतः कालाद् इह लोके द्विजो भवेत्
आषाढमासं यो राजन्नेकभक्तेन वर्तते
ब्रह्मचारी जितक्रोधो मदर्चनपरायणः
विप्रमग्रासने कृत्वा भूमौ भुञ्जञ्जितेन्द्रियः
कृत्वा त्रिषवणस्नानम् अष्टाक्षरविधानतः
व्रतान्ते भोजयेद्विद्वान् पायसेन युधिष्ठिर
गुडोदनेन राजेन्द्र तस्य पुण्यफलं शृणु
कपिलाशतदानस्य यत् पुण्यं पाण्डुनन्दन
तत्पुण्यफलमासाद्य देवलोके महीयते
ततोऽवतीर्णः कालेन शाकद्वीपे प्रजायते
ततश्चापि च्युतः कालाद् इह विप्रो भविष्यति
श्रावणं यः क्षिपेन्मासम् एकभुक्तेन संयतः
नमो ब्रह्मण्यदेवायेत्युक्त्वा मामर्चयेत् सदा
विप्रमाग्रासने कृत्वा भूमौ भुञ्जन् यथाविधि
पायसेनार्चयन् विप्राञ् जितक्रोधो जितेन्द्रियः
लोभमोहविनिर्मुक्तस् तस्य पुण्यफलं शृणु
कपिलादास्य यत् पुण्यं विधिदत् तस्य पाण्डव
तत् पुण्यं समनुप्राप्य शक्रलोके महीयते
ततश्चापि च्युत कालात् कुशद्वीपे प्रजायते
तत्र प्रकामं क्रीडित्वा विप्रो भवति मानुषे
यस्तु भाद्रपदं मासम् एकभक्तेन वर्तते
ब्रह्मचारी जितक्रोधस् सत्यसन्धो जितेन्द्रियः
विप्रमग्रासने कृत्वा पाकभेदविवर्जितः
नमो ब्रह्मण्यदेवायेत्युक्त्वाऽस्य चरणौ स्पृशेत्
तिलान् वाऽपि घृतान् वाऽपि व्रतान्ते दक्षिणां ददत्
मद्भक्तस्य नरश्रेष्ठ तस्य पुण्यफलं शृणु
यत् फलं विधिवत् प्रोक्तं राजसूयाश्वमेधयोः
तत् पुण्यफलमासाद्य शक्रलोके महीयते
ततश्चापि च्युतः कालाज् जायते धनदालये
तत्र प्रकामं क्रीडित्वा राजा भवति मानुषे
यश्चाप्याश्वयुजे मासम् एकभुक्तेन वर्तते
मद्गायत्रीं जपेद्भक्त्या मद्गतेनान्तरात्मना
द्विसन्ध्यं वा त्रिसन्ध्यं वा शतमष्टोत्तरं तु वा
नमो ब्रह्मण्यदेवायेत्यसकृन्मां प्रणम्य च
विप्रमग्रासने कृत्वा संयतेन्द्रियमानसः
व्रतान्ते भोजयेद्विप्रांस् तस्य पुण्यफलं शृणु
अश्वमेधस्य यत् पुण्यं विधिवत् पाण्डुनन्दन
तत्पुण्यफलमासाद्य मम लोके महीयते
ततश्चापि च्युतः कालाच् छ्वेतद्वीपे प्रजायते
तत्र भुक्त्वा महाभोगान् अत्र विप्रवरो भवेत्