युधिष्ठिरः-
चक्रायुध नमस्तेऽस्तु देवेश गरुडध्वज
चान्द्रायणविधिं पुण्यम् आख्याहि भगवन् मम
श्रीभगवान्-
शृणु पाण्डव तत्त्वेन सर्वपापप्रणाशनम्
पापिनो येन शुद्ध्यन्ति तत् ते वक्ष्यामि सर्वशः
ब्राह्मणः क्षत्रियो वाऽपि वैश्यो वा चरितव्रतः
यथावत् कर्तुकामो यस् तस्येयं प्रथमा क्रिया
शोधयेत्तु शरीरं स्वं पञ्चगव्येन यन्त्रितम्
सशिरः कृष्णपक्षे तु ततः कुर्वीत वापनम्
शुक्लवासाश्शुचिर्भूत्वा मौञ्जीं बध्नीत मेखलाम्
पालाशदण्डमादाय ब्रह्मचारिव्रते स्थितः
कृतोपवासः पूर्वं तु शुक्लप्रतिपदि द्विजः
नदीसङ्गमतीर्थेषु शुचौ देशे गृहेऽपि वा
गोमयेनोपलिप्तेऽथ स्थण्डिलेऽग्निं निधापयेत्
आघारावाज्यभागौ च प्रणवं व्याहृतिं तथा
वारुणं चैव पञ्चैव हुत्वा सर्वान् यथाक्रमम्
सत्याय विष्णवे चेति ब्रह्मर्षिभ्योऽथ ब्रह्मणे
विश्वेभ्यश्चैव देवेभ्यस् सप्रजापतये तथा
षट्कृत्वो जुहुयात् पश्चात् प्रायश्चित्ताहुतीर्द्विजः
ततस्समापयेदग्निं शान्तिं कृत्वाऽथ पौष्टिकिम्
प्रणम्य चाग्निं सोमं च भस्म धृत्वा तथात्मनि
नदीं गत्वा विविक्तात्मा सोमाय वरुणाय च
आदित्याय नमस्कृत्वा ततस्स्नायात् समाहितः
उत्तीर्योदकमाचम्य त्वासीनः पूर्वतोमुखः
प्राणायामं ततः कृत्वा पवित्रैरभिषेचनम्
आचान्तस्त्वमिवीक्षेत चोर्ध्वबाहुर्दिवाकरम्
कृताञ्जलिपुटः पश्चात् कुर्याच्चैव प्रदक्षिणम्
नारायणं वा रुद्रं वा ब्रह्मणमथवाऽपि च
आरण्यं मम सूक्तं वा प्राग्भोजनमथापि वा
वीरघ्नमृषभं वाऽपि तथा चाप्यघमर्षणम्
गायत्रीं मम देवीं वा सावित्रीं वा जपेत् ततः
शतं वाऽष्टशतं वाऽपि सहस्रमथवा परम्
ततो मध्याह्नकाले वै पायसं यावकं हि वा
पाचयित्वा प्रयत्नेन प्रयतस्सुसमाहितः
पात्रं तु ततस्समादाय सौवर्णं राजतं तु वा
ताम्रं वा मृन्मयं वाऽपि औदुम्बरमथापि वा
वृक्षाणां याज्ञियानं तु पर्णैरार्द्रैरकुत्सितैः
पुटकेन तु गुप्तेनि चरेद्भैक्षं समाहितः
ब्राह्मणानां गृहाणां तु सप्तानां नापरं व्रजेत्
गोदोहमात्रं तिष्ठेत्तु वाग्यतस्संयतेन्द्रियः
न हसेच्च न वीक्षेत नाभिभाषेत वा स्त्रिया
दृष्ट्वा मूत्रपुरीषं वा चण्डालं वा रजस्वलाम्
पतितं च तथा श्वानम् आदित्यमवलोकयेत्
यो हि पादुकमारुह्य सर्वदा प्रचरेद्द्विजः
तं दृष्ट्वा पापकर्माणम् आदित्यमवलोकयेत्
ततस्त्वावसथं प्राप्तो भिक्षां निक्षिप्य भूतले
प्रक्षाल्य पादावाजान्वोर्हस्तावाकूर्परं पुनः
आचम्य वारिणा तेन वह्निं विप्रांश्च पूययेत्
पञ्च सप्ताथवा कुर्याद् भागान् भैक्षस्य तस्य वै
तेषामन्यतमं पिण्डम् आदित्याय निवेदयेत्
ब्रह्मणे चाग्नये चैव सोमाय वरुणाय च
विश्वेभ्यश्चैव देवेभ्यो दद्यादन्नं यथाक्रमम्
अवशिष्टमथैकं तु वक्त्रमात्रं प्रकल्पयेत्
अङ्गुल्यग्रे स्थितं पिण्डं गायत्र्या चाभिमन्त्रयेत्
अङ्गुलीभिस्त्रिभिः पिण्डं प्राश्नीयात् प्राङ्मुखश्शुचिः
यथा च वर्धते सोमो ह्रसते च यथा पुनः
तथा पिण्डाश्च वर्धन्ते ह्रसन्ते च दिने दिने
त्रिकालं स्नानमस्योक्तं द्विकालमथवा सकृत्
ब्रह्मचारी सदा वाऽपि न च वस्त्रं प्रपीडयेत्
स्थानेन दिवसं तिष्ठेद् रात्रौ वीरासनं व्रजेत्
भवेत् स्थण्डिलशायी वाऽप्यथवा वृक्षमूलकः
वल्कलं यदि वा क्षौमं शाणं कार्पासकं तथा
आच्छादनं भवेत् तस्य वस्त्रार्थं पाण्डुनन्दन
एवं चान्द्रायणे पूर्णे मासस्यान्ते प्रयत्नवान्
ब्राह्मणान् भोजयेद्भक्त्या दद्याच्चैव च दक्षिणाम्
चान्द्रायणेन चीर्णेन यत् कृतं तेन दुष्कृतम्
तत् सर्वं तत्क्षणादेव भस्मीभवति काष्ठवत्
ब्रह्महत्या च गोहत्या सुवर्णस्तैन्यमेव च
भ्रूणहत्या सुरापानं गुरोर्दारव्यतिक्रमः
एवमन्यानि पापानि पातकीयानि यानि च
चान्द्रायणेन नश्यन्ति वायुना पांसवो यथा
अनिर्दशाया गोः क्षीरम् औष्ठ्रमाविकमेव च
मृतसूतकयोश्चान्नं भुक्त्वा चान्द्रायणं चरेत्
उपपातकिनश्चान्नं पतितान्नं तथैव च
शूद्रस्योच्छेषणं चैव भुक्त्वा चान्द्रायणं चरेत्
आकाशस्थं तु हस्तस्थम् अधस्स्रस्तं तथैव च
परहस्तस्थितं चैव भुक्त्वा चान्द्रायणं चरेत्
अथाग्रेधिषोरन्नं दिधिषूपपतेस्तथा
परिवेत्तुस्तथा चान्नं परिवित्तान्नमेव च
कुण्डान्नं गोलकान्नं च देवलान्नं तथैव च
तथा पुरोहितस्यान्नं भुक्त्वा चान्द्रायणं चरेत्
सुरासवं विषं सर्पिर् लाक्षा लवणमेव च
तैलं चापि च विक्रीणन् द्विजश्चान्द्रायणं चरेत्
एकोद्दिष्टं तु यो भुङ्क्ते जनमध्यगतोऽपि यः
भिन्नभाण्डेषु यो भुङ्क्ते द्विजश्चान्द्रायणं चरेत्
यो भुङ्क्तेऽनुपनीतेन यो भुङ्क्ते च स्त्रिया सह
यो भुङ्क्ते कन्यया सार्धं द्विजश्चान्द्रायणं चरेत्
उच्छिष्टं स्थापयेद्विप्रो यो मोहाद्भोजनान्तरे
दद्याद्वा यदि सम्मोहाद् द्विजश्चान्द्रायणं चरेत्
तुम्बकोशातकं चैव पलाण्डुं गृञ्जनं तथा
छत्राकं लशुनं चैव भुक्त्वा चान्द्रायणं चरेत्
द्विजः पर्युषितं चान्नं पक्वं परगृहागतम्
विपक्वं च तथा मांसं भुक्त्वा चान्द्रायणं चरेत्
उदक्यया शुना वाऽपि चण्डालैर्वा द्विजोत्तमः
दृष्टमन्नं तु भुञ्जानो द्विजश्चान्द्रायणं चरेत्
एतत् पुरा विशुद्ध्यर्थम् ऋषिभिश्चरितव्रतम्
पावनं सर्वभूतानां पुण्यं पाण्डव चोदितम्
एतेन वसवो रुद्राश्चादित्याश्च दिवं गताः
एतदद्य परं गुह्यं पवित्रं पापनाशनम्
यथोक्तमेतद्यः कुर्याद्द्विजः पापप्रणाशनम्
स दिवं याति पूतात्मा निर्मलादित्यसन्निभः