युधिष्ठिरः-
समुच्चयं च धर्माणां भोज्याभोज्यं च केशव
श्रुतं मया त्वत्प्रसादाद् आपद्धर्मं ब्रवीहि मे
श्रीभगवान्-
दुर्भिक्षे राष्ट्रसम्बाधे त्वाशौचे मृतसूतके
धर्मकालेऽध्वनि तथा नियमो येन लुप्यते
दूराध्वगमनात् खिन्नो द्विजालाभेऽथ शूद्रतः
अकृतान्नं तु यत् किञ्चिद् गृह्णीयादात्मवृत्तये
आतुरो दुःखितो वाऽपि भयार्तो वा बुभुक्षितः
भुञ्जन्नविधिना विप्रः प्रायश्चित्तीयते न च
निमन्त्रितस्तु यो विप्रो विधिवद्धव्यकव्ययोः
मांसादीन्यपि भुञ्जानः प्रायश्चित्तीयते न च
अष्टौ तान्यव्रतघ्नानि आपो मूलं घृतं पयः
हविर्ब्राह्मणकाम्या च गुरोर्वचनमौषधम्
अशक्तो विधिवत् कर्तुं प्रायश्चित्तानि यो नरः
विदुषां वचनेनापि दानेनापि विशुद्ध्यति
अनृतावृतुकाले वा दिवा रात्रौ तथाऽपि वा
प्रोषितस्तु स्त्रियं गच्छेत् प्रायश्चित्तीयते न च
युधिष्ठिरः-
प्रशस्याः कीदृशा विप्रा निन्द्याश्चापि सुरेश्वर
अष्टकायाश्च कः कालस् तन्मे कथय सुव्रत
श्रीभगवान्-
सत्यसन्धं द्विजं दृष्ट्वा स्थानाद्वेपति भास्करः
एष मे मण्डलं भित्त्वा याति ब्रह्म सनातनम्
कुलीनः कर्मकृद्वैद्यस् तथा चाप्यानृशंस्यवान्
श्रीमानृजुस्सत्यवादी पात्रं सर्व इमे द्विजाः
एते चाग्रासनस्थास्ते भुञ्जानाः प्रथमं द्विजाः
तस्यां पङ्क्त्यां च ये चान्ये तान् पुनन्त्येव दर्शनात्
मद्भक्ता ये द्विजश्रेष्ठा मद्गता मत्परायणाः
तान् पङ्क्तिपावनान् विद्धि पूज्यांश्चैव विशेषतः
निन्द्याञ्शृणु द्विजान् राजन्नपि वा वेदपारगान्
ब्राह्मणच्छद्मना लोके चरतः पापकारिणः
अनग्निरनधीयानः प्रतिग्रहरुचिस्तु यः
यत्र कुत्र तु भुञ्जानस् तं विद्यात् पङ्क्तिदूषकम्
मृतसूतकपुष्टाङ्गो यश्च शूद्रान्नभुग् द्विजः
असूयालुर्दुम्भपरो मगानहमिति ब्रुवन्
अहं चापि न जानामि गतिं तस्य नराधिप
शूद्रान्नरसपुष्टाङ्गोऽप्यधीयानो हि नित्यशः
जपतो जुह्वतश्चापि गतिरूर्ध्वं न विद्यते
आहिताग्निश्च यो विप्रश् शूद्रान्नान्न निवर्तते
पञ्च तस्य प्रणश्यन्ति आत्मा ब्रह्म त्रयोऽग्नयः
शूद्रप्रेषणकर्तुश्च ब्राह्मणस्य विशेषतः
भूम्यामन्नं प्रदातव्यं श्वसृगालसमो हि सः
प्रेतभूतं तु यश्शूद्रं ब्राह्मणो ज्ञानदुर्बलः
अनुगच्छेन्नीयमानं त्रिरात्रमशुचिर्भवेत्
त्रिरात्रे तु ततः पूर्णे नदीं गत्वा समुद्रगाम्
प्राणायामशतं कृत्वा घृतं प्राश्य विशुद्ध्यति
अनाथं ब्राह्मणं प्रेतं ये वहन्ति द्विजोत्तमाः
पदे पदेऽश्वमेधस्य फलं ते प्राप्नुवन्ति हि
न तेषामशुभं किञ्चित् पापं वा शुभकर्मणाम्
जलावगाहनादेव सद्यश्शौचं विधीयते
शूद्रवेश्मनि विप्रेणि क्षीरं वा यदि वा दधि
निवृत्तेन न भोक्तव्यं विद्धि शूद्रान्नमेव तत्
विप्राणां भोक्तुकामानाम् अत्यन्तं चान्नकाङ्क्षया
यो विघ्नं कुरुते मर्त्यस् ततो नान्योऽस्ति पापकृत्
सर्वे च वेदास्सह षङ्भिरङ्गैस् साङ्ख्यं पुराणं च कुले च जन्म
नैतानि सर्वाणि गतिर्भवन्ति शीलव्यपेतस्य नृप द्विजस्य
ग्रहोपरागे विषुवेऽयनान्ते पित्र्ये मघासु स्वसुते च जाते
गयेषु पिण्डेषु च पाण्डुपुत्र दत्तं भवेन्निष्कसहस्रतुल्यम्
वैशाखमासस्य च या तृतीयाऽनवद्याऽसौ कार्तिकशुक्लपक्षे
नभस्यमासस्य च कृष्णपक्षे त्रयोदशी पञ्चदशी च माघे
उपप्लवे चन्द्रमसो रवेश्च श्राद्धस्य कालो ह्ययनद्वये च
पानीयमप्यत्र तिलैर्विमिश्रं दद्यात् पितृभ्यः प्रयतो मनुष्यः
यस्त्वेकपङ्क्त्यां विषमं ददाति स्नेहाद्भयाद्वा यदि वाऽर्थहेतोः
क्रूरं दुराचारमनात्मवन्तं ब्रह्मघ्नमेनं मुनयो वदन्ति
इहैवैकस्य नामुत्र अमुत्रैकस्य नो इह
इह चामुत्र चैकस्य नामुत्रैकस्य नो इह
धनानि येषां विपुलानि सन्ति नित्यं रमन्ते परलोकमूढाः
तेषामयं शत्रुवरघ्नलोको नान्यत् सुखं देहसुखे रतानाम्
ये योगयुक्तास्तपसि प्रयुक्तास् स्वाध्यायशीला जरयन्ति देहम्
जितेन्द्रिया भूतहिते निविष्टास् तेषामसौ नाम शिपुघ्रलोकः
ये धर्ममेव प्रथमं चरन्ति धर्मेण लब्ध्वाऽपि धनानि लोके
दारानवाप्य क्रतुभिर्यजन्ते तेषामयं चैव परश्च लोकः
ये चैव विद्यां न तपो न दानं न चापि मूढाः प्रजने यतन्ते
न चापि गच्छन्ति सुखानि भोगांस् तेषामयं चैव परश्च नास्ति
युधिष्ठिरः-
नारायण पुराणेश लोकावास नमोस्तु ते
श्रोतुमिच्छामि कार्त्स्न्येन धर्मसारसमुच्चयम्
श्रीभगवान्-
धर्मसारं महाप्राज्ञ मनुना प्रोक्तमादितः
प्रवक्ष्यामि मनुप्रोक्तं पौराणां श्रुतिसंहितम्
अग्निचित् कपिला सत्री राजा भिक्षुर्महोदधिः
दृष्टमात्राः पुनत्येते तस्मात् पश्येत तान् सदा
गौरेकस्यैव दातव्या न बहूनां युधिष्ठिर
सा गौर्विक्रयमापन्ना दहत्यासप्तमं कुलम्
बहूनां न प्रदातव्या गौर्वस्त्रं शयनं स्त्रियः
तादृग्भूतं तु तद्दानं दातारं नोपतिष्ठति
आक्रम्य ब्राह्मणैर्भुक्तम् अनार्याणां च वेश्मनि
गोभिश्च पुण्यं तत् तेषां राजसूयाद्विशिष्यते
मा ददात्विति यो ब्रूयाद् ब्रूयाद् गोषु च ब्राह्मणेषु च
तिर्यग्योनिशतं गत्वा चण्डालेषूपजायते
ब्राह्मणस्वं च देवस्वं दरिद्रस्य च यद्धनम्
गुरोश्चापि हृतं राजन् स्वर्गस्थानपि पातयेत्
धर्मं जिज्ञासमानानां प्रमाणं परमं श्रुतिः
द्वितीयं धर्मशास्त्राणि तृतीयं लोकसङ्ग्रहः
आसमुद्राच्च यत् पूर्वाद् आसमुद्राच्च पश्चिमात्
हिमवद्विन्ध्ययोर्मध्यम् आर्यावर्तं प्रचक्षते
सरावतीदृषद्वत्योर् देवनद्योर्यदन्तरम्
तद्देवनिर्मितं देशं ब्रह्मवर्तं प्रचक्षते
यस्मिन् देशे य आचारः पारम्पर्यक्रमागतः
वर्णानां सान्तरालानां स सदाचार उच्यते
कुरुक्षेत्रं च मत्स्याश्च पाञ्चालाश्शूरसेनयः
एते ब्रह्मर्षिदेशास्तु ब्रह्मावर्तादनन्तराः
एतद्देशप्रसूतस्य सकाशादग्रजन्मनः
स्वं चारित्रं च गृह्णीयुः पृथिव्यां सर्वमानवाः
हिमवद्विन्ध्ययोर्मध्यं यत् प्राग् विशशनादपि
प्रत्यगेव प्रयागात्तु मध्यदेशः प्रकीर्तितः
कृष्णसारस्तु चरति मृगो यत्र स्वभावतः
स ज्ञेयो याज्ञिको देशो म्लेच्छदेशस्ततः परः
एतान् विज्ञाय देशांस्तु संश्रयेरर्द्विजातयः
शूद्रस्तु यस्मिन् कस्मिन् वा निवसेद्वृत्तिकर्शितः
आचारः प्रथमो धर्मो ह्यहिंसा सत्यमेव च
दानं चैव यथाशक्ति यमाश्च नियमैस्सह
वैदिकैः कर्मभिः पुण्यैर् निषेकादिर्द्विजन्मनाम्
कार्यश्शरीरसंस्कारः पावनः प्रेत्य चेह च
गर्भहोमैर्जातकर्मनामचौलोपनायनैः
स्वाध्यायैस्तद्व्रतैश्चैव विवाहस्नातकव्रतैः
महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः
धर्मोर्थौ यदि न स्यातां शुश्रुषा वाऽपि तद्विधा
विद्या तस्मिन् न वप्तव्या शुभं बीजमिवोषरे
लौकिकं वैदिकं वाऽपि तथाऽऽध्यात्मिकमेव वा
यस्माज्ज्ञानमिदं प्राप्तं तं पूर्वमभिवादयेत्
सव्येन सव्यस्स्प्रष्टव्यो दक्षिणेन तु दक्षिणः
न कुर्यादेकहस्तेन गुरोः पादाभिवादनम्
निषेकादीनि कर्माणि यः करोति यथाविधि
अध्यापयति चैवेनं स विप्रो गुरुरुच्यते
कृत्वोपनयनं वेदान् योऽध्यापयति नित्यशः
सकल्पान् सरहस्यांश्च स चोपाध्याय उच्यते
साङ्गांश्च वेदानध्याप्य शिक्षयित्वा व्रतानि च
विवृणोति च मन्त्रार्थान् आचार्यस्सोभिधीयते
उपाध्यायाद्दशाचार्य आचार्याणां शतं पिता
पितुश्शतगुणं माता गौरवेणातिरिच्यते
तस्मात् तेषां वशे तिष्ठिच् छुश्रूषापरमो भवेत्
अवमानाद्धि तेषां तु नरकं स्यान्न संशयः
हीनाङ्गानतिरिक्ताङ्गान् विद्याहीनान् वयोधिकान्
रूपद्रविणहीनांश्च न वाचाऽधिक्षिपेद्बुधः
शपता यत् कृतं पुण्यं शप्यमानं तु गच्छति
शप्यमानस्य यत् पापं शपन्तमनुगच्छति
नास्तिक्यं वेदनिन्दां च देवतानां च कुत्सनम्
द्वेषं डम्भं च मानं च क्रोधं तैक्ष्ण्यं च वर्जयेत्