युधिष्ठिरः-
श्रीभगवान्-
अनेकान्तं बहुद्वारं धर्ममाहुर्मनीषिणः
किल्लक्षणोऽसौ भवति तन्मे ब्रूहि जनार्दन
शृणु राजन् समासेन धर्मशौचविधिक्रमम्
अहिंसा सत्यमस्तेयम् आनृशंस्यं दमश्शमः
आर्जवं चैव राजेन्द्र निश्चितं धर्मलक्षणम्
ब्रह्मचर्यं तपः क्षान्तिर् मधुमांसस्य वर्जनम्
मर्यादायां स्थितिश्चैव शमश्शौचस्य लक्षणम्
बाल्ये विद्यां निषेवेत यौवने दारसङ्ग्रहम्
वार्धके मौनमातिष्ठेत् सर्वदा धर्ममाचरेत्
ब्राह्मणान् नावमन्येत गुरून् परिवदेन्न च
यतीनामनुकूलस्स्याद् एष धर्मस्सनातनः
यतिर्गुरुर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः
पतिरेव गुरुस्स्त्रीणां सर्वेषां पार्थिवो गुरुः
यद्गृहस्थार्जितं पापं ज्ञानतोऽज्ञानतोऽपि वा
निर्दहिष्यति तत् सर्वम् एकरात्रोषितो यतिः
दुर्वृत्ता वा सुवृत्ता वा ज्ञानिनोऽज्ञानिनोऽपि वा
गृहस्थैर्यतयः पूज्याः परत्र हितकाङ्क्षिभिः
एकदण्डी त्रिदण्डी वा शिखितो मुण्डितोऽपि वा
काषायदण्डधारोऽपि यतिः पूज्यो युधिष्ठिर
अपूजितो गृहस्थैर्वा तथा चाप्यवमानितः
यतिर्वाऽप्यतिथिर्वाऽपि नरके पातयिष्यतः
तस्मात्तु यतयः पूज्या मद्भक्ता मत्परायणाः
मयि सन्न्यस्तकर्माणः परत्र हितकाङ्क्षिभिः
प्रहरेन्न द्विजान् विप्रो गां न हन्यात् कदाचन
भ्रूणहत्यासमं चैव उभयं यो निषेवते
नाग्निं मुखेनोपधमेन्न च पादौ प्रतापयेत्
नाधः कुर्यात् कदाचित्तु न पृष्ठं परितापयेत्
नान्तरा गमनं कुर्यान्न चामेध्यं विनिक्षिपेत्
उच्छिष्टो न स्पृशेदग्निम् आशौचस्थो न जातुचित्
श्वचण्डालादिभिस्स्पृष्टो नाङ्गमग्नौ प्रतापयेत्
सर्वदेवमयो वह्निस् तस्माच्छुद्धस्सदा स्पृशेत्
प्राप्तमूत्रपुरीषस्तु न स्पृशेद्वह्निमात्मवान्
यावत्तु धारयेद्वेगं तावदप्रयतो भवेत्
पचनाग्निं न गृह्णीयात् परवेश्मनि जातुचित्
तेन पक्वेन चान्नेन यत् कर्म कुरुते शुभम्
तच्छुभस्य पलं चार्धम अग्निदस्य भवेन्नृप
तस्माच्छुभतरं कर्म प्रकुर्यादविनाशितम्
प्रमादाद्यदि वाऽज्ञानात् तस्य नाशो भविष्यति
गृह्णीयात्तु मथित्वा वा श्रोत्रियागारतोऽपि वा
युधिष्ठिरः-
कीदृशास्साधवो विप्रास् तेभ्यो दत्तं महाफलम्
कीदृशेभ्यो हि दातव्यं तन्मे ब्रूहि जनार्दन
श्रीभगवान्-
अक्रोधनास्सत्यपरा धर्मनित्या जितेन्द्रियाः
तादृशास्साधवो विप्रास् तेभ्यो दत्तं महत् फलम्
अमानिनस्सर्वसहा दृष्टार्था विजितेन्द्रियाः
सर्वभूतहिता मैत्रास् तेभ्यो दत्तं महत् फलम्
अलुब्धाश्शुचयो वैद्या हीमन्तस्सत्यवादिनः
स्वधर्मनिरता ये तु तेभ्यो दत्तं महत् फलम्
साङ्गंश्च चतुरो वेदान् योऽधीयेत दिने दिने
शूद्रान्नं यस्य नो देहे तत् पात्रमृषयो विदुः
प्रज्ञाश्रुताभ्यां वृत्तेन शीलेन च समन्वितः
तारयेत् तत् कुलं सर्वम् एकोऽपीह युधिष्ठिर
गामश्वमन्नं वित्तं वा तद्विधे प्रतिपादयेत्
निशम्य च गुणोपेतं ब्राह्मणं साधुसम्मतम्
दूरादाहृत्य सत्कृत्य तं प्रयत्नेन पूजयेत्
युधिष्टिरः-
धर्माधर्मविधिर्देव मम भीष्मेण भाषितः
भीष्मवाक्यात् सारभूतं वद धर्मं सुरेश्वर
श्रीभगवान्-
अन्नेन धार्यते सर्वं जगदेतच्चराचरम्
अन्नात् प्रभवति प्राणः प्रत्यक्षं नास्ति संशयः
कलत्रं पीडयित्वा तु देशकाले च शक्तितः
दातव्यं भिक्षवे चान्नम् आत्मनो भूतिमिच्छता
विप्रमध्वपरिश्रान्तं बालं वृद्धमथापि वा
अर्चयेद्गुरुवत् प्रीतो गृहस्थो गृहमागतम्
क्रोधमुत्पतितं हित्वा सुशीलो वीतमत्सरः
अर्चयेदतिथिं प्रीतः परत्र हितभूतये
अतिथिं नावमन्येत नानृतां गिरमीरयेत्
न पृच्छेद्गोत्रचरणं नाधीतं वा कदाचन
चण्डालो वा श्वपाको वा काले यः कश्चिदागतः
अन्नेन पूजनीयस्स्यात् परत्र हितमिच्छता
पिधाय तु गृहद्वारं भुङ्क्ते योऽन्नं प्रहृष्टवान्
स्वर्गद्वारपिधानं वै कृतं तेन युधिष्ठिर
पितॄन् देवानृषीन् विप्रान् अतिथींश्च निराश्रयान्
यो नरः प्रीणयत्यन्नैस् तस्य पुण्यफलं महत्
कृत्वाऽपि पापं बहुशो यो ददत्यन्नमर्थिने
ब्राह्मणाय विशेषेण सर्वपापैः प्रमुच्यते
अन्नदः प्राणदो लोके प्राणदस्सर्वदो भवेत्
तस्मादन्नं विशेषेण दातव्यं भूतिमिच्छता
अन्नं ह्यमृतमित्याहुर् अन्नं प्रजननं स्मृतम्
अन्नप्रणाशो सीदन्ति शरीरे पञ्च धातवः
बलं बलवतो नश्येद् अन्नहीनस्य देहिनः
तस्मादन्नं प्रदातव्यं श्रद्धयाऽश्रद्धयापि वा
आदत्ते हि रसं सर्वम् आदित्यस्स्वगभस्तिभिः
वायुस्तस्मात् समादाय रसं मेधेषु धारयेत्
तत्तु मेघगतं भूमौ शक्रो वर्षति तद्रसम्
तेन दिग्धा भवेद्देवी मही प्रीता च पाण्डव
तस्यां सस्यानि रोहन्ति यैर्जीवन्त्यखिलाः प्रजाः
एवं सूर्यश्च पवनो मेघश्शक्रस्तथैव च
एक एव स्थितो राशिर् यतो भूतानि जज्ञिरे
भवनानि च दिव्यानि दिवि तेषां महात्मनाम्
नानासंस्थानरूपाणि नानाभूतयुतानि च
चन्द्रमण्डलशुभ्राणि किङ्किणीजालवन्ति च
तरुणादित्यवर्णानि स्थावराणि चराणि च
अनेकशतसङ्ख्यानि सान्तर्जलवनानि च
तत्र पुष्पफलोपेताः कामदास्सुरपादपाः
वाप्यो दिव्यास्सरःकूपा दीर्घिकाश्च सहस्रशः
भक्ष्यभोज्यमयाश्शैला वासांस्याभरणानि च
क्षीरस्रवन्त्यस्सरितस् तथा चैवान्नपर्वताः
घोषवन्ति च यानानि युक्तान्यथ सहस्रशः
प्रासादप्रवराः शुभ्राः शय्याश्च कनकोज्ज्वलाः
अन्नदास्तत्र तिष्ठन्ति तस्मादन्नप्रदो भवेत्