युधिष्ठिरः-
इदं मे तत्त्वतो देव वक्तुमर्हस्यशेषतः
हिंसामकृत्वा यो मर्त्यो ब्रह्महत्यामवाप्नुयात्
श्रीभगवान्-
ब्राह्मणं स्वयमाहूय भिक्षार्थं कृशवृत्तिनम्
ब्रूयान्नास्तीति यः पश्चात् तमाहुर्ब्रह्मघातकम्
मध्यस्थस्येह विप्रस्य योऽनूचानस्य भारत
वृत्तिं हरति दुर्बुद्धइस् तमाहुर्ब्रह्मघातकम्
गोकुलस्य तृषार्तस्य जलान्ते वसुधाधिप
उत्पादयति यो विघ्नं वमाहुर्ब्रह्मघातकम्
यः प्रवृत्तां श्रुतिं सम्यक् छास्त्रं वा मुनिभिः कृतम्
दूषयत्यनभिज्ञाय तमाहुर्ब्रह्मघातकम्
आश्रमे वा वने वाऽपि ग्रामे वा नगरेऽपि वा
अग्निं यः प्रक्षिपेत् क्रुद्धस् तमाहुर्ब्रह्मघातकम्
चक्षुषा वाऽपि विहीनस्य पङ्गोर्वाऽपि जडस्य वा
हरेद्वै यस्तु सर्वस्वं तमाहुर्ब्रह्मघातकम्
क्रोधाद्वा यदि वा द्वेषाद् आक्रुष्टस्तर्जितोऽपि वा
ऋतौ स्त्रियं वा नोपेयात् तमाहुर्ब्रह्मघातकम्
यावत्सारो भवेद्दीनस् तन्नाशे यस्य दुस्स्थितिः
तत्सर्वस्वं हरेद्यो वै तमाहुर्ब्रह्मघातकम्
युधिष्ठिरः-
सर्वेषामपि दानानां यत्तु दानं विशिष्यते
अभोज्यान्नाश्च ये विप्रास् तान् ब्रवीहि सुरोत्तम
श्रीभगवान्-
अन्नमेव प्रशंसन्ति देवा ब्रह्मपुरस्सराः
अन्नेन सदृशं दानं न भूतं न भविष्यति
अन्नमूर्जस्करं लोके अन्नात् प्राणाः प्रतिष्ठिताः
अभोज्यान्नान् मया राजन् वक्ष्यमाणान् निबोध मे
दीक्षितस्य कदर्यस्य बद्धस्य निगलेन तु
अभिशस्तस्य षण्डस्य पाकभेदकरस्य च
चिकित्सकस्य दूतस्य तथा चोच्छिष्टभोजिनः
उग्रान्नं सूतकान्नं च शूद्रोच्छेषणमेव च
द्विषदन्नं न भोक्तव्यं पतितान्नं च यच्छ्रुतम्
तथा च पिशुनस्यान्नं यज्ञविक्रयिणस्तथा
शैलूषतन्तुवायान्नं कृतघ्नस्यान्नमेव च
अम्बष्ठस्य निषादस्य रङ्गावतरकस्य च
सुवर्णकर्तुर्वैणस्य शस्त्रविक्रयिणस्तथा
सूतानां शौण्डिकानां च वैद्यस्य रजकस्य च
स्त्रीजितस्य नृशंसस्य तथा माहिषकस्य च
अनिर्दशानां प्रेतानां गणिकानां तथैव च
बन्दिनो द्यूतकर्तुश्च तथा द्यूतविदामपि
परिवित्तस्य यच्चान्नं परिवेत्तुस्तथैव च
यश्चाग्रदिधिषुर्विप्रो दिधिषूपपिस्तथा
तयोरप्युभयोरन्नं राज्ञां चापि विवर्जयेत्
राजान्नं तेज आदत्ते शूद्रान्नं ब्रह्मवर्चसम्
आयुस्सुवर्णकारान्नं यशश्चार्मावकृन्तिनः
गणान्नं गणिकान्नं च लोकेभ्यः परिकृन्तति
पूयं चिकित्सकस्यान्नं शुक्लं तु वृषलीपतेः
विष्ठा वार्धुषिकस्यान्नं तस्मात् तत् परिवर्जयेत्
तेषां त्वगस्थिरोमाणि भुङ्क्ते योऽन्नं तु भक्षयेत्
अमात्यान्नमथैतेषां भुक्त्वा तु त्रियहं क्षिपेत्
मत्या भुक्त्वा सकृद्वाऽपि प्राजापत्यं चरेद्द्विजः
दानानां च फलं यद्वै शृणु पाण्डव तत्त्वतः
जलदस्तृप्तिमाप्नोति सुखमक्षयमन्नदः
तिलदस्तु प्रजामिष्टां दीपदश्चक्षुरुत्तमम्
भूमदो भूमिमाप्नोति दीर्घमायुर्हिरण्यदः
गृहदोऽग्र्याणि वेश्मानि रूप्यदो रूपमुत्तमम्
वासोदश्चन्द्रसालोक्यम् अश्विसालोक्यमश्वदः
अनडुद्दश्श्रियं जुष्टां गोदो गोलोकमश्नुते
यानशय्याप्रदो भार्याम् ऐश्वर्यमभयप्रदः
धान्यदश्शाश्वतं सौख्यं ब्रह्मदो ब्रह्मसाम्यताम्
सर्वेषामेव दानानां ब्रह्मदानं विशिष्यते
हिरण्यभूगवाश्वाजवस्त्रशय्यासनादिषु
योऽर्चितं प्रतिगृह्णाति ददात्यर्चितमेव च
तावुभौ गच्छतस्स्वर्गं नरकं तु विपर्यये
अनृतं न वदेद्विद्वांस् तपस्तप्त्वा न विस्मयेत्
नार्तोऽप्यपवदेद्विप्रान् न दत्त्वा परिकीर्तयेत्
यज्ञोऽनृतेन क्षरति तपः क्षरति विस्मयात्
आयुर्विप्रापवादेन दानं तु परिकीर्तनात्
एकः प्रजायते जन्तुर् एक एव प्रमीयते
एकोऽनुभुङ्क्ते सुकृतम् एकश्चाप्नोति दुष्कृतम्
मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं क्षितौ
विमुखा बान्धवा यान्ति धर्मस्तमनुगच्छति॥
अनागतानि कार्याणि कर्तुं गणयते मनः
शरीरकं समुद्वीक्ष्य स्मयते नूनमन्तकः
तस्माद्धर्मसहासस्तु धर्मं सञ्चिनुयात् सदा
धर्मेण हि सहायेन तमस्तरति दुस्तरम्
येषां तटाकानि बहूदकानि सभाश्च कूपाश्च प्रतिश्रयाश्च
अन्नप्रदानं मधुरा च वाणी यमस्य ते निर्विषया भवन्ति