वैशम्पायनः-
एवं श्रुत्वा परं पुण्यं कपिलादानमुत्तमम्
धर्मपुत्रः प्रहृष्टात्मा केशवं पुनरब्रवीत्
युधिष्ठिरः-
देवदेवश कपिला यदा विप्राय दीयते
कथं सर्वेषु चाङ्गेषु तस्यास्तिष्ठन्ति देवताः
याश्चैताः कपिलाः प्रोक्ता दश चैव त्वया मम
तासां कति सुरश्रेष्ठ कपिलाः पुण्यलक्षणाः
कथं वाऽनुगृहीतास्तास् सुरैः पितृगणैरपि
केन युक्ताश्च वर्णेन श्रोतुं कौतूहलं हि मे
वैशम्पायनः-
युधिष्ठिरेणैवमुक्तः केशवस्सत्यवाक् तदा
गुह्यानां परमं गुह्यं वक्तुमेवोपचक्रमे
श्रीभगवान्-
शृणु राजन् पवित्रं वै रहस्यं धर्ममुत्तमम्
ग्रहणीयं सत्यमिदं न श्राव्यं हेतुवादिना
यदा वत्सस्य पादौ द्वौ प्रसवे शिरसा सह
दृश्येते दानकालं तम् आहुः कालविदो जनाः॥
अन्तरिक्षगतो वत्सो यावद्भूमिं न यास्यति
गौस्तावत् पृथिवी ज्ञेया तस्माद्देया तु तादृशी
यावन्ति धेनो रोमाणि सवत्साया युधिष्ठिर
यावन्त्यास्सिकताश्चापि गर्भोदकपरिप्लुताः
तावद्वर्षसहस्राणि दाता स्वर्गे महीयते
सुवर्णाभरणां कृत्वा सवत्सां कपिलां तिलैः
प्रच्छाद्य तां तु दद्याद्वै सर्वरत्नैरलङ्कृताम्
सुसमुद्रनदी तेन सशैलवनकानना
चतुरन्ता भवेद्दत्ता नात्र कार्या विचारणा
पृथिवीदानतुल्येन तेन दानेन मानवः
संसारसागरात् तीर्णो याति लोकं प्रजापतेः
ब्रह्महा यदि वा गोघ्नो भ्रूणहा गुरुतल्पगः
महापातकयुक्तोऽपि दानेनानेन शुद्ध्यति
इदं पठति यः पुण्यं कपिलादानमुत्तमम्
प्रातरुत्थाय मद्भक्त्या तस्य पुण्यफलं शृणु
मनसा कर्मणा वाचा मतिपूर्वं युधिष्ठिर
पापं रात्रिकृतं हन्याद् अस्याध्यायस्य पाठकः
इदमावर्तमानस्तु श्राद्धे यस्तर्पयेद्द्विजान्
तस्याप्यमृतमश्नन्ति पितरोऽत्यन्तहर्षिताः
यश्चेदं शृणुयाद्भक्त्या मद्गतेनान्तरात्मना
तस्य रात्रिकृतं सर्वुं पापमाशु प्रणश्यति
अतः परं विशेषं तु कपिलानां ब्रवीमि ते
याश्चैताः कपिलाः प्रोक्ता दश राजन् मया तव
तासां चतस्रः प्रवराः पुण्याः पापनाशनाः
सुवर्णकपिला पुण्या तथा रक्ताक्षिपिङ्गला
पिङ्गलाक्षी च या गौश्च या स्यात् पिङ्गलपिङ्गला
एताश्चतस्रः प्रवराः पवित्राः पापनाशनाः
नमस्कृता वा स्पृष्टा वा घ्नन्ति पापं नरस्य तु
यस्यैताः कपिलास्सन्ति गृहे पापप्रणाशनाः
तत्र श्रीर्विजयः कीर्तिस् स्थिरा नित्यं युधिष्ठिर
एतासां प्रीतिमायाति क्षीरेण तु वृषध्वजः
दध्ना च त्रिदशास्सर्वे घृतेन च हुताशनः
पितरः पितामहाश्चैव तथैव प्रपितामहाः
सकृद्देत्तेन तुष्यन्ति वर्षकोटिं युधिष्ठिर
कपिलाया घृतं क्षीरं दधि पायसमेव वा
श्रोत्रियेभ्यस्सकृद्दत्वा नरः पापैः प्रमुच्यते
उपवासं तु यः कृत्वाऽप्यहोरात्रं जितेन्द्रियः
कपिलापञ्चगव्यं तु पीत्वा चान्द्रायणात् परम्
सौम्ये मुहूर्ते तत् प्रशय शुद्धात्मा शुद्धमानसः
क्रोधानृतविनिर्मुक्तो मद्गतेनान्तरात्मना
कपिलापञ्चगव्येन सुमन्त्रेण पृथक् पथक्
यो मत्प्रतिकृतिं वाऽपि शङ्कराकृतिमेव वा
स्नापयेद्विषुवे यस्तु सोऽश्वमेधफलं लभेत्
स मुक्तपापः पूतात्मा यानेनाम्बरशोभिना
मम लोकं व्रजेन्मुक्तो रुद्रलोकमथापि वा
ब्रह्मणा तु पुरा सृष्टा कपिला काञ्चनप्रभा
अग्निकुण्डात् परैर्मन्त्रैर् होमधेनुर्महाप्रभा
सृष्टमात्रां तु तां दृष्ट्वा देवा रुद्रादयो दिवि
सिद्धा ब्रह्मर्षयश्चैव वेदास्साङ्गास्सहाध्वराः
सागरास्सरितश्चैव पर्वतास्सवलाहकाः
गन्धर्वाप्सरसो यक्षाः पन्नगाश्चाप्युपस्थिताः
सर्वे विस्मयमापन्नाश् शिखिमध्ये महाप्रभाम्
मन्त्रैश्च विविधैस्सर्वास् तुष्टुवुस्तामनेकशः
कृताञ्जलिपुटास्सर्वे ताम्रशृङ्गीं त्रिलोचनाम्
शिरोभिः पतिता भूमौ सवत्साममृतारणिम्
देवताः-
ऊचुः प्राञ्जलयस्सर्वे चतुर्वक्त्रं पितामहम्
आज्ञापय महादेव किं ते कुर्म प्रियं विभो
श्रीभगवान्-
ब्रह्मा-
एवमुक्तस्सुरैस्सर्वैर् ब्रह्मा वचनमब्रवीत्
भवन्तोऽप्यनुगृह्णन्तु दोग्ध्रीमेनां पयस्विनीम्
होमधेनुरियं ज्ञेया ह्यग्नीन् सन्तर्पयिष्यति
अतोऽग्निस्तर्पितस्सर्वान् भवतस्तर्पयिष्यति
प्रीताः क्षीरामृतेनास्या जातवीर्यपराक्रमाः
जयिष्यथ यथाकामं दानवान् सर्व एव तु
जातवीर्यबलैश्वर्यास् सत्त्ववन्तो जितारयः
अदेवमातृकास्सर्वाः पालयिष्यथ वै प्रजाः
पालिताश्च प्रजास्सर्वा भवद्भिरिह धर्मतः
पूजयिष्यन्ति वो नित्यं यज्ञैर्विविधदक्षिणैः
श्रीभगवान्-
एवमुक्तास्सुरास्सर्वे ब्रह्मणा परमेष्ठिना
ततस्संहृष्टमनसः कपिलायै वरं ददुः
देवताः-
यस्माल्लोकहितायाद्य ब्रह्मणा त्वं विनिर्मिता
तस्मात् पूता पवित्रा च भव पापव्यपोहिनी
ये त्वां दृष्ट्वा नमस्यन्ति स्पृशन्ति च करैर्नराः
तेषां वर्षकृतं पापं त्वद्भक्तानां प्रणश्यति
अकामकृतमज्ञानम् अदृष्टं यत्तु पातकम्
त्वां दृष्ट्वा ये नमस्यन्ति नरास्सर्वंसहेति च
तेषां तद्विलयं याति तमस्सूर्योदये यथा
श्रीभगवान्-
इत्युक्त्वाऽस्यै वरं दत्त्वा प्रययुस्ते यथागतम्
लोकनिस्तरणार्थाय सा च लोकांश्चचार ह
तस्यामेव समुद्भूताश् शेषाश्च कपिला नव
विचरन्ति महीमेनां लोकानुग्रहकारणात्
तस्मात्तु कपिला देया परत्र हितमिच्छता
यदा च दीयते राजन् कपिला ह्यग्निहोत्रिणे
तदाऽशृङ्गयोस्तस्या विष्णुरिन्द्रश्च तिष्ठतः
चन्द्रवज्रधरौ चापि तिष्ठतश्शृङ्गमूलयोः
शृङ्गमध्ये तथा ब्रह्मा ललाटे गोवृषध्वजः
कर्णयोरश्विनौ देवौ चक्षुषोश्शशिभास्करौ
दन्तेषु मरुतो देवा जिह्वायां च सरस्वती
रोमान्ते मुनयस्सर्वे चर्मण्येव प्रजापतिः
निश्श्वासेषु स्थिता वेदास् सषडङ्गपदक्रमाः
नासापुटे स्थिता गन्धाः पुष्पाणि सुरभीणि च
अधरे वसवस्सर्वे मुखे चाग्निः प्रतिष्ठितः
साध्या देवास्स्थिताः कक्षे ग्रीवायां पार्वती स्थिता
पृष्ठे च नक्षत्रगणाः ककुद्देशे नभस्स्थतम्
अपाने सर्वतीर्थानि गोमूत्रे जाह्नवी स्वयम्
अष्टैश्वर्यमयी लक्ष्मीर् गोमये वसते तदा
नासिकायां सदा देवी ज्येष्ठा वसति भामिनी
श्रोणीतटस्थाः पितरो रमालाङ्गूलमाश्रिता
पार्श्वयोरुभयोस्सर्वे विश्वे देवाः प्रतिष्ठिताः
तिष्ठत्युरसि तासां तु प्रीतश्शक्तिधरो गुहः
जानजङ्घोरुदेशेषु पञ्च तिष्ठन्ति वायवः
खुरमध्येषु गन्धर्वाः खुराग्रेषु च पन्नगाः
चत्वारस्सागराः पूर्णास् तस्या एव पयोधराः
रतिर्मेधा क्षमा स्वाहा श्रद्धा शान्तिर्धृतिस्स्मृतिः
कीर्तिर्दीप्तिः क्रिया कान्तिस् तुष्टिः पुष्टिश्च सन्ततिः
दिशश्च प्रदिशश्चैव सेवन्ते कपिलां सदा
देवा पितृगणाश्चापि गन्धर्वाप्सरसां गणाः
लोका द्वीपार्णवाश्चैव गङ्गाद्यास्सरितस्तथा
ग्रहाः पितृगणाश्चापि वेदास्साङ्गास्सहाध्वरैः
वेदोक्तैर्विविधैर्मन्त्रैस् स्तुवन्ति हृषितास्तथा
विद्याधराश्च ये सिद्धा भूतास्तारागणास्तथा
पुष्पवृष्टिं च वर्षन्ति प्रनृत्यन्ति च हर्षिताः
देवाः-
ब्रह्मणोत्पादिता देवी वह्निकुण्डान्महाप्रभा
नमस्ते कपिले पुण्ये सर्वदेवैर्नमस्कृते
कपिलेऽथ महासत्वे सर्वतीर्थमये शुभे
दातारं स्वजनोपेतं ब्रह्मलोकं नय स्वयम्
अहो रत्नमिदं पुण्यं सर्वदुःखघ्नमुत्तमम्
अहो धर्मार्जितं शुद्धम् इदमग्र्यं महद् धनम्
श्रीभगवान्-
इत्याकाशस्थितस्ते तु जल्पन्ति च रमन्ति च
तस्याः प्रतिग्रहीता च भुङ्क्ते यावद्द्विजोत्तमः
तावद्देवगणास्सर्वे कपिलामर्चयन्ति वै
स्वर्णशृङ्गीं रूप्यखुरां गन्धैः पुष्पैस्सुपूजिताम्
वस्त्राभ्यामहताभ्यां तु यावत् तिष्ठत्यलङ्कृता
तावद्यदिच्छेत् कपिला मन्त्रपूता सुसंस्कृता
भूलोकवासिनस्सर्वान् ब्रह्मलोकं नयेत् स्वयम्
भूरश्वः कनकं गावो रूप्यमन्नं तिला यवाः
दीयमानानि विप्राय प्रहृष्यन्ति दिने दिने
अथ त्वश्रोत्रियेभ्यो वै तानि दत्तानि पाण्डव
तथा निन्दन्त्यथात्मानम् अशुभं किं नु नः कृतम्
अहो रक्षःपिशाचैश्च लुप्यमानास्समन्ततः
यास्यामो निरयं शीघ्रम् इति शोचन्ति तानि वै
एतान्यपि द्विजेभ्यो वै श्रोत्रियेभ्यो विशेषतः
दीयमानानि हृष्यन्ति दातारं तारयन्ति च
युधिष्ठिरः-
देवदेवेश दैत्यघ्न कालः को हव्यकव्ययोः
के तत्र पूजामर्हन्ति वर्जनीयाश्च के द्विजाः
श्रीभगवान्-
दैवं पूर्वाह्णिकं ज्ञेयं पैतृकं चापराह्णिकम्
कालहीनं च यद्दानं तद्दानं राजसं विदुः
अवदृष्टं च यद्भुक्तम् अनृतेन च भारत
परामृष्टं शुना वाऽपि तद्भागं राक्षसं विदुः
यावन्तः पतिता विप्रा जडोन्मत्तादयोऽपि च
दैवे च पित्र्ये ते विप्रा राजन् नार्हन्ति सत्क्रियाम्
क्लीबः प्लही च कृष्ठी च राजयक्ष्मान्वितश्च यः
अपस्मारी च यश्चापि पित्र्ये नार्हति सत्क्रियाम्
चिकित्सका देवलका वृथा नियमधारिणः
सोमविक्रयिणश्चापि श्राद्धे नार्हन्ति सत्कृतिम्
एकोद्दिष्टे च ये चान्नं भुञ्जते विधिवद्द्बिजाः
चान्द्रायणमकृत्वा ते पुनर्नार्हन्ति सत्कृतिम्
गायका नर्तकाश्चैव प्लवका वादकास्तथा
कथका यौधिकाश्चैव श्राद्धे नार्हन्ति सत्क्रियाम्
अनग्नयश्च ये विप्राः प्रतिनिर्यातकाश्च ये
स्तेनाश्चापि विकर्मस्था राजन् नार्हन्ति सत्कृतिम्
अपरिज्ञातपूर्वाश्च गणपुत्राश्च ये द्विजाः
पुत्रिकापुत्रकाश्चापि श्राद्धे नार्हन्ति सत्कृतिम्
रणकर्ता च यो विप्रो यश्च वाणिज्यको द्विजः
प्राणिविक्रयवृत्तिश्च श्राद्धे नार्हन्ति सत्कृतिम्
चीर्णव्रतगुणैर्युक्ता नित्यं स्वाध्यायतत्पराः
सावित्रीज्ञाः क्रियावन्तस् ते श्राद्धे सत्कृतिक्षमाः
श्राद्धस्य ब्राह्मणः कालप्राप्तो दधि घृतं तथा
दर्भास्सुमनसः क्षेत्रं तत्काले श्राद्धदो भवेत्
चारित्रनिरता राजन् कृशा ये कृशवृत्तयः
अर्थिनश्चोपगच्छन्ति तेभ्यो दत्तं महत् फलम्
तपस्विनश्च ये विप्रास् तथा भैक्षचराश्च ये
अर्थिनः केचिदिच्छन्ति तेषां दत्तं महत् फलम्
एवं धर्मविदां श्रेष्ठ ज्ञात्वा सर्वात्मना तदा
श्रोत्रियाय दरिद्राय प्रयच्छानुपकारिणे
दानं यत् ते प्रियं किञ्चिच् छ्रोत्रियाणां च यत् प्रियम्
तत् प्रयच्छस्व धर्मज्ञ यदीच्छसि तदक्षयम्
निरयं ये च गच्छन्ति तच्छृणुष्व युधिष्ठिर
गुर्वर्थं वा गवार्थं वा नो चेदन्यत्र पाण्डव
वदन्ति येऽनृतं विप्रास् ते वै निरयगामिनः
परदारापहर्तारः परदारामिमर्शकाः
परदारप्रयोक्तारस् ते वै निरयगामिनः
सूचकास्सन्धिभेत्तारः परद्रव्योपजीविनः
अकृतज्ञाश्च विप्राणां ते वै निरयगामिनः
वर्णाश्रमाणां ये बाह्याः पाषण्डास्थाश्च पाण्डव
उपासते च तानेव ते सर्वे नरकालयाः
वेदविक्रयिणश्चैव वेदानां चैव दूषकाः
वेदानां लेखकाश्चैव ते वै निरयगामिनः
रसविक्रयिणो राजन् विषविक्रयिणश्च ये
क्षीरविक्रयिणश्चापि ते वै निरयगामिनः
चण्डालेभ्यश्च ये क्षीरं प्रयच्छन्ति नराधमाः
अर्थार्थमथवा स्नेहात् ते वै निरयगामिनः
पशूनां दमकाश्चैव तथा नासानुवेधकाः
पुंस्त्वहिंसाकरश्चैव ते वै निरयगामिनः
अदातारस्समर्था ये द्रव्याणां लोभकारणात्
दीनानन्धान् न पश्यन्ति ते वै निरयगामिनः
क्षान्तान् दान्तान् कृशान् प्राज्ञान् दीर्घकालसहोषितान्
त्यजन्ति कृतकृत्या ये ते वै निरयगामिनः
बालानामपि वृद्धानां श्रान्तानां चापि ये नराः
अदत्त्वाऽश्नान्ति ये मृष्टं ते वै निरयगामिनः
एते पूर्वर्षिभिः प्रोक्ता नरा निरयगामिनः
ये स्वर्गं समनुप्राप्तास् ताञ् छृणुष्व युधिष्ठिर
दानेन तपसा चैव सत्येन च दमेन च
ये धर्ममनुवर्तन्ते ते नरास्स्वर्गगामिनः
शुश्रूषयाऽप्युपाध्यायाच् छ्रुतमादाय पाण्डव
ये प्रतिग्रहनिस्स्नेहास् ते नरास्स्वर्गगामिनः
मधुमांसासवेभ्यस्तु निवृत्ता व्रत्तवत्तु ये
परदारनिवृत्ताश्च ये ते नरास्स्वर्गगामिनः
मातरं पितरं चैव शुश्रूषन्ति च ये नराः
भ्रातॄणामपि सस्नेहास् ते नरास्स्वर्गगामिनः
ये तु भोजनकाले तु निर्याताश्चातिथिप्रियाः
द्वाररोधं न कुर्वन्ति ते नरास्स्वर्गगामिनः
वैवाहिकं तु कन्यानां दरिद्राणां च ये नराः
कारयन्ति च कुर्वन्ति ते नरास्स्वर्गगामिनः
रसानामथ बीजानाम् ओषधीनां तथैव च
दातारश्श्रद्धयोपेतास् ते नरास्स्वर्गगामिनः
क्षेमाक्षेमं च मार्गेषु समानि विषमाणि च
अर्थिनां ये च वक्ष्यन्ति ते नरास्स्वर्गगामिनः
पर्वद्वये चतुर्दश्याम् अष्टम्यां सन्ध्ययोर्द्वयोः
आर्द्रायां जन्मनक्षत्रे विषुवे श्रवणेऽथवा
ये ग्राम्यधर्मविरतास् ते नरास्स्वर्गगाप्तिनः
हव्यकव्यविधानं च नरकस्वर्गगामिनौ
धर्माधर्मौ च कथितौ किं भूयश्श्रोतुमिच्छसि