वैशम्पायनः-
दानपुण्यफलं श्रुत्वा तपः पुण्यफलानि च
धर्मपुत्रः प्रहृष्टात्मा केशवं पुनरब्रवीत्
युधिष्ठिरः-
या चैषा कपिला देव पूर्वमुत्पादिता विभो
होमधेनुस्सदा पुण्या चतुर्वक्त्रेण माधव
सा कथं ब्राह्मणेभ्यो हि देया कस्मिन् दिनेऽपि वा
कीदृशाय च विप्राय दातव्या पुण्यलक्षणा
कति वा कपिलाः प्रोक्तास् स्वयमेव स्वयम्भुवा
कैर्वा देयाश्च ता देव श्रोतुमिच्छामि तत्त्वतः
वैशम्पायनः-
एवमुक्तो हृषीकेशो धर्मपुत्रेण संसदि
अब्रवीत् कपिलासङ्क्यां तासां माहात्म्यमेव च
श्रीभगवान्-
शृणु पाण्डव तत्त्वेन पवित्रं पावनं परम्
यच्छ्रुत्वा पापकर्माऽपि नरः पापैः प्रमुच्यते
अग्निमध्योद्भवां दिव्याम् अग्निज्वालासमप्रभाम्
अग्निज्वालोज्ज्वलच्छृङ्गीं प्रदीप्ताङ्गारलोचनाम्
अग्निपुच्छामग्निखुराम् अग्निरोमप्रभान्विताम्
तामग्नेयीमग्निजिह्वाम् अग्निग्रीवां ज्वलत्प्रभाम्
भुञ्जते कपिलां ये तु शूद्रा लोभेन मोहिताः
पतितांस्तान् विजानीयाच् चण्डालसदृशा हि ते
न तेषां ब्राह्ममः कश्चिद् गृहे कुर्यात् प्रतिग्रहम्
दूराच्च परिहर्तव्या महापातकिनो हि ते
सार्वकालं हि ते सर्वैर् वर्जिताः पितृदैवतैः
ते सदा ह्यप्रतिग्राह्या ह्यसम्भाष्याश्च पापिनः
पिबन्ति कपिलां यावत् तावत् तेषां पितामहाः
अमेध्यमुपभुञ्जन्ति भूम्यां वै श्वसृगालवत्
कपिलाया घृतं क्षीरं दधि तक्रमथापि वा
ये शूद्रा उपभुञ्जन्ति तेषां गतिमिमां शृणु
कपिलोपजीवी शूद्रस्तु मृतो गच्छति रौरवम्
क्लिश्यते रौरवे घोरे वर्षकोटिशतं वसन्
रौरवाच्च परिभ्रष्टो विष्ठायां जायते क्रिमिः
विष्ठागर्तेषु संविष्ठो दुर्गन्धेषु सहस्रशः
तत्र तत्रोपजायेत नोत्तारं तत्रथ विन्दति
ब्राह्मणश्चैव यस्तेषां गृहे कुर्यात् प्रतिग्रहम्
ततः प्रभृति तस्यापि पितरस्स्युरमेध्यपाः
न तेन सार्धं सम्भाषेन्न चाप्येकासनं व्रजेत्
स नित्यं वर्जनीयो हि दूरात्तु ब्राह्मणाधमः
यस्तेन सह सम्भाषेद् एकशय्यां व्रजेत वा
प्राजापत्यं चरेत् कृच्छ्रं स च तेन विशुद्ध्यति
कपिलोपजीविनश्शूद्राद् यः करोति प्रतिग्रहम्
प्रायश्चित्तं भवेत् तस्य विप्रस्यैतन्न संशयः
ब्रह्मकूर्चं प्रकुर्वीति चान्द्रायणमथापि वा
मुच्यते किल्बिषात् तस्माद् एतेन ब्राह्मणो हि सः
कपिला ह्यग्निहोत्रार्थे यज्ञार्थे च स्वयम्भुवा
सर्वतस्तेज उद्धृत्य ब्रह्मणा निर्मिता पुरा
पवित्रं च पवित्राणां मङ्गलानां च मङ्गलम्
पुण्यानां परमं पुण्यं कपिला पाण्डुनन्दन
तपसां तप एवाग्र्यं व्रातनां व्रतमुत्तमम्
दानानां परमं दानं निधानं ह्येतदक्षयम्
पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च
पवित्राणि च रम्याणि सर्वलोकेषु पाण्डव
तेभ्यस्तेजस्समुद्धृत्य ब्रह्मणा लोककर्तृणा
लोकनिस्तरणायैव निर्मिता कपिला स्वयम्
सर्वतेजोमयी ह्येवं कपिला पाण्डुनन्दन
सदाऽमृतवहा मेध्या शुचिः पावनमुत्तमम्
क्षीरेण कपिलायास्तु दध्ना वा सघृतेन वा
होतव्यान्यग्निहोत्राणि सायं प्रातर्द्विजातिभिः
कपिलाया घृतेनापि दध्ना क्षीरेण वा पुनः
जुह्वते योऽग्निहोत्राणि ब्राह्मणा विधिवत् प्रभो
पूजयन्त्यतिथींश्चैव परां भक्तिमुपागताः
शूद्रान्नाविरता नित्यं डम्भानृतविवर्जिताः
ते यान्त्यादित्यसङ्काशैर् विमानैर्द्विजसत्तमाः
सूर्यमण्डलमध्येन ब्रह्मलोकमनुत्तमम्
ब्रह्मणो भवने दिव्ये कामगाः कामरूपिणः
ब्रह्मणा पूज्यमानास्तु मोदन्ते कल्पमक्षयम्
एवं हि कपिला राजन् पुण्या मन्त्रामृतारणिः
आदावेवाग्निमध्यात्तु मैत्रेयी ब्रह्मनिर्मिता
शृङ्गाग्रे कपिलायास्तु सर्वतीर्थानि पाण्डव
ब्रह्मणो हि नियोगेन निवसन्ति दिने दिने
प्रातरुत्थाय यो मर्त्यः कपिलाशृङ्गमस्तकात्
च्युता आपस्तु शीर्षेण धारयेत् प्रयतश्शुचिः
स तेन पुण्यतीर्थेन सहसा हतकिल्विषः
वर्षत्रयकृतं पापं प्रदहत्यग्निवत् तृणम्
मूत्रेण कपिलायास्तु यस्तु प्रातरुपस्पृशेत्
स्नानेन तेन पुण्येन नष्टपापस्स मानवः
त्रिंशद्वर्षकृतात् पापान्मुच्यते नात्र संशयः
प्रातरुत्थाय यो भक्तया प्रयच्छेत् तृणमुष्टिकम्
तस्य नश्यति तत् पापं त्रिंशद्रात्रकृतं नृप
प्रातरूत्थाय यद्भक्त्या कुर्याद्यस्तां प्रदक्षिणम्
प्रदक्षिणीकृता तेन पृथिवी नात्र संशयः
प्रदक्षिणेन चैकेन श्रद्धायुक्तेन पाण्डव
दशरात्रकृतं पापं तस्य तन्नश्यति ध्रुवम्
कपिलापञ्चगव्येन यस्स्नायात्तु शुचिर्नरः
स गङ्गाद्येषु तीर्थेषु स्नातो भवति पाण्डव
तेन स्नानेन तस्यापि श्रद्दायुक्तस्य पाण्डव
दशरात्रकृतं पापं तत्क्षणादेव नश्यति
दृष्ट्वा तु कपिलां भक्त्या श्रुत्वा हुङ्कारनिस्स्वनम्
व्यपोहति नरः पापम् अहोरात्रकृतं नृप
यत्र वा तत्र वा चाङ्गे कपिलां यस्स्पृशेच्छुचिः
संवत्सरकृतं पापं विनाशयति पाण्डव
गोसहस्रं च यो दद्याद् एकां च कपिलां नरः
समं तस्य फलं प्राह ब्रह्मलोके पितामहः
यस्त्वेकां कपिलां हन्यान्नरः कश्चित् प्रमादतः
गोसहस्रं हतं तेन भवेन्नात्र विचारणा
यस्त्वेकां कपिलां दद्याच् छ्रोत्रियायाहिताग्नये
गवां शतसहस्रं तु दत्तं भवति पाण्डव
दशेह कपिलाः प्रोक्तास् स्वयमेव स्वयम्भुवा
यो दद्याच्छ्रोत्रियेभ्यो वै स्वर्गं गच्छति तच्छृणु
प्रथमा स्वर्णकपिला द्वितीया गौरपिङ्गला
तृतीया रक्तपिङ्गाक्षी चतुर्थीं गलपिङ्गला
पञ्चमी बभ्रुवर्णाभा षष्ठी च श्वेतपिङ्गला
सप्तमी रङ्गपिङ्गाक्षी त्वष्टमी खुरपिङ्गला
नवमी पाटला ज्ञेया दशमी पुच्छपिङ्गला
दशैताः कपिलाः प्रोक्तास् तारयन्ति नरान् सदा
मङ्गल्याश्च पवित्राश्च सर्वपापप्रणाशनाः
एवमेव ह्यनड्वाहो दश प्रोक्ता नरेश्वर
ब्राह्मणो वाहयेत् तांस्तु नान्यो वर्णः कथञ्चन
न वाहयेच्च कपिलां क्षेत्रे वाऽध्वनि वा द्विजः
वाहयेद्धुङ्कृतेनैव शाखया वा सपत्रया
न दण्डेन न वा यष्ट्या वा न पाशेन च वा पुनः
न क्षुत्तृष्णाश्रमश्रान्तान् वाहयेद्विकलेन्द्रियान्
सुतृप्तेषु न भुञ्जीयात् पिबेत् पीतेषु चोदकम्
शुश्रूषोर्मातरश्चैताः पितरस्ते प्रकीर्तिताः
अह्नां पूर्वं त्रिभागे तु धुर्याणां वाहनं स्मृतम्
विश्रामेन्मध्यमे भागे भागे चान्ते यथासुखम्
यत्र च त्वरया कृत्यं संशयो यत्र चाध्वनि
वाहयेत् तत्र धुर्यांस्तु न स पापेन लिप्यते
अन्यथा वाहयन् राजन् निरयं याति रौरवम्
रुधिरं पातयेत् तेषां यस्तु मोहान्नराधिप
भ्रूणहत्यासमं पापं तस्य स्यात् पाण्डुनन्दन
तेन पापेन पापात्मा नरकं यात्यसंशयम्
नरकेषु च सर्वेषु समास्स्थित्वा शतं शतम्
इह मानुष्यके लोके बलीवर्दो भविष्यति
तस्मात्तु मुक्तिमन्विच्छन् दद्यात्तु कपिलां नरः
कपिलां वाहयेद्यस्तु वृषलो लोभमोहितः
तेन देवास्त्रयस्त्रिंशत् पितरश्चापि वाहिताः
स देवैः पितृभिर्नित्यं वध्यमानस्सुदुर्मतिः
नरकान्नरकं घोरं गच्छेदाप्रलयं नृप
ब्रह्मा रुद्रस्तथाऽग्निश्च कपिलानां गतिं गताः
तस्मात् ते तु न हन्तव्याः पूज्यास्ते तु विशेषतः
निश्श्वसन्ति यदा श्रान्तास् तदा हन्युश्च तत् कुलम्
यावन्ति तेषां रोमाणि तावद्वर्षशतं नृप
नरके परिपच्यन्ते तत्र तद्वाहका नराः
कपिला सर्वयज्ञेषु दक्षिणार्थं विधीयते
तस्मात्तद्दक्षिणा देया यज्ञेष्वेव द्विजातिभिः
होमार्तं चाग्निहोत्रस्य यां प्रयच्छेत् प्रयत्नतः
श्रोत्रियाय दरिद्राय श्रान्ताय च यतात्मने
तेन दानेन पूतात्मा सोऽग्निलोके महीयते
यावन्ति चैव रोमाणि कपिलायां नरेश्वर
तावद्वर्षसहस्राणि नरस्स्वर्गे महीयते
सुवर्णखुरशृङ्गीं च कपिलां यः प्रयच्छति
विषुवे चायने चापि सोऽश्वमेधफलं लभेत्
तेनाश्वमेधतुल्येन मम लोकं स गच्छति
स्वर्णशृङ्गीं रूप्यखुरां सवत्सां कांस्यदोहनाम्
वस्त्रैरलङ्कृतां पुष्टां गन्धैर्माल्यैश्च शोभिताम्
पवित्रं हि पवित्राणां सुवर्णमिति मे मतिः
तस्मात् सुवर्णाभरणा दातव्या चाग्निहोत्रिणे
एवं दत्त्वा तु राजेन्द्र सप्त पूर्वान् परानपि
तारयिष्यति राजेन्द्र नात्र कार्या विचारणा
अग्निष्टोमसहस्रस्य वाजपेयं च तत्समम्
वाजपेयसहस्रस्य अश्वमेधं च तत्समम्
अश्वमेधसहस्रस्य राजसूयं च तत्समम्
कपिलानां सहस्रेण विधिदत्तेन पाण्डव
राजसूयफलं प्राप्य मम लोके महीयते
न तस्य पुनरावृत्तिर् विद्यते कुरुपुङ्गव
प्रयच्छते यः कपिलां सचेलां सकांस्यदोहां कनकाण्र्यश्रृङ्गीम्
तैस्तैर्गुणैः कामदुघा च भूत्वा नरं प्रदातारमुपैति सा गौः
स्वकर्मभिश्चाप्यनुबध्यमानं तीव्रान्धकारे नरके पतन्तम्
महार्णवे नौरिव वायुनीता दत्ता हि गौस्तारयते मनुष्यम्
पुत्रांश्च पौत्रांश्च कुलं च सर्वम् आसप्तमं तारयते परत्र।
यावन्मनुष्यान् पृथिवी बिभर्ति तावत् प्रदातारमितोऽपरत्र
यथौषधं मन्त्रकृतं नरस्य प्रयुक्तमात्रं विनिहन्ति रोगान्
तथैव दत्ता कपिला सुपात्रे पापं नरस्याशु निहन्ति सर्वम्
यथैव दृष्ट्वा भुजगास्सुपर्णं नश्यन्ति दूराद्विवशा भयार्ताः
तथैव दृष्ट्वा कपिलाप्रदानं नश्यन्ति पापानि नरस्य शीघ्रम्
यथा त्वचं स्वां भुजगो विहाय पुनर्नवं रूपमुपैति पुण्यम्
तथैव मुक्तः पुरुषस्स्वपापैर् विरज्यते वै कपिलाप्रदानात्
यथाऽन्धकारं नयनेषु लग्नं दीप्तो हि निर्यातयति प्रदीपः
तथा नरे पापमपिप्रलीनं निर्यातयेद्वै कपिलाप्रदानाम्
यावन्ति रोमाणि भवन्ति तस्या वत्सान्वितायाश्च शरीरजानि
तावत् प्रदाता युगवर्षकोटिं स ब्रह्मलोके रमते मनुष्यः
यस्याहिताग्नेरतिथिप्रियस्य शूद्रान्नदूरस्य जितेन्द्रियस्य
सत्यव्रतस्याध्ययनान्वितस्य दत्ता हि गौस्तारयते परत्र