युधिष्ठिरः-
विप्रयोगे शरीरस्य सेन्द्रियस्य विशेषतः
अन्तरा वर्तमानस्य गतिः प्राणस्य कीदृशी
श्रीभगवान्-
शुभाशुभकृतं सर्वं प्राप्नोतीह फलं नरः
न तु सर्वस्य भूतस्य पञ्चत्वं वाऽपि विद्यते
पञ्चत्वं पाण्डवश्रेष्ठ भूरिभूतिकरं नृणाम्
तेषां पञ्च महायज्ञान् ये कुर्वन्ति द्विजोत्तमाः
पञ्चत्वं पञ्चभिर्भूतैर् वियोगं सम्प्रचक्षते
न जायते न म्रियते पुरुषश्शाश्वतस्सदा
प्रायेण मरणं नाम पापिनामेव पाण्डव
येषां तु न गतिः पुण्या तेषां मरणमुच्यते
प्रायेणाकृतकृत्यस्तु मृत्योरुद्विजते जनः
कृतकृत्याः प्रतीक्षन्ते मृत्युं प्रियमिवातिथिम्
युधिष्ठिरः-
पञ्च यज्ञाः कथं देव क्रियन्तेऽत्र द्विजातिभिः
तेषां नाम च देवेश वक्तुमर्हस्यशेषतः
श्रीभगवान्-
शृणु पञ्च महायज्ञान् कीर्त्यमानान् युधिष्ठिर
यैरेव ब्रह्मसालोक्यं लभन्ते गृहमेधिनः
ऋषियज्ञं ब्रह्मयज्ञं भूतयज्ञं च पाण्डव
नृयज्ञं पितृयज्ञं च पञ्च यज्ञान् प्रचक्षते
तर्पणं ऋषियज्ञस्स्यात् स्वाध्यायो ब्रह्मयज्ञकम्
भूतयज्ञो बलिर्ज्ञेयो नृयज्ञोऽतिथिपूजनम्
पितॄनुद्दिश्य यत् कर्म पितृयज्ञः प्रकीर्तितः
हुतं चाप्यहुतं चैव तथा प्रहुतमेव च
प्राशितं बलिदानं च पाकयज्ञान् प्रचक्षते
वैश्वदेवादयो होमा हुतमित्युच्यते बुधैः
अहुतं च भवेद्दत्तं प्रहुतं ब्राह्मणाशितम्
प्राणाग्निहोत्रहोमं च प्राशितं विधिवद्विदुः
बलिकर्म च राजेन्द्र पाकयज्ञाः प्रकीर्तिताः
केचित् पञ्च महायज्ञान् पाकयज्ञान् प्रचक्षते
अपरे ब्रह्मयज्ञादीन् महायज्ञविदो विदुः
सर्व एते महायज्ञास् सर्वथा परिकीर्तिताः
बुभुक्षितान् ब्राह्मणांस्तु यथाशक्ति न हापयेत्
अहन्यहनि ये त्वेतान् अकृत्वा भुञ्जते स्वयम्
केवलं मलमश्नन्ति ते नार न च संशयः
तस्मात् स्नात्वा द्विजो विद्वान् कुर्यादेतान् दिने दिने
अतोऽन्यथा तु भुञ्जन् वै प्रायश्चित्ती भवेद्द्विजः
युधिष्टिरः-
देवदेव नमस्तेऽस्तु त्वद्भक्तस्य जनार्दन
वक्तुमर्हसि देवेश स्नानस्य च विधिं मम
श्रीभगवान्-
शृणु पाण्डव तत् सर्वं पवित्रं पापनाशनम्
स्नात्वा येन विधानेन मुच्यन्ते किल्बिषाद्द्विजाः
मृदं च गोमयं चैव तिलान् दर्भांस्तथैव च
पुष्पाण्यपि यथालाभम् आदाय तु जलं व्रजेत्
नद्यां सत्यां न च स्नायद् अन्यत्र द्विजसत्तम
सति प्रभूते पयसि नाल्पे स्नायात् कदाचन
गत्वोदकसमीपं तु शुचौ देशे मनोरमे
ततो मृद्गोमयादीनि तत्रावेक्ष्य विनिक्षिपेत्
बहिः प्रक्षाल्य पादौ च द्विराचम्य प्रयत्नतः
प्रदक्षिणं समावृत्य नमस्कुर्यात्तु तज्जलम्
न च प्रक्षालयेत् तीर्थम् अद्भिर्विद्वान् कदाचन
न च पादेन वा हन्याद्धस्तेनान्येन तज्जलम्
सर्वदेवमया ह्यापो मन्मयाः पाण्डुनन्दन
तस्मात् तास्तु न हन्तव्यास् त्वद्भिः प्रक्षालयेत् स्थलं
केवलं प्रथमं मज्जेन्नाङ्गानि विमृजेद्बुधः
तत् तीर्थं स समासाद्य कुर्यादाचमनं पुनः
गोकर्णाकृतिवत् कृत्वा करं त्रिः प्रपिबेज्जलम्
द्विस्तत् परिमृजेद्वक्त्रं पादावभ्युक्ष्य चात्मनः
शीर्षण्यांस्तु ततः प्राणान् सकृदेव तु संस्पृशेत्
बाहू द्वौ च ततस्स्पृष्ट्वा हृदयं नाभिमेव च
प्रत्यङ्गमुदकं स्पृष्ट्वा मूर्धानं तु ततस्स्पृशेत्
आपः पुनन्त्वित्युक्त्वा च पुनराचमनं चरेत्
सोङ्कारव्याहृतीर्वाऽपि सदसस्पतिमित्यृचम्
आचम्य मृत्तिकाः पश्चात् त्रिधाकृत्य समालभेत्
ऋचेदं विष्णुरित्यङ्गम् उत्तमाधममध्यमम्
आलभ्य वारुणैस्सूक्तैर् नमस्कृत्य जलं ततः
स्रवन्ती चेत् प्रतिस्रोतः प्रत्यर्कं चान्यवारिषु
मज्जेदोमित्युदाहृत्य न च विक्षोभयेज्जलम्
गोमयं च त्रिधा कृत्वा जले पूर्वं समालभेत्
सव्याहृतिं सप्रणवां गायत्रीं च पुनर्जपेत्
पुनराचमनं कृत्वा मद्गतेनान्तरात्मना
आपोहिष्ठेति तिसृभिर् दर्भपूतेन वारिणा
तथा तरत्समन्दीभिस् सिञ्चेच्चतसृभिः क्रमात्
गोसूक्तेनाश्वसूक्तेन शुद्धवर्गेण चाप्यथ
वैष्णवैर्वारुणैस्सूक्तैस् सावित्रैरिन्द्रदेवतैः
वामदैव्येन चात्मानम् अन्यैर्मन्मयसामभिः
स्थित्वाऽन्तस्सलिले सूक्तं जपेद्वाचाऽघमर्षणम्
सव्याहृतीकां सप्रणवां गायत्रीं वा ततो जपेत्
आश्वासमोक्षात् प्रणवं जपेद्वा मामनुस्मरन्
उत्प्लुत्य तीरमासाद्य धौते शुक्ले च वाससी
शुद्धे चाच्छादयेत् कक्षे न कुर्यात् परिपाशके
पाशेन बद्ध्वा कक्षे यत् कुरुते कर्म वैदिकम्
राक्षसा दानवा दैत्यास् तद्विलुम्पन्ति हर्षिताः
तस्मत् सर्वप्रयत्नेन कच्छपाशे न धारयेत्
ततः प्रक्षाल्य पादौ द्वौ हस्तौ चैव मृदा शनैः
आचम्य पुनराचामेत् ततस्सावित्रिया द्विजः
प्राङ्मुखोदङ्मुखो वाऽपि ध्यायन्वेदान्समाहितः
जले जलगतश्शुद्धस् स्थल एव स्थले स्थितः
उभयत्र स्थितस्तस्माद् आचामेदात्मशुद्धये
दर्भेषु दर्भपाणिस्सन् प्राङ्मुखस्सुसमाहितः
प्राणायामांस्ततः कृत्वा मद्गतेनान्तरात्मना
सहस्रकृत्वस्सावित्रीं शतकृत्वस्तु वा जपेत्
समाप्ते तु जपे तस्मिन् सावित्र्या चाभिमन्त्र्य च
मन्देहानां विनाशाय रक्षसां विक्षिपेज्जलम्
उद्वर्गोऽसीत्यथाचान्तः प्रायश्चित्तजलं क्षिपेत्
अथादाय सुपुष्पाणि तोयन्यञ्जलिना द्विजः
प्रक्षिप्य प्रतिसूर्यं च व्योममुद्रां प्रकल्पयेत्
ततो द्वादशकृत्वस्तु सूर्यस्यैकाक्षरं जपेत्
ततष्षडक्षरादीनि त्रिः कृत्वः परिवर्तयेत्
प्रदक्षिणं परामृश्य मुद्रया स्वमुखं तया
ऊर्ध्वबाहुस्ततो भूत्वा सूर्यमीक्षेत् समाहितः
तन्मण्डलस्थं मां ध्यायेत् तोजोमूर्तिं चतुर्भुजम्
उदुत्यं च जपेन्मन्त्रं चित्रं तच्चक्षुरित्यपि
सावित्रीं च यथाशत्ति जप्त्वा सूक्तं च मामकम्
मन्मयानि च सामानि पुरुषव्रतमेव च
ततश्चालोकयेदर्कं हंसश्शुचिषदित्यृचा
प्रदक्षिणं समावृत्य नमस्कृत्य दिवाकरम्
ततस्तु तर्पयेदद्भिर् मां ब्रह्माणं च शङ्करम्
प्रजापतिं च देवांश्च तथा देवमुनीनपि
साङ्गानपि तथा वेदान् इतिहासान् क्रतूंस्तथा
पुराणानि च दिव्यानि कुलान्यप्सरसां तथा
ऋतून् संवत्सरांश्चैव कालान् कालात्मकं तथा
भूतग्रामांश्च भूतानि सरितस्सागरांस्तथा
शैलाञ्शैलस्थितान् देवान् ओषधीस्सवनस्पतीः
तर्पयेदुपवीती तु प्रत्येकं तृप्यतामिति
अन्वारभ्य च सव्येन पाणिना दक्षिणेन तु
निवीती तर्पयेत् विश्चाद् ऋषीन् मन्त्रकृतस्तथा
मरीच्यादिमुनींश्चैव नारदान्तान् समाहितः
प्राचीनावीत्यथैतांस्तु तर्पयेद्देवताः पितॄत्
ततस्तु कव्यवाडग्निं सोमं वैवस्वतं तथा
ततश्चार्यमणं चापि अग्निष्वात्तांस्तथैव च
सोमपांश्चैव दर्भेषु सतिलैरेव वारिभिः
तृप्यतामिति पश्चात्तु सपितॄंस्तर्पयेत् ततः
पितॄन् पितामहांश्चैव तथैव प्रपितामहान्
पितामहीस्तथा चापि तथैव प्रपितामहीः
मातरं चात्मनश्चैव तथा मातामहीमपि
मातुर्मातामहीं चैव गुरुमाचार्यमेव च
उपाध्यायान् सखीन् बन्धूञ् शिष्यर्त्विग्ज्ञातिपुत्रकान्
प्रमीतानानृशंस्यार्थं तर्पयेत् तानमत्सरः
तर्पयित्वा तथाऽऽचम्य स्नानवस्त्रं प्रपीडयेत्
वृद्धिं भृत्यजनस्याहुस् स्नानं पानं च तद्विदः
अतर्पयित्वा तान् पूर्वं स्नानवस्त्रं न पीडयेत्
पीडयेच्चेत् पुरा मोहाद् देवास्सर्पिगणास्तथा
पितरश्च निराशास्ते शप्त्वा यान्ति यथागतम्
प्रक्षाल्य च मृदा पादावाचम्य प्रयतः पुनः
दर्भेषु दर्भपाणिस्सन् स्वाध्यायं तु समारभेत्
वेदमादौ समारभ्य ततोपर्युपरि क्रमात्
यदधीते स्वयं शक्त्या तत् स्वाध्यायं प्रचक्षते
ऋचं वाथ यजुर्वाऽपि सामगाथामथापि च
इतिहासपुराणानि यथाशक्ति न हापयेत्
उत्थाय तु नमस्कृत्य दिशो दिग्देवता अपि
ब्रह्माणं च ततश्चाग्निं पृथिवीमोषधीस्तथा
वाचं वाचस्पतिं चैव मां चैव सरितस्तथा
नमस्कृत्वा तथाऽद्भिस्तु प्रणवादि च पूजयेत्
ततो नमोऽद्भ्य इत्युक्त्वा नमस्कुर्यात्तु तज्जलम्
घृणिस्सूर्यस्तथाऽऽदित्यस् त्रिस्स्वमूर्ध्नि ततो जलैः
सिक्त्वाऽवालोकयेदर्कं प्रणवेन समाहितः
ततो मामर्चयेत् पुष्पैर् मत्प्रियैरेव नित्यशः
युधिष्ठिरः-
त्वत्प्रियाणि प्रसूनानि त्वदनिष्ठानि माधव
सर्वाण्याचक्ष्व देवेश त्वद्भक्तस्य ममाच्युत
श्रीभगवान्-
शृणुष्वावहितो राजन् पुष्पाणि प्रियकृन्ति मे
कुमुदं करवीरं च चणकं चम्पकं तथा
मल्लिका जातिपुष्पं च नन्द्यावर्तं च नन्दिकम्
वनमाला च राजेन्द्र मत्प्रियाणि विशेषतः
पलाशपुष्पपत्राणि दूर्वा भृङ्गकमेव च
सर्वेषामपि पुष्पाणां सहस्रगुणमुत्पलम्
तस्मात् पद्मं तथा राजन् पद्मात्तु शतपत्रकम्
तस्मात् सहस्रपत्रं तु पुण्डरीकं ततः परम्
पुण्डरीकसहस्रात्तु तुलसी गुणतोऽधिका
बकपुष्पं ततस्तु स्यात् सौवर्णं तु ततोऽधिकम्
सौवर्णात्तु प्रसूनाच्च मत्प्रियं नास्ति पाण्डव
पुष्पाभावे तुलस्यास्तु पत्रैर्मामर्चयेद्बुधः
पत्रालाभे तु शाखाभिश् शाखालाभे शिफाफलैः
शिफाभावे मृदा तत्र भक्तिमानर्चयेत माम्
येन फेन प्रकारेण तुलसीदलपूर्वकैः
पुष्पैः फलैर्वाऽप्यन्नाद्यैर् मदाराधनमुत्तमम्
वर्जनीयानि पुष्पाणि शृणु राजन् समाहितः
किङ्किणी मुनिपुष्पं च दुत्तूरं पाटलं तथा
तथाऽतिमुक्तकं चैव पुन्नागं नक्तमालिकम्
यौधिकं क्षीरिकापुष्पं निर्गुण्डी लाङ्गुली जपा
कर्णिकारं तथाऽशोकं शल्मलीपुष्पमेव च
ककुभाः कोविदाराश्च वैभीतकमथापि च
कुरण्टकप्रसूनं च कल्पकं लाङ्गली तथा
अङ्कोलं गिरिकर्णी च नीलान्येव च सर्वशः
एकपर्णानि चान्यानि सर्वाण्येव विवर्जयेत्
अर्कपुष्पाणि वर्ज्यानि चार्कपत्रस्थितानि च
व्याघृतापिचुमन्दानि सर्वाण्येव विवर्जयेत्
अन्यैस्तु शुक्लपत्रैश्च गन्धवद्भिर्नराधिप
अवर्ज्यैस्तैर्यथालाभं मद्भक्तो मां समर्चयेत्
युधिष्ठिरः-
कथं त्वमर्चनीयोऽसि मूर्तयः कीदृशास्तु ते
वैखानसाः कथं ब्रुयूः कथं वा पाञ्चरात्रिकाः
श्रीभगवान्-
शृणु पाण्डव तत् सर्वम् अर्चनाक्रममात्मनः
स्थण्डिले पद्मकं कृत्वा चाष्टपत्रं सकर्णिकम्
अष्टाक्षरविधानेन ह्यथवा द्वादशाक्षरैः
वैदिकैरथवा मन्त्रैर् मम सूक्तेन वा पुनः
स्थापितं मां ततस्तस्मिन्नर्चयित्वा विचक्षणः
पुरुषं च ततस्सत्यम् अच्युतं च युधिष्टिर
अनिरुद्धं च मां प्राहुर् वैखानसविदो जनाः
अन्ये त्वेवं विजानन्ति मां राजन् पाञ्चरात्रिकाः
वासुदेवं च राजेन्द्र सङ्कर्षणमथापि वा
प्रद्युम्नमनिरुद्धं च चतुर्मूर्तिं प्रचक्षते
एताश्चान्याश्च राजेन्द्र सञ्ज्ञाभेदेन मूर्तयः
विद्ध्यार्थान्तरा एवं मामेवं चार्चयेद्बुधः
अत्यन्तभेदरहितं गुणपूर्णं सदैव हि
युधिष्ठिरः-
त्वद्भक्ताः कीदृशा देव कानि तेषां व्रतानि च
एतत् कथय देवेश त्वद्भक्तस्य ममाच्युत
श्रीभगवान्-
अनन्यदेवताभक्ता चे मद्भक्तजनप्रियाः
मामेव शरणं प्राप्तास् ते मद्भक्ताः प्रकीर्तिताः
स्वर्ग्याण्यपि यशस्यानि मत्प्रियाणि विशेषतः
मद्भक्तः पाण्डवश्रेष्ठ व्रतानीमानि धारयेत्
नान्यदाच्छादयेद्वस्त्रं मद्भक्तो जलतारणे
स्वस्थस्तु न दिवा स्वप्येन्मधुमांसानि वर्जयेत्
प्रदक्षिणं व्रजेद्विप्रान् गामश्वत्थं हुताशनम्
न धावेत् पतिते वर्षे नाग्नभिक्षां च लोपयेत्
प्रत्यक्षलवणं नाद्यत् सौभाञ्जनकरञ्जनौ
ग्रासमुष्टिं गवे दद्याद् धान्याम्लं चैव वर्जयेत्
तथा पर्युषितं चापि पक्वं परगृहागतम्
अनिवेदितं च यद्द्रव्यं तत् प्रयत्नेन वर्जयेत्
विभितककरञ्जानां छायां दूरात्तु वर्जयेत्
पिप्रदेवपरीवादं न वदेत् पीडितोऽपि सन्
सात्विका राजसाश्चापि तामसाश्चापि पाण्डव
मामर्चयन्ति मद्भक्तास् तेषामीदृग्विधा गतिः
तामसास्तिमिरं यान्ति राजसा रज एव तत्
सात्विकास्सत्वसम्पन्नास् सत्वमेव प्रयान्ति ते
ये सिद्धास्सन्ति साङ्ख्येन योगसत्वबलेन च
नभस्यादित्यचन्द्राभ्यां पश्यन्ति पदविस्तरम्
एकस्तम्भे नवद्वारे त्रिस्थूणे पञ्चधातुके
एतस्मिन् देहनगरे राजसस्तु सदा भवेत्
उदिते सवितर्याप्य क्रियायुक्तस्य धीमतः
चतुर्वेदविदश्चापि देहे षड् वृषलास्स्मृताः
क्षत्रियास्सप्त विज्ञेया वैश्यास्त्वष्टौ प्रकीर्तिताः
नियताः पाण्डवश्रेष्ठ शूद्राणामेकविंशतिः
कामः क्रोधश्च लोभश्च मोहश्च मद एव च
महामोहश्च इत्येते देहे षड् वृषलास्स्मृताः
गर्वस्स्तम्भो ह्यहङ्कार ईर्ष्या च द्रोह एव च
पारुष्यं क्रूरता चेति सप्तैते क्षत्रियास्स्मृताः
तीक्ष्णता निकृतिर्माया शाठ्यं डम्भो ह्यनार्जवम्
पैशुन्यमनृतं चैव वेश्यास्त्वष्टौ प्रकीर्तिताः
तृष्णा बुभुक्षा निद्रा च ह्यालस्यं चाघृणाऽदयः
आधिश्चापि विषादश्च प्रमादो हीनसत्वता
भयं विक्लबता जाड्यं पापकं मन्युरेव च
आशा चाश्रद्दधानत्वम् अनवस्थाप्यमन्त्रणम्
आशौचं मलिनत्वं च शूद्रा ह्येते प्रकीर्तिताः
यस्मिन्नेते न दृश्यन्ते स वै ब्राह्मण उच्यते
येषु येषु हि भावेषु यत्कालं वर्तते द्विजः
तत्तत्कालं स विज्ञेयो ब्राह्मणो ज्ञानदुर्बलः
प्राणानायम्य यत्काले यो मां चापि विचिन्तयेत्
तत्काले वै द्विजो ज्ञेयश् शेषकाले ह्यथेतरः
तस्मात्तु सात्विको भूत्वा शुचिः क्रोधविवर्जितः
मामर्चयेत्तु सततं मत्प्रियत्वं यदीच्छति
अलोलजिह्वस्समुपस्थितो धृतिं निधाय चक्षुर्युगमात्रमेव च
मनश्च वाचं च निगृह्य चञ्चलं भयान्निवृत्तो मम भक्त उच्यते
ईदृशा ध्यानिनो ये तु ब्राह्मणा नियतेन्द्रियाः
तेषां श्राद्धेषु तृप्यन्ति तेन तृप्ताः पितामहाः
धर्मो जयति नाधर्मस् सत्यं जयति नानृतम्
क्षमा जयति न क्रोधः क्षमावान् ब्राह्मणो भवेत्