वैशम्पायनः-
वासुदेवेन दानेषु कथितेषु यथाक्रमम्
अवितृप्तश्च धर्मेषु राजा केशवमब्रवीत्
युधिष्ठिरः-
देव धर्मामृतमिदं शृण्वतोऽपि परन्तप
न विद्यते सुरश्रेष्ठ मम तृप्तिर्हि माधव
अनडुत्सम्प्रदानस्य यत् फलं तु विधीयते
तत् फलं कथयस्वेह तव भक्तस्य मेऽच्युत
यानि चान्यानि दानानि त्वया नोक्तानि कानि चित्
तान्याचक्ष्व सुरश्रेष्ठ तेषां चानुक्रमात् फलम्
श्रीभगवान्-
शृणु धर्मामृतं श्रेष्ठं दत्तस्यानडुहः फलम्
पवित्रत्वात् सुपुण्यत्वात् पावनत्वात् तथैव च
दशधेनुसमोऽनड्वान् एकोऽपि कुरुपुङ्गव
मेदोमांसविपुष्टाङ्गो नीरोगः कोपवर्जितः
युवा भद्रस्सुशीलश्च सर्वदोषविवर्जितः
धुरं धारयतेऽड्वान् दत्तो विप्राय पाण्डव
स तेन पुण्यदानेन वर्षकोटिं युधिष्ठिर
यथाकामं महातेजा गवां लोके महीयते
यश्च दद्यादनड्वाहौ द्वौ युक्तौ तु धुरन्धरौ
सुव्रताय दरिद्राय श्रोत्रियाय विशेषतः
तस्य यत् पुण्यमाख्यातं तच्छृणुष्व युधिष्ठिर
सहस्रगोप्रदानेन यत् प्रोक्तं फलमुत्तमम्
तत् पुण्यफलमाप्नोति याति लोकान् सनातनान्
यावन्ति चैव रोमाणि तयोश्चानडुहोर्नृप
तावद्वर्षसहस्राणि मम लोके महीयते
दरिद्रायैव दातव्यं न समृद्धाय पाण्डव
वर्षाणां हि तटाकेषु फलं नैव पयोधिषु
यस्तु दद्यादनडुहं दरिद्राय द्विजातये
स तेन पुण्यदानेन पुतात्मा कुरुपुङ्गव
विमानं दिव्यमारूढो दिव्यरूपी यथासुखम्
मम लोकेषु रमते यावदाभूतसम्प्लवम्
गृहं दीपप्रभायुक्तं शय्यासनविभूषितम्
भाजनोपस्करैर्युक्तं धान्यपूर्णमलङ्कृतम्
दासीगोभूमिसंयुक्तम् अन्यूनं सर्वसाधनैः
ब्राह्मणाय दरिद्राय श्रोत्रियाय युधिष्ठिर
दद्यात् सदक्षिणं यस्तु तस्य पुण्यफलं शृणु
देवाः पितृगणाश्चैव ह्यग्नयो ऋषयस्तथा
प्रयच्छन्ति प्रहृष्टा वै यानमादित्यसन्निभम्
तेन गच्छेच्छ्रिया युक्तो ब्रह्मलोकमनुत्तमम्
स्त्रीसहस्रावृते दिव्ये भवने तत्र काञ्चने
मोदते ब्रह्मलोकस्थो यावदाभूतसम्प्लवम्
शय्यां प्रस्तरणोपेतां यः प्रयच्छति पाण्डव
अर्चयित्वा द्विजं भक्त्या वस्त्रमाल्यानुलेपनैः
भोजयित्वा विचित्रान्नं तस्य पुण्यफलं शृणु
धेनुदानस्य यत् पुण्यं विधिदत्तस्य पाण्डव
तत् पुण्यं समनुप्राप्य पितृलोके महीयते
स्वल्पमध्ययनं वाऽपि विद्यामन्त्रौषधानि च
यः प्रयच्छति विप्राय तस्य पुण्यफलं शृणु
आहिताग्निसहस्रस्य तर्पितस्येह यत् फलम्
तत् पुण्यफलमाप्नोति यस्तु विद्यां प्रयच्छति
छन्दोभिस्सम्प्रयुक्तेन विमानेन विराजता
सप्तर्षिलोकान् व्रजति पूज्यते ब्रह्मवादिभिः
चतुर्युगानि वै त्रिंशत् क्रीडित्वा तत्र देववत्
इह मानुष्यके लोके विप्रो भवति वेदवित्
विश्रामयति यो विप्रं श्रान्तमध्वनि कर्शितम्
विनश्यति तदा पापं तस्य वर्षकृतं नृप
अथ प्रक्षालयेत् पादौ तस्य तोयेन भक्तिमान्
दशवर्षकृतं पापं व्यपोहति न संशयः
घृतेन वाऽथ तैलेन पादौ तस्य तु पूजयेत्
स द्वादशसमारूढं पापमाशु व्यपोहति
धेनुदानस्य दत्तस्य यच्च पुण्यमुदाहृतम्
तत्पुण्यफलमाप्नोति यस्त्वेनं विप्रमर्चयेत्
स्वागतेन तु यो विप्रं पूजयेदासनेन च
प्रत्युत्थानेन वा राजन् स देवानां प्रियो भवेत्
स्वागतेनाग्नयो राजन्नासनेन शतक्रतुः
प्रत्युत्थानेन पितरः प्रीतिं यान्त्यतिथिप्रियाः
अग्निशक्रपितॄणां च तेषां प्रीत्या नराधिप
संवत्सरकृतं पापं तस्य सद्यो विनश्यति
यः प्रयच्छति विप्राय आसनं माल्यभूषितम्
स याति मणियुक्तेन रथेनेन्द्रनिकेतनम्
पुरन्दरासने तत्र दिव्यनारीविभूषितः
षष्टिं वर्षसहस्राणि क्रीडत्यप्सरसां गणैः
इह लोके तु धनवांश् चतुर्वेदी द्विजो भवेत्
वाहनं यः प्रयच्छेत ब्राह्मणाय युधिष्ठिर
स याति रत्नचित्रेण वाहनेन सुरालयम्
स तत्र कामं क्रीडित्वा सेव्यमानोऽप्सरोगणैः
इह राजा भवेद्राजन् नात्र कार्या विचारणा
पादपं पल्लवाकीर्णं पुष्पितं सफलं तथा
गन्धमाल्यार्चितं कृत्वा वस्त्राभूषणभूषितम्
यः प्रयच्छति विप्राय श्रोत्रियाय सदक्षिणम्
भोजयित्वा यथाकामं तस्य पुण्यफलं शृणु
जाम्बूनदविचित्रेण विमानेन विराजता
पुरन्दरपुरं याति जयशब्दरवैर्युतः
तत्र शक्रपुरे रम्ये तस्य कल्पकपादपः
ददाति चेप्सितं सर्वं मनसा यद्यदिच्छति
यावन्ति तस्य पत्राणि पुष्पाणि च फलानि च
तावद्वर्षसहस्राणि शक्रलोके महीयते
शक्रलोकावतीर्णश्च मानुष्यं लोकमागतः
रथाश्वगजसम्पूर्णं पुरं राज्यं च वक्षति
मांसमेदोस्थिमज्जानां सम्भवस्तेभ्य एव हि
स्थापयित्वा तु मद्भक्त्या यो मत्प्रतिकृतिं नरः
आलयं विधिवत् कृत्वा पूजाकर्माणि कारयेत्
स्वयं वा पूजयेद्भक्त्या तस्य पुण्यफलं शृणु
अश्वमेधसहस्रस्य यत् फलं समुदाहृतम्
तत् फलं समनुप्राप्तो मत्सालोक्यं प्रपद्यते
न जाने निर्गमं तस्य मम लोकाद्युधिष्ठिर
देवालये विप्रगृहे गोवाटे चत्वरेऽपि वा
प्रज्वालयति यो दीपं तस्य पुण्यफलं शृणु
आरुद्य काञ्चनं यानं द्योतयन् सर्वतो दिशम्
गच्छेदादित्यलोकं स सेव्यमानस्सुरोत्तमैः
तत्र प्रकामं क्रीडित्वा वर्षकोटिं महायशाः
इह लोके भवेद्विप्रो वेदवेदाङ्गपारगः
देवालयेषु वा राजन् ब्राह्मणावसथेषु वा
चत्वरे वा चतुष्के वा रात्रौ वा यदि वा दिवा
नानागन्धर्ववाद्यानि धर्मश्रावणिकानि च
यस्तु कारयते भक्त्या मद्गतेनान्तरात्मना
तस्य देवा नरश्रेष्ठ पितरश्चापि हर्षिताः
सुप्रीतास्सम्प्रयच्छन्ति विमानं कामगं शुभम्
स च तेन पिमानेन याति देवपुरं नरः
तत्र दिव्याप्सरोभिस्तु सेव्यमानः प्रमोदते
देवलोकावतीर्णस्तु स लोकेऽस्मिन् नराधिप
वेदवेदाङ्गतत्वज्ञो भोगवान् ब्राह्मणो भवेत्
चत्वरे वा सभायां वा विस्तीर्णे वा सभाङ्गणे
कृत्वाऽग्निकुण्डं विपुलं स्थण्डिलं वा युधिष्ठिर
तत्राग्निं चतुरो मासाञ् ज्वालयेद्यस्तु भक्तिमान्
समाप्तेषु तु मासेषु पौष्यादिषु ततो द्विजान्
भोजयेत् पायसं मृष्टं मद्गतेनान्तरात्मना
दक्षिणां च यथाशक्ति ब्राह्मणेभ्यो निवेदयत्
एवमग्निं तु यः कुर्यान्नित्यमेवार्चयंस्तु माम्
तस्य पुण्यफलं यद्वै तन्निबोध युधिष्ठिर
तेनाहं शङ्करश्चैव पितरो ह्यग्नयस्तथा
यास्यामः परमां प्रीतिं नात्र कार्या विचारणा
षष्टिं वर्षसहस्राणि षष्टिं वर्षशतानि च
सोऽस्मत्प्रीतिकरश्श्रीमान् मम लोके महीयते
मम लोकावतीर्णश्च सोऽस्मिँल्लोके महायशाः
वेदवेदाङ्गविद्विप्रो जायते राजपूजितः
यः करोति नरश्रेष्ठ भरणं ब्राह्मणस्य तु
श्रोत्रियस्याभिजातस्य दरिद्रस्य विशेषतः
तस्य पुण्यफलं यद्वै तन्निबोध युधिष्ठिर
गवां कोटिप्रदानेन यत् पुण्यं समुदाहृतम्
तत्पुण्यफलमाप्नोति वर्षेणैकेन पाण्डव
काञ्चनेन विचित्रेण यानेनाम्बरशोभिना
स याति मामकं लोकं दिव्यस्त्रीगणसेवितः
गीयमानो वरस्त्रीभिर् वर्षाणां कोटिविंशतिम्
क्रीडित्वा मामके लोके तत्र देवैरभिष्टुतः
मानुष्यमवतीर्णस्तु वेदविद्ब्राह्मणो भवेत्
करकां कुण्डिकां वाऽपि महद्वा जलभाजनम्
यः प्रयच्छति विप्राय तस्य पुण्यफलं शृणु
ब्रह्मकूर्चे तु यत् पीते फलं प्रोक्तं युधिष्ठिर
तत्पुण्यफलमाप्नोति जलभाजनदो नरः
सुतृप्तस्सुप्रभस्सौम्यः प्रहृष्टेन्द्रियमानसः
हंससारसयुक्तेन विमानेन विराजता
स याति वारुणं लोकं दिव्यगन्धर्वसेवितः
पानीयं यः प्रयच्छेद्वै जीवानां जीवनं परम्
ग्रीष्मकेषु तु मासेषु तस्य पुण्यफलं शृणु
कपिलाकोटिदानस्य यत् पुण्यं तु विधीयते
तत्पुण्यफलमाप्नोति पानीयं यः प्रयच्छति
पूर्णचन्द्रप्रकाशेन विमानेन विराजता
स गच्छेच्चन्द्रसदनं सेव्यमानोऽप्सरोगणैः
त्रिंशत्कोटियुगं तत्र दिव्यगन्धर्वसेवितः
क्रीडित्वा मानुषे लोके चतुर्वेदी द्विजो भवेत्
शिरोभ्यङ्गप्रदानेन तेजस्वी प्रियदर्शनः
सुभगो रूपवाञ्छूरः पण्डितश्च भवेद्द्विजः
वस्त्रदायी तु पुरुषस् तेजस्वी प्रियदर्शनः
सुभगो भवति श्रीमान् स्त्रीणां नित्यं मनोरमः
उपानहौ च च्छत्रं च यो ददाति नरोत्तमः
स याति रथमुख्येन काञ्चनेन विराजता
शक्रलोकं महातेजास् सेव्यमानोऽप्सरोगणैः
काष्ठपादुकदा यान्ति विमानैर्वृक्षनिर्मितैः
धर्मराजपुरं रम्यं सेव्यमानास्सुरोत्तमैः
दन्तकाष्ठप्रादनेन प्रियवाक्यो भवेन्नरः
सुगन्धवदनश्श्रीमान् मेधासौभाग्यसंयुतः
क्षीरं दधि घृतं वाऽपि गुडं मधुरसं तथा
ये प्रयच्छन्ति विप्रेभ्यः परां भक्तिं गता नराः
ते वृषैरश्वयानैश्च श्वेतस्रग्दामभूषिताः
उपगीयमाना गन्धर्वैर् यान्तीश्वरपुरं नराः
तत्र दिव्याप्सरोभिस्तु सेव्यमाना यथासुखम्
षष्टिवर्षसहस्राणि मोदन्ते देवसन्निभाः
ततः कालावतीर्णाश्च जायन्ते त्विह मानवाः
प्रभूतधनधान्याश्च भोगवन्तो नरोत्तमाः
वैशाखे मासि वैशाखे दिवसे पाण्डुनन्दन
वैवस्वतं समुद्दिश्य परां भक्तिमुपागताः
अभ्यर्च्य विधिवद्विप्रांस् तिलान् गुडसमायुतान्
ये प्रयच्छन्ति विप्रेभ्यस् तेषां पुण्यफलं शृणु
गोप्रदानेन यत् पुण्यं विधिवत् पाण्डुनन्दन
तत् पुण्यं समनुप्राप्तो यमलोके महीयते
ततश्चापि च्युतः कालाद् इह राजा भविष्यति
तस्मिन्नेव दिने विप्रान् भोजयित्वा सदक्षिणम्
तोयपूर्णानि दिव्यानि भाजनानि दिशन्ति ये
ते यान्त्यादित्यवर्णाभैर् विमानैर्वरुणालयम्
तत्र दिव्याङ्गनाभिस्तु रमन्ते कामगामिनः
ततोऽवतीर्णाः कालेन ते चास्मिन् मानुषे पुनः
भोगवन्तो द्विजश्रेष्ठा भविष्यन्ति न संशयः
अनन्तराशी यश्चापि वर्तते व्रतवत् सदा
सत्यवाक् क्रोधरहितस् शुचिस्स्नानरतस्सदा
स विमानेन दिव्येन याति शक्रपुरं नरः
तत्र दिव्याप्सरोभिस्तु वर्षकोटिं महातपाः
क्रीडित्वा मानुषे लोके जायते वेदविद्द्विजः
एकभुक्तेन यश्चापि वर्षमेकं तु वर्तते
ब्रह्मचारी जितक्रोधस् सत्यशौचसमन्वितः
स विमानेन दिव्येन याति शक्रपुरं नरः
दशकोटिसमास्तत्र क्रीडित्वाऽप्सरसां गणैः
इह मानुष्यके लोके ब्राह्मणो वेदविद् भवेत्
चतुर्थकाले यो भुङ्क्ते ब्रह्मचारी जितेन्द्रियः
वर्तते वर्षमेकं तु तस्य पुण्यफलं शृणु
चित्रबर्हिणयुक्तेन विचित्रध्वजशोभिना
याति यानेन दिव्येन स महेन्द्रपुरं नरः
अकृशाभिर्वरस्त्रीभिस् सेव्यमानो यथासुखम्
तत्र द्वादशकोटिं स समास्सम्यक् प्रमोदते
शक्रलोकावतीर्णस्तु लोके चास्मिन् नराधिप
भवेद्वै ब्राह्मणो विद्वान् क्षमावान् वेदपारगः
षष्ठकाले तु योऽश्नाति वर्षमेकमकल्मषः
ब्रह्मचर्यव्रतैर्युक्तश् शुचिः क्रोधविवर्जितः
तपोयुक्तस्य तस्यापि शृणुष्व फलमुत्तमम्
अत्यादित्यप्रकाशेन विमानेनार्कसन्निभः
स याति मम लोकान् वै दिव्यनारीनिषेवितः
तत्र साध्यैर्मरुद्भिश्च पूज्यमानो यथासुखम्
पश्यन्नेव सदा मां तु क्रीडत्यप्सरसां गणैः
पक्षोपवासं यश्चापि कुरुते मद्गतात्मना
समाप्ते तु व्रते तस्मिंस् तर्पयेच्छ्रोत्रियाञ्छुचीन्
सोऽपि गच्छति दिव्येन विमानेन महातपाः
द्योतयन् प्रभया व्योम मम लोकं प्रपद्यते
स तत्र मोदते कामं कामरूपी यथासुखम्
त्रिंशत्कोटिसमा राजन् क्रीडित्वा तत्र देववत्
इह मानुष्यके लोके पूजनीयो द्विजोत्तमः
त्रयाणामपि वेदानां साङ्गानां पारगो भवेत्
यश्च मासोपवासं वै कुरुते मद्गतात्मना
जितेन्द्रियो जितक्रोधो जितधीस्स्नानतत्परः
समाप्ते नियमे तत्र भोजयित्वा द्विजोत्तमान्
दक्षिणां च ततो दद्यात् प्रहृष्टेनान्तरात्मना
स गच्छति महातेजा ब्रह्मलोकमनुत्तमम्
सिंहयुक्तेन यानेन दिव्यस्त्रीगणसेवितः
स तत्र ब्रह्मणो लोके दिव्यर्षिगणसेवितः
शतकोटिसमा राजन् यथाकामं प्रमोदते
ततः कालावतीर्णश्च सोऽस्मिँल्लोके द्विजो भवेत्
षडङ्गविच्चतुर्वेदी त्रिंशज्जन्मान्यरोगवान्
यस्त्यक्त्वा सर्वकर्माणि शुचिः क्रोधविवर्जितः
महाप्रस्थानमेकाग्रो याति मद्गतमानसः
स गच्छेदिन्द्रसदनं विमानेन विराजता
महामणिविचित्रेण सौवर्णेन विराजता
शतकोटिसमास्तत्र सुराधिपतिपूजितः
नाकपृष्ठे निवसति दिव्यस्त्रीगणसेवितः
शक्रलोकावतीर्णश्च मानुषेषूपजायते
राज्ञां राजा महातेजास् सर्वलोकार्चितः प्रभुः
प्रायोपवेशं यः कुर्यान्मद्गतेनान्तरात्मना
अन्तस्स्वस्थो जितक्रोधस् तस्य पुण्यफलं शृणु
नमो ब्रह्मण्यदेवायेत्युक्त्वा मन्त्रं समाहितः
कामगः कामरूपी च बालसूर्यसमप्रभः
स विमानेन दिव्येन याति लोकाननामयान्
स्वर्गत् स्वर्गं महातेजा गत्वा गत्वा यथासुखम्
मम लोकेषु रमते यावदाभूतसम्प्लवम्
अग्निप्रवेशं यश्चापि कुरुते मद्गतात्मना
सोऽपि यानेन दिव्येन मम लोके महीयते
तत्र सर्वगुणोपेतः पश्यन्नेव स मां सदा
त्रिंशत्कोटिसमा राजन् मोदते मम सन्निधौ
ततोऽवतीर्णः कालेन वेदविद्ब्राह्मणो भवेत्
कर्षणं साधयन् यस्तु मां प्रपन्नश्शुचिव्रतः
नमो ब्रह्मण्यदेवायेत्येतन्मन्त्रमुदीरयन्
बालसूर्यप्रकाशेन विमानेन विराजता
मम लोकं समासाद्य वर्षकोटिं प्रमोदते
मम लोकावतीर्णश्च लोकेऽस्मिन् क्षत्रियो भवेत्
निवेशयति मन्मूर्त्याम् आत्मानं मद्गतश्शुचिः
रुद्रदक्षिणमूर्त्यां वा चतुर्दश्यां विशेषतः
सिद्धैर्ब्रह्मर्षिभिश्चैव देवलोकैश्च पूजितः
गन्धर्वैर्भूतसङ्घैश्च गीयमानो महातपाः
प्रविशेत् स महातेजा मां वा शङ्करमेव वा
न स्यात् पुनर्भवो राजन् नात्र कार्या विचारणा
गोकृते स्त्रीकृते चैव गुरुविप्रकृतेऽपि वा
हन्यन्ते ये तु राजेन्द्र शक्रलोकं व्रजन्ति ते
तत्र जाम्बूनदमये विमाने कामगामिनि
मन्वन्तरं प्रमोदन्ते दिव्यनारीनिषेविताः
आश्रुतस्याप्रादनेन दत्तस्य हरणेन च
जन्मप्रभृति यद्दत्तं सर्वं नश्यति भारत
नागोप्रदास्तत्र पयः पिबन्ति नाभूमिदा भूमिमथाश्नुवन्ति
यान् यान् कामान् ब्राह्मणेभ्यो ददाति तांस्तान् कामान् स्वर्गलोके स भुङ्क्ते
यद्यदिष्टतमं द्रव्यं न्यायेनोपार्जितं च यत्
तत्तद् गुणवते देयं तदेवाक्षयमिच्छता
अनुपोष्य त्रिरात्राणि तीर्थान्यनभिगम्य च
अदत्त्वा काञ्चनं गां च दरिद्रो नाम जायते
दानं यत् तत्फलं नैति श्रोत्रियाय न दीयते
श्रोत्रिया यत्र नाश्नन्ति न देवास्तत्र भुञ्जते
श्रोत्रियेभ्यः परं नास्ति परमं दैवतं महत्
निधानं चापि राजेन्द्र नास्माच्छ्रोत्रियभोजनात्