युधिष्ठिरः-
देवदेवेश दैत्यघ्न परं कौतूहलं हि मे
एतत् कथय सर्वज्ञ त्वद्भक्तस्य जनार्दन
मानुषस्य च लोकस्य यमलोकस्य चान्तरम्
कीदृशं किम्प्रमाणं वा किमधिष्ठानमेव वा
तरन्ति मानवा देव केनोपायेन माधव
त्वगस्थिमांसनिर्मुक्ते पञ्चभूतविवर्जिते
कथयस्व महादेव सुखदुःखमशेषतः
जीवस्य यमलोके तु कर्मभिस्तु शुभाशुभैः
अनुबद्धस्य तैः पाशैर् नीयमानस्य दारुणैः
मृत्युदूतैर्दुराधर्षैर् घोरैर्घोरपराक्रमैः
वध्यस्याक्षिप्यमाणस्य विद्रुतस्य यमाज्ञया
पुण्यपापकृदातिष्ठेत् सुखदुःखमशेषतः
यमदूतैर्दुराधर्षैर् नीयते वा कथं पुनः
किं वा तत्र गता महादेव कर्म कुर्वन्ति मानवाः
कथं धर्मपरा यान्ति देवताद्विजपूजकाः
कथं वा पापकर्माणो यान्ति प्रेतपुरं नराः
किं रूपं किं प्रमाणं वा वर्णः को वाऽस्य केशव
जीवस्य गच्छतो नित्यं यमलोकं ब्रवीहि मे
श्रीभगवान्-
शृणु राजन् यथातत्त्वं यन्मां त्वं परिपृच्छसि
तत् तेऽहं कथयिष्यामि मद्भक्तस्य नरेश्वर
षडशीतिसहस्राणि योजनानां शतानि च
मानुष्यस्य च लोकस्य यमलोकस्य चान्तरम्
न तत्र वृक्षच्छाया वा न तटाकं सरोऽपि वा
न वाप्यो दीर्घिका वाऽपि न कूपं वा युधिष्ठिर
न मण्टपं सभा वाऽपि न प्रपा न निवेशनम्
न पर्वतो नदी वाऽपि न भूमेर्विवरं क्वचित्
न ग्रामो नाश्रमो वाऽपि नोद्यानं वा काननानि वा
न किञ्चिद्विश्रमस्थानं पथि तस्मिन् युधिष्ठिर
जन्तोस्सम्प्राप्तकालस्य वेदनार्तस्य वै भृशम्
कारणैस्त्यक्तदेहस्य प्राणैः कण्ठगतैः पुनः
शरीराच्चोद्यते जीवो ह्यवशो मातरिश्वना
निर्गतो वायुभूतस्तु षट्कोशात्तु कलेबरात्
शरीरमन्यत् तद्रूपं तद्वर्णं तत्प्रमाणकम्
अदृश्यं सम्प्रविष्टस्तु सोऽप्यदृष्टेन केन चित्
सोन्तरात्मा देहवताम् अष्टाङ्गो यस्तु सञ्चरेत्
छेदनाद्दाहनाद्भेदात् ताडनाद्वा न नश्यति
नानारूपधरैर्घौरैः प्रचण्डैश्चण्डविक्रमैः
ह्रियमानो दुराधर्षैर् यमदूतैर्यमाज्ञया
पुत्रदारमयैः पाशैस् सन्निरूद्धोऽवशाद् बलात्
स्वकर्मभिश्चानुगतै कृतैस्सुकृतदुष्कृतैः
आक्रन्दमानः करुणं बन्धुभिर्दुःखपीडितैः
त्यक्त्वा बन्धुजनं सर्वं निरपेक्षस्तु गच्छति
मातृभिः पितृभिश्चैव भ्रातृभिर्मातुलैस्तथा
दारैः पुत्रैर्वयस्यैश्च रुदद्भिस्त्यज्यते नरः
अदृश्यमानस्तैर्दीनैर् अश्रुपूर्णमुखेक्षणैः
स्वशरीरं परित्यज्य वायुभूतस्तु गच्छति
अन्धकारमपारं तं महाघेरं तमोवृतम्
दुःखान्तं दुष्प्रतारं च दुष्प्रकारं च दुर्गमम्
दुस्सहं यद् दुरन्तं च दुर्निरीक्षं दुरासदम्
दुरापमतिदुर्गं च पापिष्ठानां नरोत्तम
ऋषिभिः कथ्यमानं तत् पारम्पर्येण पार्थिव
त्रासं जनयति प्रायश् श्रूयमाणं कथास्वपि
अवश्यं चैव गन्तव्यस् तदध्वा तु युधिष्ठिर
प्राप्तकालेन सन्त्यज्य बन्धून् भोगान् धनानि च
जरायुजैरण्डजैश्च स्वेदजैरुद्भिदैस्तथा
जङ्गमैस्स्थिरसञ्ज्ञैश्च गन्तव्यं हि यमालयम्
देवासुरैर्मनुष्याद्यैर् वैवस्वतवशानुगैः
स्त्रीपुन्नपुंसकैश्चापि पृथिव्यां जीवसञ्ज्ञितैः
मध्यमैर्युवभिश्चापि बालैर्वृद्धैस्तथैव च
जातमात्रैश्च गर्भस्थैर् गन्तव्यस्स महापथः
पूर्वाह्णे वाऽपराह्णे वा सन्ध्याकालेऽथवा पुनः
प्रदोषे वाऽर्धरात्रे वा प्रत्युषे वाऽप्युपस्थिते
प्रवासस्थैर्वनस्थैर्वा पर्वतस्थैर्जलस्थितैः
क्षेत्रस्थैर्वा नभस्स्थेर्वा गृहमध्यगतैरपि
भुञ्जद्भिर्वा पिबद्भिर्वा खादद्भिर्वा नरोत्तम
आसीनैर्वा स्थितैर्वाऽपि शयनीयगतैरपि
जाग्रद्भिर्वा प्रसुप्तैर्वा गन्तव्यस्स महापथः
मृत्युदूतैर्दुराधर्षैः प्रचण्डैश्चण्डविक्रमैः
आक्षिप्यमाणा विवशं यान्ति शिघ्रं यमालयम्
क्वचिद्भीतैः क्वचित्त्रस्तैः प्रस्खलद्भिः क्वचित् क्वचित्
क्रन्दद्भिर्वेदनार्तैस्तु गन्तव्यं यमसादनम्
निर्भर्त्स्यमानैरुद्विग्रैर् विधूतैर्भयविह्वलैः
कल्पयामानशरीरैस्तु गन्तव्यं स्त्रीजितैस्सदा
कण्टकाकीर्णमार्गेण तप्तवालुकपांसुना
दह्यमानैस्तु गन्तव्यो नरैर्दानविवर्जितैः
काष्ठोपलशिलाघातैर् दण्डोल्मुककशाङ्कुशैः
हन्यमानैर्यमपुरं गन्तव्यं धर्मवर्जितैः
मेदश्शोणितपूयाद्यैर् वक्त्रैर्गात्रैश्च सव्रणैः
दग्धक्षतव्रणाकीर्णैश्च गन्तव्यं जीवघातकैः
कूजद्भिश्च रुदद्भिश्च कोशद्भिश्चापि विस्वरम्
वेदनार्तैः पतद्भिश्च गन्तव्यं जीवघातकैः
भग्नरपादोरुहस्तङ्गैर् भग्नदन्ताशिरोधरैः
छिन्नकर्णोष्ठनासैश्च गन्तव्यं जीवघातकैः
शक्तिभिर्भिण्डिपालैश्च शङ्कुतोमरसायकैः
तुद्यमानैस्तु शूलाग्रैर् गन्तव्यं जीवघातकैः
श्वभिर्व्याघ्रैर्वृकैः कङ्कैर् भक्ष्यमाणास्समन्ततः
तुद्यमानाश्च गच्छन्ति राक्षसैर्मांसखादिभिः
महिषैश्च मृगैश्चापि सूकरैर्जम्बुकैस्तथा
भक्ष्यमाणैस्तदध्वानं गन्तव्यं मांसखादिभिः
सूचीसुतीक्ष्णतुण्डाभिर् मक्षिकाभिस्समन्ततः
तुद्यमानैश्च गन्तव्यं पापिष्ठैर्बालघातकैः
विश्वस्तं स्वामिनं विप्रं स्त्रियं वा घ्रन्ति ये नराः
शस्त्रैर्निर्भिद्यमानैस्तु गन्तव्यं तैर्यमक्षयम्
वातयन्ति च ये जीवान् दुःखमापादयन्ति च
राक्षसैश्च पिशाचैश्च भक्ष्यमाणा व्रजन्ति ते
ये हरन्तीह वस्त्राणि शय्यां प्रावरणानि च
ते यान्ति विद्रुता नग्नाः पिशाचा इव तत्पथम्
गाश्च धान्यं हिरण्यं वा बलात् क्षेत्रं गृहं तथा
ये हरन्ति दुरात्मानः परस्वं पापकारिणः
पाषाणैरुल्मुकैर्दण्डैः काष्ठघातैश्च जर्झरैः
हन्यमानैः क्षताकीर्णैर् गन्तव्यं तैर्यमालयम्
ब्रह्मस्वं ये हरन्तीह नरा नरकपातिनः
आक्रोशन्तीह ये नित्यं प्रहरन्ति च ये द्विजान्
शुष्ककण्ठा निबद्धास्ते छिन्नजिह्वाक्षिनासिकाः
पूयशोणितदुर्गन्धा भक्ष्यमाणाश्च जम्बुकैः
चण्डालैर्निर्घृणैश्चण्डैस् तुद्यमानास्समन्ततः
क्रोशन्तः करुणं घोरं गच्छन्ति यमसादनम्
तत्रैवा पतिताः पापा विष्ठाकूपेष्वनेकशः
मज्जन्ते वर्षकोटीस्तु क्लिश्यन्तो वेदनार्दिताः
ततश्च मुक्ताः कालेन लोके चास्मिन् नराधमाः
विष्ठाक्रिमित्वं गच्छन्ति जन्मकोटिशतं नृप
विद्यमानधनैर्यैस्तु लोभडम्भानृतान्वितैः
श्रोत्रियेभ्यो न दत्तानि दानानि बहुधा नृप
ग्रीवापाशनिबद्धास्ते हन्यमानाश्च राक्षसैः
क्षुत्पिपासाश्रमार्तास्तु यान्ति प्रेतपुरं नराः
अदत्तदाना गच्छन्ति शुष्ककण्ठास्यतालुकाः
अन्नं पानीयसहितं प्रार्थयन्तः पुनःपुनः
स्वामिन् बुभुक्षातृष्णार्ता गन्तुं नैवाद्य शक्नुमः
ममान्नं दीयतां स्वादु पानीयं दीयतामिति
इति ब्रुवाणांस्तान् दूताः प्रापयन्ति यमालयम्
वैशम्पायनः-
तच्छ्रुत्वा वचनं विष्णोः पपात भुवि पाण्डवः
निस्सञ्ज्ञो भयसन्त्रस्तो निश्चेष्टो भयविह्वलः
ततो लब्ध्वा शनैस्सञ्ज्ञां समाश्वस्तोऽच्युतेन सः
नेत्रे प्रक्षाल्य तोयेन भूयः केशवमब्रवीत्
युधिष्ठिरः-
भीतोऽस्म्यहं महादेवं श्रुत्वा मार्गस्य विस्तरम्
केन दानेन तन्मार्गं तरन्ति पुरुषास्सुखम्
श्रीभगवान्-
इह ये धार्मिका लोके जीवघातविवर्जिताः
गुरुशुश्रूषणे युक्ता देवब्राह्मणपूजकाः
अस्मान्मानुष्यलोकात् ते समार्यास्सहबान्धवाः
यमध्वानं तु गच्छन्ति यथावत् तं निबोध मे
ब्राह्मणेभ्यः प्रदानानि नानारूपाणि पार्थिव
ये प्रयच्छन्ति विप्रेभ्यस् ते सुखं यान्ति तत्पथम्
अन्नं च ये प्रयच्छन्ति ब्राह्मणेभ्यस्सुसंस्कृतम्
क्षोत्रियेभ्यो विशेषेण भक्त्या परमया युताः
ते विमानैर्महात्मानो यान्ति चित्रैर्यमालयम्
सेव्यमाना वरस्त्रीभिर् अप्सरोभिर्महापथि
ये च नित्यं प्रभाषन्ते प्रियं निष्कल्मषं वचः
ते च यान्त्यमलाभ्राभैर् विमानैस्तु यमालयम्
कपिलादीनि दानानि श्रुद्धायुक्ताश्च ये नराः
ब्राह्मणेभ्यः प्रयच्छन्ति श्रोत्रियेभ्यो विशेषतः
ते यान्त्यादित्यवर्णाभैर् विमानैर्हेमबूषणैः
वैवस्वतपुरं रम्यम् अप्सरोभिर्निषेवितम्
उपानहौ च छत्रं च शयनान्यासनानि च
विप्रेभ्यो ये प्रयच्छन्ति वस्त्राण्याभरणानि च
ते यान्त्यश्वैर्वृषैर्वाऽपि कुञ्जरैरप्यलङ्कृताः
धर्मराजपुरं रम्यं सौवर्णच्छत्रभूषिताः
ये च भक्ष्याणि दास्यन्ति भोज्यं पेयं तथैव च
स्निग्धान्नं चापि विप्रेभ्यश् श्रद्धया परया युताः
ते यान्ति काञ्चनार्यानैस् सुखं वैवस्वतालयम्
वरस्त्रीभिर्युवतिभिस् सेव्यमानास्समन्ततः
ये च क्षीरं प्रयच्छन्ति घृतं दधि गुडं मधु
ब्राह्मणेभ्यः प्रयत्नेन श्रद्दधानास्सुसंस्कृताः
चक्रवाकप्रयुक्तैस्तु यानै रुक्ममयैश्शुभैः
यान्ति गन्धर्ववादित्रैस् सेव्यमाना यमालयम्
ये फलानि प्रयच्छन्ति पुष्पाणि सुरभीणि च
हंसयुक्तैर्विमानैस्तु यान्ति धर्मपुरं नराः
ये प्रयच्छन्ति विप्रेभ्यो विविधान्नं घृताप्लुतम्
ते व्रजनत्यमलाभ्राभैर् विमानैर्वायुवेगिभिः
पुरं तत् प्रेतनाथस्य नानाजनसमाकुलम्
पानीयं ये प्रयच्छन्ति सर्वभूतप्रजीवनम्
ते सुतृप्तास्सुखं यान्ति विमानैर्हंसचोदितैः
ये तिलांस् तिलधेनुं वा धृतधेनुमथापि वा
श्रोत्रियेभ्यः प्रयच्छन्ति सौम्यभावसमन्विताः
सोममण्डलसङ्काशैर् यानैस्ते यान्ति निर्मलैः
गीयमानास्तु गन्धर्वैर् वैवस्वतपुरं नराः
येषां वाप्यश्च कूपाश्च तटाकानि सरांसि च
दीर्घिकाः पुष्करिण्यश्च सजलाश्च जलाशयाः
यानैस्ते यान्ति चन्द्राभैर् दिव्यघण्टानिनादितैः
चामरैस्तालवृन्तैश्च वीज्यमाना महाप्रभाः
नित्यतृप्ता महात्मानो गच्छन्ति यमसादनम्
येषां देवगृहाणीह चित्राण्यायतनानि च
मनोहराणि कान्तानि दर्शनीयानि भान्त्युत
ते व्रजन्त्यमलाभ्राभैर् विमानैर्वायुवेगिभिः
पुरं तत् प्रेतनाथस्य नानाजनसमाकुलम्
वैवस्वतं च पश्यन्ति सुखचित्तं सुखस्थितम्
यमेन पूजिता यान्ति यमसालोक्यतां गताः
मृतानुद्दिश्य लोकेषु प्रपासु करकोद्धृतम्
शीतलं सलिलं रम्यं तृषितेभ्यो दिशन्ति ये
ते तु तृप्तिं परां प्राप्तास् सुखं यान्ति महापथम्
काष्ठपादुकदा यान्ति तदध्वानं सुखं नराः
सुवर्णमणिपीठे तु पादं कृत्वा रथोत्तमे
आरामान् वृक्षषण्डांश्च रोपयन्ति च ये नराः
संवर्धयन्ति चाव्यग्रा फलपुष्पैश्च शोभिताः
वृक्षच्छायासु रम्यासु शीतलासु स्वलङ्कृताः
यान्ति ते वाहनैर्दिव्यैः पूज्यमाना मुहुर्मुहुः
सेव्यमानास्सुरूपाभिर् उत्तमाभिः प्रयत्नतः
स्त्रीभिः कनकवर्णाभिर् यथाकामं यथासुखम्
सुवर्णं रजतं वाऽपि विद्रुमं मौक्तिकं तथा
ये प्रयच्छन्ति ते यान्ति विमानैः कनकोज्ज्वलैः
सेव्यमानास्सुरूपाभिर् अकृशाभिः प्रयत्नतः
स्त्रीभिः कनकवर्णाभिर् यथाकामं यथासुखम्
अश्वयानं तु गोयानं हस्तियानमथापि वा
ये प्रयच्छन्ति विप्रेभ्यो विमानैः कनकोज्ज्वलेैः
ते व्रजन्ति वरस्त्रीभिस् सेव्यमाना यथासुखम्
भूमिदा यान्ति तं लोकं सर्वकामैस्सुतर्पिताः
उदितादित्यसङ्काशैर् विमानैस्ते यमालयम्
कन्यां ये च प्रयच्छन्ति विप्राय श्रोत्रियाय च
दिव्यकन्यावृता यान्ति विमानैस्ते यमालयम्
सुगन्धान् गन्धसंयोगान् पुष्पाणि सुरभीणि च
प्रयच्छन्ति द्विजाग्र्येभ्यो भक्तया परमया युताः
सुगन्धास्सुवेषाश्च सुप्रभास्स्रग्विभूषिताः
यान्ति धर्मपुरं यानैर् विचित्रैरप्यलङ्कृताः॥
दीपदा यान्ति यानैश्च दीपयन्तो दिशो दश
आदित्यसदृशाकारैर् दीप्यमाना यथाऽग्नयः
गृहावसथदातारो गृहैः काञ्चनवेदिकैः
व्रजन्ति बालसूर्याभैर् धर्मराजपुरं नराः
जलभाजनदातारः कुण्डिकाकरकप्रदाः
पूज्यमाना वरस्त्रीभिर् यान्ति तृप्ता महागजैः
पादाभ्यङ्गं शिरोभ्यङ्गं पानं पादोदकं तथा
ये प्रयच्छन्ति विप्रेभ्यस् ते यान्त्यश्वैर्यमालयम्
विश्रामायन्ति ये विप्राञ् श्रान्तानध्वनि कर्शितान्
चक्रवाकप्रयुक्तेन यान्ति यानेन तेऽपि च
स्वागतेन च यो विप्रान्पूजयेदासनेन च
स गच्छति तमध्वानं सुखं परमनिर्वृतः
नमो ब्रह्मण्यदेवाय यो मां दृष्ट्वाऽभिवादयेत्
व्रतवत् प्रयतो नित्यं स सुखं याति तत्पथम्
नमस्सर्वसहाभ्यश्चेत्यभिधाय दिने दिने
नमस्करोति गोम्यो यस् स सुखं याति तत्पथम्
नमोऽस्तु प्रियदत्तायै तुभ्यं चेति दिने दिने
भूमिमाक्रमते प्रातश् शयनादुत्थितस्तु यः
स सर्वकामतृप्तात्मा सर्वभूषणभूषितः
याति यानेन दिव्येन सुखं वैवस्वतालयम्
अनन्तराशिनो ये तु डम्भाहङ्कारवर्जिताः
तेऽपि सारसयुक्तेन यान्ति यानेन वै सुखम्
ये चाप्येकेन भुक्तेन वर्तन्ते डम्भवर्जिताः
हंसयुक्तैर्विमानैस्तु सुखं यान्ति यमालयम्
चतुर्थेन हि भुक्तेन वर्तन्ते ये जितेन्द्रियाः
यान्ति ते धर्मनगरं यानैर्बर्हिणयोजितैः
तृतीयदिवसेनेह भुञ्जते ये जितेन्द्रियाः
तेऽपि हस्तिरथैर्यान्ति तत्पथं कनकोज्ज्वलैः
षष्ठान्नकालिको यस्तु वर्षमेकं तु वर्तते
कामक्रोधविनिर्मुक्तश् शुचिर्नित्यं जितेन्द्रियः
स याति कुञ्जरस्थस्तु जयशब्दरवैर्युतः
पक्षोपवासिनो यान्ति यानैश्शार्दूलयोजितैः
धर्मराजपूरं रम्यं दिव्यस्त्रीगणसेवितम्
ये च मासोपवासं वै कुर्वते संयतेन्द्रियाः
तेऽपि सूर्याोदयप्रख्यैर् यान्ति यानैर्यमालयम्
अग्निप्रवेशं यश्चापि कुरुते मद्गतात्मना
स यात्यग्निप्रकाशेन विमानेन यमालयम्
प्राणांस्त्यजति यो विप्रो मां प्रपन्नो ह्यनाशकः
स बालार्कप्रकाशेन व्रजेद्यानेन तत्पथम्
प्रविष्टोऽन्तर्जले यस्तु प्राणांस्त्यजति मानवः
सोममण्डलयानेन याति यानेन तत्पथम्
स्वशरीरं हि गृध्राणां मन्मना यः प्रयच्छति
स याति रथमुख्येन काञ्चनेन यमालयम्
गोकृते स्त्रीकृते चैव हता विप्रकृतेऽपि ये
ते यान्त्यमरकन्याभिस् सेव्यमाना रविप्रभाः
ये च कुर्वन्ति मद्भक्त्या तीर्थयात्रां जितेन्द्रियाः
ते पन्थानं महात्मानो यानैर्यान्ति सुखं नराः
ये यजन्ति द्विजश्रेष्ठाः क्रतुभिर्भूरिदक्षिणैः
हंससारसयुक्तेन यान्ति यानेन तत्पथम्
परपीडामकृत्वैव भृत्यान् बिभ्रति ये नराः
तत्पथं ते सुखं यान्ति विमानैः काञ्चनोज्ज्वलैः
ये समास्सर्वभूतेषु जीवानामभयप्रदाः
क्रोधलोभविनिर्मुक्ता निगृहीतेन्द्रियास्तथा
पूर्णचन्द्रप्रतीकाशैर् विमानैस्ते महाप्रभाः
यान्ति वैवस्वतपुरं देवगन्धर्वसेविताः
ये मामेकान्तभावेन भक्त्या त्र्यम्बकमेव वा
पूजयन्ति नमस्यन्ति स्तुवन्ति च दिने दिने
धर्मराजपुरं यान्ति यानैस्तेऽर्कसमप्रभैः
पूजितास्तत्र धर्मेण स्वयं माल्यादिभिर्गुणैः
यान्त्येव मम लोकं वा रुद्रलोकमथापि वा