वैशम्पायनः-
एवमात्मोद्भवं सर्वं जगदुद्दिश्य केशवः
धर्मान् धर्मात्मजस्यैव पुण्यानकथयत् प्रभुः
श्रीभगवान्-
शृणु पाण्डव तत्वेन पवित्रं पापनाशनम्
कथ्यमानं मया पुण्यं धर्मशास्त्रफलं महत्
यश्शृणोति शुचिर्भूत्वा एकचित्तस्तपोयुतः
स्वर्ग्यं यशस्यामायुष्यं धर्मं ज्ञेयं युधिष्ठिर
श्रद्दधानस्य तस्येह यत् पापं पूर्वसञ्चितम्
विनश्यत्याशु तत् सर्वं मद्भक्तस्य विशेषतः
वैशम्पायनः-
एवं श्रुत्वा वचः पुण्यं सत्यं केशवभाषितम्
प्रहृष्टमनसो भूत्वा चिन्तयन्तोऽद्भुतं परम्
देवब्रह्मर्षस्सर्वे गन्धर्वाप्सरसस्तथा
भूतयक्षग्रहगणा गुह्यका भुजगास्तथा
वालखिल्या महात्मानो योगिनस्तत्वदर्शिनः
तथा भागवताश्चापि पञ्चकालमुपासकाः
कौतूहलसमाविष्टाः प्रहृष्टाः परमर्षयः
श्रोतुकामाः परं गुह्यं वैष्णवं धर्मशासनम्
हृदि कर्तुं च तद्वाक्यं प्रणेमुश्शिरसा तदा
ततस्तान् वासुदेवेन दृष्टान् सौम्येन चक्षुषा
विमुक्तपापानालोक्य प्रणम्य शिरसा हरिम्
पप्रच्छ केशवं धर्मान् धर्मपुत्रः प्रतापवान्
युधिष्ठिरः-
कीदृशी ब्राह्मणस्याथ कीदृशी क्षत्रियस्या वै
वैश्यस्य कीदृशी देव गतिश्शूद्रस्य कीदृशी
कथं बध्येत पापेन ब्राह्मणस्तु यमालये
क्षत्रियो वाऽथ वैश्यो वा शूद्रो वा बध्यते कथम्
एतत् कथय देवश लोकनाथ नमोऽस्तु ते
वैशम्पायनः-
स पृष्टः केशवोऽप्येवं धर्मपुत्रेण धीमता
उवाच संसारगतिं चातुर्वर्ण्यस्य कर्मजाम्
श्रीभगवान्-
शृणु वर्णक्रमेणैव धर्मं धर्मभृतां वर
नास्ति किञ्चिन्नरश्रेष्ठ ब्राह्मणस्य तु दुष्कृतम्
शिखायज्ञोपवीती स्यात् सन्ध्यां ये चाप्युपासते
यैश्च पूर्णाहुतिः प्राप्ता विधिवज्जुह्वते च ये
वैश्वदेवं च ये कुर्युः पूजयन्त्यतिथींश्च ये
नित्यं स्वाध्यायशीलाश्च जपयज्ञपरास्तथा
सायम्प्रातर्हुताशाश्च शूद्रभोजनवर्जिताः
डम्भानृतविनिर्मुक्तास् स्वदारनिरतास्सदा
पञ्चयज्ञपराश्चैव येऽग्निहोत्रमुपासते
दहन्ति दुष्कृतं येषां हूयमानास्त्रयोऽग्नयः
नष्टदुष्कृतकर्माणो ब्रह्मलोकं व्रजन्ति ते
ब्रह्मलोके ततः कामं गन्धर्वैर्ब्रह्मगायनैः
उपगीयमानाः प्रयतैः पूज्यमानास्स्वयम्भुवा
ब्रह्मलोके प्रमोदन्ते यावदाभूतसम्प्लवम्
क्षत्रियोऽपि स्थितो राज्ये स्वधर्मं परिपालयन्
सम्यक् प्रजाः पालयित्वा स्वधर्मनिरतस्सदा
यज्ञदानरतो धीरस् स्वदारनिरतश्शुचिः
शास्त्रानुसारी तत्त्वज्ञः प्रजाकार्यपरायणः
विप्रेभ्यः कामदो नित्यं भृत्यानां भरणे रतः
सत्यसन्धश्शुचिर्नित्यं लोभडम्भविवर्जितः
क्षत्रियोऽप्युत्तमां याति गतिं देवनिषेविताम्
तत्र दिव्याप्सरोभिस्तु गन्धर्वैश्च प्रयत्नतः
सेव्यमानो महातेजाः क्रीडते शक्रपूजितः
चतुर्युगानि वै त्रिंशत् क्रीडित्वा दिवि देववत्
इह मानुष्यलोके तु चतुर्वेदी द्विजो भवेत्
कृषिगोपालनिरतस् स्वधर्मान्वेषणे रतः
दानधर्मेऽपि निरतो विप्रशुश्रूषकस्तथा
सत्यसन्धश्शुचिर्नित्यं लोभडम्भविवर्जितः
ऋजुस्स्वदारनिरतो हिंसाद्रोहविवर्जितः
वणिग्धर्मान्नमुञ्चन् वै देवब्राह्मणपूजकः
वणिक् च स्वर्गमाप्नोति पूज्यमानोऽप्सरोगणैः
चतुर्युगानि वै त्रिंशत् क्रीडित्वा दश पञ्च च
इह मानुष्यके लोके राजा भवति वीर्यवान्
त्रयाणामपि वर्णानां शुश्रूषानिरतस्सदा
विशेषेणैव विप्राणां दासवद्यस्तु तिष्ठति
अयाचितप्रदाता च सत्यशौचसमन्वितः
गुरुदेवार्चनरतः परदारविवर्जितः
परपीडामकृत्वैव भत्यवर्गं बिभर्ति यः
शूद्रोऽपि स्वर्गमाप्नोति जीवानामभयप्रदः
स स्वर्गलोके क्रीडित्वा वर्षकोटिं महातपाः
इह मानुष्यके लोके वैश्यो धनपतिर्भवेत्
एवं धर्मात् परं नास्ति महत् संसारमोक्षणम्
न च धर्मात् परं किञ्चित् पापकर्मव्यपोहनम्
तस्माद्धर्मस्सदा कार्यो मानुष्यं प्राप्य दुर्लभम्
न हि धर्मानुरक्तानां लोके किञ्चन दुर्लभम्
स्वयम्भुविहितो धर्मो यो यस्येह नरेश्वर
स तेन क्षपयेत् पापं सम्यगाचरितेन च
सहजं यद्भवेत् कर्म न तत् त्याज्यं हि केन चित्
स एव तस्य धर्मो हि तेन सिद्धिं स गच्छति
निर्गुणोऽपि स्वधर्मस्तु पापकर्म व्यपोहति
एवमेव तु धर्मोऽपि क्षीयते पापवर्धनात्
युधिष्ठिरः-
भगवन् देवदेवेश श्रोतुं कौतूहलं हि मे
शुभस्याप्यशुभस्यापि क्षयवृद्धी यथाक्रमम्
श्रीभगवान्-
शृणु पाण्डव तत् सर्वं धर्मसूक्ष्मं सनातनम्
दुर्विज्ञेयतमं नित्यं मम भक्तैर्महात्मभिः
यथैव शीतमुदकम् उष्णेन बहुना वृतम्
भवेत्तु तत्क्षणादुष्णं शीतत्वं च विनश्यति
यथोष्णं वा भवेदल्पं शीतेन बहुना वृतम्
शीतलं तद् भवेत् सर्वम् उष्णत्वं च विनश्यति
एवं तु यद्भवेद्भूरि सुकृतं वाऽथ दुष्कृतम्
तदल्पं क्षपयेच्छीघ्रं नात्र कार्या विचारणा
समत्वे सति राजेन्द्र तयोस्सुकृतपापयोः
गूहितस्य भवेद्वृद्धिः कीर्तितस्य भवेत् क्षयः
ख्यापनेनानुतापेन प्रायः पापं प्रणश्यति
तथा कृतस्तु राजेन्द्र धर्मो नश्यति भारत
तावुभौ गूहितौ सम्यग् वृद्धिं यातो न संशयः
तस्मात् सर्वप्रयत्नेन न पापं गूहयेद्बुधः
तस्मादेतत् प्रयत्नेन कीर्तनं क्षयकारणम्
तस्मात् सङ्कीर्तयेत् पापं नित्यं धर्मं च गूहयेत्