जनमेजयः-
कोऽसौ नकुलरूपेण शिरसा काञ्चनेन ह
प्राह मानुषया वचा ह्येतत् पृष्टो वदस्व मे
वैशम्पायनः-
एतत् पूर्वं न पृष्टोऽहं न चास्माभिः प्रभाषितम्
श्रूयतां नकुलो योऽसौ यथा वाक् चास्य मानुषी
श्राद्धं सङ्कल्पयामास जमदग्निः पुरा किल
होमधेनुस्तमागाच्छत् स्वयं चापि दुदोह ताम्
तत् क्षीरं स्थापयामास हेमभाण्डे शुभे शुचौ
क्रोधो नकुलरूपेण पिठरं पर्यधर्षयत्
जिज्ञासुस्तमृषिश्रेष्ठं किं कुर्याद्विप्रिये कृते
इति सञ्चिन्त्य दुर्मेधा धर्षयामास तत् पयः
तमाज्ञाय मुनिः क्रोधं नैवास्मै चुकुपे ततः
स तु क्रोधस्तमासाद्य प्राञ्जलिमूर्तिमान् स्थितः
जितोऽस्मीति भृगुश्रेष्ठं भृगवो ह्यतिरोषणाः
लोके मिथ्याप्रवादोऽयं यत् त्वयाऽस्मि पराजितः
सोऽहं त्वयि स्थितो ह्यद्य क्षमावति महात्मनि
बिभेमि तपसस्साधो प्रसादं कुरु मे प्रभो
जमदग्निः-
साम्यग् दृष्टोऽसि मे क्रोध गच्छ त्वं विगतज्वरः
न ममापकृतं तेऽद्य न मन्युर्विद्यते त्वयि
यानुद्दिश्य तु सङ्कल्पः पयसोऽद्य कृतो मया
पितरस्ते महाभागास् तेभ्यो बुद्ध्यस्व गम्यताम्
वैशम्पायनः-
इत्युक्तो जातसन्त्रासस् तत्रैवान्तरधीयत
पितॄणामभिषङ्गात् तु नकुलत्वमुपागतः
स तान् प्रसादयामास शापस्यान्तो भवेदिति
तैश्चाप्युक्तो यदा धर्मं क्षेप्स्यसे मिक्ष्यसे तदा
इत्युक्तो यज्ञियान् देशान् धर्मारण्यानि चैव ह
जुगुप्सन् परिधावन् स तं यज्ञं समुपासदत्
धर्मपुत्रमथाक्षिप्य सक्तुप्रस्थेन तेन सः
मुक्तशापस्ततः क्रोधो धर्मो ह्यासीद्युधिष्ठिरः
एवमेतद्यथा वृत्तं तस्य यज्ञे महात्मनः
पश्यतां चापि नस्तत्र नकुलोऽन्तर्हितस्तदा