जनमेजयः-
धर्मागतेन त्यागेन भगवन् सर्वमस्ति चेत्
एतन्मे सर्वमाचक्ष्व कुशलो ह्यसि भाषितुम्
तस्योञ्छवृत्तेर्यद्वृत्तं सक्तुदानं महाफलम्
कथितं तु महद् ब्रह्मंस् तथ्यमेतदसंशयम्
कथं हि सर्वयज्ञेषु निश्चयः परमो भवेत्
एतदर्हसि मे वक्तुं निखिलेन द्विजर्षभ
वैशम्पायनः-
अत्राप्युदाहरन्तीमम् इतिहासं पुरातनम्
अगस्त्यस्य महायज्ञे पुरा वृत्तमरिन्दम
पुराऽगस्त्यो महातेजा दीक्षां द्वादशवार्षिकीम्
प्रविवेश महाराज सर्वभूतहिते रतः
तत्राग्निकल्पा होतारश्चासन् सर्वे महात्मनः
मूलाहारा निराहाराश् चाश्मकुट्टा मरीचिपाः
परिपृष्टिका वैघसिकास् सम्प्रक्षालास्तथैव च
यतयो भिक्षवश्चात्र बभूवुः पर्यवस्थिताः
सर्वे प्रत्यक्षधर्माणो जितक्रोधा जितेन्द्रियाः
दमे स्थिताश्च सर्वे ते दम्भमोहविवर्जिताः
उपासते स्म तं यज्ञं भुञ्जनास्ते महर्षयः
वृद्धैश्शुद्धैस्तथा नित्यम् इन्द्रियैश्चाप्यवाहिताः
तस्मिन् सत्रे तु यत् किञ्चित् अयोग्यं तत्र नाभवत्
यथाशक्त्या भगवता तदन्नं समुपार्जितम्
तथा ह्यनेकैर्मुनिभिर् बहवः क्रतवः कृताः
एवंविधे त्वगस्त्यस्य वर्तमाने महाध्वरे
न ववर्ष सहस्राक्षस् तदा भरतसत्तम
ततः कर्मान्तरे राजन्नगस्त्यस्य महात्मनः
कथेयमभिनिर्वृत्ता मुनीनां भावितात्मनाम्
मुनयः-
अगस्त्यो यजमानोसौ ददात्यन्नं विमत्सरः
न च वर्षति पर्जन्यः कथमन्नं भविष्यति
सत्रं चेदं महद्विप्रा मुनेर्द्वादशवार्षिकम्
न हि वर्षति देवश्च वर्षाण्येतानि द्वादश
एतद्भवन्तस्सञ्चिन्त्य महर्षेरस्य धीमतः
अगस्त्यस्यातितपसः कर्तुमर्हन्त्यनुग्रहम्
वैशम्पायनः-
इत्येवमुक्ते वचने ततोऽगस्त्यः प्रतापवान्
प्रोवाचेदं वचो वाग्मी प्रसाद्य शिरसा मुनीन्
अगस्त्यः-
यदि द्वादश वर्षाणि न वर्षिष्यति वासवः
चिन्तायज्ञं करिष्यामि विधिरेष सनातनः
यदि द्वादश वर्षाणि न च वर्षति वासवः
स्पर्शयज्ञं करिष्यामि विधिरेष सनातनः
यदि द्वादश वर्षाणि न च वर्षति वासवः
ध्यानात्मना हरिष्यामि यज्ञानेतान् यतव्रतः
बीजयज्ञो मयाऽयं वै बहुवर्षसमाचितः
बीजैः कृतैः करिष्ये च नात्र विघ्नो भविष्यति
नेदं शक्यं वृथा कर्तुं मम सत्रं कथञ्चन
न वर्षिष्यति वा देवो न वा देवो भविष्यति
अथवाऽभ्यर्थनामिन्द्रः कुर्यान्न त्विह कामतः
स्वयमिन्द्रो भविष्यामि जीवयिष्यामि च प्रजाः
यो यदाहारदानश्च स तथैव भविष्यति
विशेषं चैव कर्तास्मि पुनः पुनरतीव हि
अद्येह स्वर्णमभ्येतु यच्चान्यद्वसु दुर्लभम्
त्रिषु लोकेषु यच्चास्ति तदिहागच्छतु स्वयम्
दिवि चाप्सरसां सङ्घास् सगन्धर्वास्सकिन्नराः
विश्वावसुश्च ये चान्ये ते च युष्मानुपासताम्
उत्तरेभ्यः कुरुभ्यश्च यत् किञ्चिद्वसु विद्यते
सर्वं तदिह यज्ञे मे स्वयमेवोपतिष्ठताम्
स्वर्गस्स्वर्गसदश्चैव धर्मश्च स्वयमेव तु
वैशम्पायनः-
इत्युक्ते सर्वमेवैतद् अभवत् तस्य धीमतः
तस्य दीप्ताग्निमहसस् त्वगस्त्यस्यातितेजसः
ततस्ते मुनयो हृष्टा मुनेस्तस्य तपो बलम्
विस्मिता वचनं प्राहुर् इदं सर्वे महार्थवत्
ऋषयः-
प्रीतास्स्म तव वाक्येन न त्विच्छामस्तपोधन
स्वैरेव यज्ञैस्तुष्टास्स्म न्यायेनेच्छामहे वयम्
यज्ञदीक्षास्तथा होमान् यच्चान्यन्मृगयामहे
तन्नोऽस्तु स्वर्गदैर्यज्ञैर् नान्यतो मृगयामहे
न्यायेनोपार्जिताहारास् स्वकर्मनिरता वयम्
देवांश्च ब्रह्मचर्येण न्यायेन प्रार्थयामहे
न्यायेन रञ्जिताः काले गृहेभ्यो निस्सृता वयम्
दृष्टैश्च विधिवद् द्वारैस् तपस्तप्स्यामहे वयम्
भवतस्सम्यगेषा हि बुद्धिर्हिंसाविवर्जिता
एतामहिंसा यज्ञेषु ब्रूयास्त्वं सततं विभो
प्रीतास्ततो भविष्यामो वयं द्विजवरोत्तम
विसर्जितास्समाप्तौ च सत्रादस्माद्व्रजामहि
वैशम्पायनः-
तथा कथयतामेवं देवराजः पुरन्दरः
ववर्ष सुमहातेजा दृष्ट्वा तस्य तपोबलम्
आसमाप्तौ च यज्ञस्य तस्यामितपराक्रमः
निकामवर्षी देवेन्द्रो बभूव जनमेजय
प्रसादयामास च तम् अगस्त्यं त्रिदशेश्वरः
स्वयमभ्येत्य राजर्षे पुरस्कृत्य बृहस्पतिम्
ततो यज्ञसमाप्तौ तान् विससर्ज महामुनीन्
अगस्त्यः परमप्रीतः पूजयित्वा यथाविधि