जनमेजयः-
यज्ञे सक्ता नृपतयस् तपस्सक्ता महर्षयः
शान्तिव्यवसिता विप्राश् शमे दम इति प्रभो
तस्माद्यज्ञफलैस्तुल्यं न किञ्चिदिह विद्यते
इति मे वर्तते बुद्धिस् तथा चैतन्न संशयः
यज्ञैरिष्ट्वा च बहवो राजानो द्विजसत्तमाः
इह कीर्तिं परां प्राप्य प्रेत्य स्वर्गमितो गताः
देवराजस्सहस्राक्षः क्रतुभिर्भूरिदक्षिणैः
देवराज्यं महातेजाः प्राप्तवानखिलं विभुः
अतो युधिष्ठिरो राजा भीमार्जुनपुरस्सरः
सदृशो देवराजेन समृद्ध्या विक्रमेण च
अथ कस्मात् स नकुलो गर्हयामास तं नृपम्
अश्वमेधं महायज्ञं राज्ञस्तस्य महात्मनः
वैशम्पायनः-
यज्ञस्य विधिमग्र्यं वै फलं चैव नरर्षभ
गदतश्शृणु मे राजन् यथावदिह भारत
पुरा शक्रस्य यजतस् सर्व ऊचुर्महर्षयः
ऋत्विक्षु कर्म कुर्वत्सु वितते यज्ञकर्मणि
हूयमाने तथा वह्नौ होत्रे गुणसमन्विते
देवष्वाहूयमानेषु स्थितेषु परमर्षिषु
सुप्रतैस्तैस्तदा विप्रैस् स्वागमैस्सुस्वरैर्नृप
अश्रान्तैश्चापि लघुभिर् अध्वर्युवृषभैस्तथा
आलम्भसमये तस्मिन् गृहीतेषु पशुष्वथ
महर्षयो महाराज सम्बभूवुः कृपान्विताः
ततो दीनान् पशून् दृष्ट्वा ऋषयस्ते तपोधनाः
ऊचुश्शक्रं समागम्य नायं यज्ञविधिश्शुभः
अपरिज्ञानमेतत् ते महान्तं धर्ममिच्छतः
न हि यज्ञे पशुवधो विधिदृष्टः पुरन्दर
धर्मोपघातकस्त्वेष समारम्भस्तव प्रभो
नायं धर्मकृते यज्ञो न हिंसा धर्म उच्यते
आगमेनैव ते यज्ञं कुर्वन्तु यदिहेच्छसि
विधिदृष्टेन यज्ञेन धर्मस्ते सुमहान् भवेत्
यज बीजैस्सहस्राक्ष त्रिवर्षपरमोत्थितैः
एष धर्मो महाञ्छक्र महागुणफलोदयः
शतक्रतुस्तु तद्वाक्यम् ऋषिभिस्तत्त्वदर्शिभिः
उक्तं न प्रतिजग्राह मानमोहवशानुगः
तेषां विवादस्सुमहान् जज्ञे शक्रमहर्षिणाम्
जङ्गमैस्स्थावरैश्चापि यष्टव्यमिति भारत
ते तु खिन्ना विवादेन ऋषयस्तत्त्वदर्शिनः
अभिसन्धाय शक्रेण पप्रच्छुर्नृपतिं वसुम्
ऋषयः-
महाप्राज्ञ कथं यज्ञेष्वागमो नृपते स्मृतः
यष्टव्यं पशुभिर्मेध्यैर् अथो बीजैरजैरिति
वैशम्पायनः-
तच्छ्रुत्वा तु वसुस्तेषाम् अविचार्य बलाबलम्
यथोपनीतैर्यष्टव्यम् इति प्रोवाच पार्थिवः
एवमुक्त्ते स नृपतिः प्रविवेश रसातलम्
उक्त्वेह वितथं राजंश् चेदीनामीश्वरः प्रभुः
अन्यायोपगतं द्रव्यं सततं योऽह्यपण्डितः
धर्माभिकाङ्क्षी त्यजति न धर्मफलमश्नुते
धर्मवैतंसिको ह्येष पापात्मा पुरुषाधमः
ददाति दानं विप्रेभ्यो लोके विश्वासकारणम्
पापेन कर्मणा विप्रो धनं लब्ध्वा निरङ्कुशः
रागमोहान्वितस्सोऽन्ते कलुषां गतिमश्नुते
तेन दानानि दत्तानि पापेन हतबुद्धिना
तानि सत्वमनासाद्य नश्यन्ति विपुलान्यपि
तस्याधर्मे प्रवृत्तस्य हिंसकस्य दुरात्मनः
एतेनाकीर्तिर्भवति प्रेत्य चेह च दुर्मतेः
अपि सञ्चयबुद्धिर्हि लोभमोहवशानुगः
यज्ञं करोति भूतानि हिंसयन् पापचेतनः
एवं लब्ध्वा धनं मोहाद् यजते यो ददाति च
स कृत्वा कर्मणा तेन न सिद्ध्यति दुरागमात्
इच्छन् मूलं फलं शाकम् उदपानं तपोधनाः
दानं विभवतो दत्त्वा ततस्स्वर्याति धार्मिकाः
एष धर्मो महापुण्यो दानं भूतदया तथा
ब्रह्मचर्यं तथा सत्यम् अनुक्रोशो धृतिः क्षमा
सनातनस्य धर्मस्य फलमेतत् सनातनम्
श्रूयन्ते हि पुरा प्रिया विश्वामित्रादयो नृपाः
विश्वामित्रोऽसितश्चैवं जनकश्च महीपतिः
कक्षसेनार्ष्टिषेणौ च सिन्धुद्वीपश्च पार्थिवः
एते चान्ये च बहवस् सिद्धिं परमिकां गताः
नृपास्सत्यैश्च दानैश्च न्यायलब्धैस्तपोधनाः
ब्राह्मणाः क्षत्रिया वैश्याश् शूद्रा ये चाश्रितास्तपः
दानधर्माश्रिताश्शुद्धास् ते स्वर्गं यान्ति भारत