नकुलः-
अत्र वो वर्तुयिष्यामि दानस्य फलमुत्तमम्
न्यायलब्धस्य सूक्ष्मस्य विप्रे दत्तस्य वै द्विजाः
धर्मक्षेत्रे कुरुक्षेत्रे धर्मज्ञैर्बहुभिर्वृते
उञ्छवृत्तिर्द्विजः कश्चित् कापोतिरभवत् पुरा
सभार्यस्सह पुत्रेण सस्नुषस्तपसि स्थितः
वधूचतुर्थो वृद्धस्स धर्मात्मा नियतेन्द्रियः
षष्ठे काले सदा विप्रो भुङ्क्ते तैस्सह सुव्रतः
षष्ठे काले कदाचित्तु तस्याहारो न विद्यते
भुङ्क्तेऽन्यस्मिन् कदाचित् स षष्ठे काले द्विजोत्तमः
कपोतधर्मिणस्तस्य दुर्भिक्षे सति दारुणे
नाविद्यत तदा विप्रास् सञ्चयस्तन्निबोधत
क्षीणौषधिसमावापो द्रव्यहीनोऽभवत् तदा
क्षीणे कालेऽस्य सम्प्राप्ते नैवविद्यत भोजनम्
क्षुधापरिगतास्सर्वे प्रातिष्ठन्त तदा तु ते
उञ्छं तदा शुक्लपक्षे मध्यं तपति भास्करे
उष्णार्तश्च क्षुधार्तश्च विप्रस्तपसि निष्ठितः
उञ्छमप्राप्तवानेव सार्धं परिजनेन ह
स तथैव क्षुधाविष्टस् स्पृष्ट्वा तोयं यथाविधि
क्षपयामास तं कालं सार्धं परिजनेन ह
अथ षष्ठे गते काले ते यवप्रस्थमार्जयन्
यवप्रस्थं च तत् सक्तून् अकुर्वन्त तपस्विनः
कृतजप्याह्निकास्ते तु हुत्वा वह्निं यथाविधि
कुडवं कुडवं सर्वे व्यभजन्त तपस्विनः
अथगमाद्विजः कश्चिद् अतिथिर्भुञ्जतां तदा
ते तं दृष्ट्वाऽतिथिं तत्र प्रहृष्टमनसोऽभवन्
तेऽभिवाद्य सुखप्रश्नं पृष्ट्वा तमतिथिं तदा
विशुद्धमनसो दान्ताश् श्रद्धादमसमन्विताः
अनसूया गतक्रोधाश् साधवो गतमत्सराः
त्यक्तात्मानो जितक्रोधा धर्मज्ञा द्विजसत्तमाः
स्वं ब्रह्यचर्यं ते गोत्रम् आख्यायाथ परस्परम्
कुटीं प्रवेशयामासुः क्षुधार्तमतिथिं तदा
इदमर्घ्यं च पाद्यं च बृसी चेयं तवानघ
शुचयस्सक्तवश्चेमे नियमोपार्जिताः प्रभो
प्रतिगृह्णीष्व भद्रं ते मया दत्तान् द्विजोत्तम
इत्युक्तः प्रतिगृह्याथ सक्तूनां कुडवं द्विजः
भक्षयामास राजेन्द्र न च तुष्टिं जगाम सः
स उञ्छवृत्तिस्तं प्रेक्ष्य क्षुधापरिगतं द्विजम्
आहारं चिन्तयामास कथं तुष्टो भवेदिति
तस्य भार्याऽब्रवीद्राजन् मद्भागो दीयतामयम्
गच्छत्वेष यथाकामं सन्तुष्टो द्विजसत्तमः
इति ब्रुवन्तीं तां साध्वीं धर्मात्मा स द्विजर्षभः
क्षुधापरिगतां ज्ञात्वा सक्तूंस्तान् नाभ्यनन्दत
जानन् वृद्धां क्षुधार्तां च श्रान्तां ग्लानां तपस्विनीम्
त्वगस्थिभूतां ध्यायन्तीं ततो भार्यामुवाच ताम्
ब्राह्मणः-
अपि कीटपतङ्गानां मृगाणां चैव शोभने
स्त्रियो रक्ष्याश्च पोष्याश्च नैवं त्वं वक्तुमर्हसि
वैशम्पायनः-
अनुकम्प्यो नरः पत्न्या पुष्टो रक्षित एव च
प्रपतेद्यशसो दीप्तान्न च लोकानवाप्नुयात्
धर्मकामार्थकार्याणि शुश्रूषाकुलसन्ततिः
सक्तुप्रस्थचतुर्भागं गृहाणेदं प्रसीद मे
सत्यं रतिश्च धर्मश्च स्वर्गश्च गुणनिर्जितः
स्त्रीणां पतिसमाधीनं तपश्चेदं द्विजोत्तम
ऋतुर्मातुः पितुर्बीजं दैवतं परमं पतिः
भर्तुः प्रसादात् स्त्रीणां वै रतिपुत्रफलं तथा
पालनाद्धि पतिस्त्वं मे भर्ताऽसि भरणान्वितः
पुत्रप्रदानाद्वरदस् तस्मात् सक्तून् गृहाण मे
वैशम्पायनः-
जरापरिगतो वृद्धः क्षुधार्तो दुर्बलोऽदृढः
उपवासपरिश्रान्तो यदा त्वमपि कर्शितः
इत्युक्तस्स तया सक्तून् प्रगृह्येदं वचोऽब्रवीत्
भर्ता-
द्विज सक्तूनिमान् भूयः प्रतिगृह्णीष्व सत्तम
वैशम्पायनः-
स तान् प्रगृह्य भुक्त्वा च न तुष्टिमगमन्मुनिः
तमुञ्छवृत्तिरालक्ष्य ततश्चिन्तापरोऽभवत्
पुत्रः-
सक्तूनिमान् प्रगृह्य त्वं देहि विप्राय सत्तम
इत्येव सुकृतं मन्ये तस्मादेतत् करोम्यहम्
भवान् हि परिपाल्यो मे सर्वयत्नैर्द्विजोत्तम
साधूनां काङ्क्षितं ह्येतत् पितुर्वृद्धस्य पोषणम्
पुत्रार्थो विहितो ह्येष स्थाविर्ये परिपालनम् |
श्रुतिरेषा हि विप्रर्षे त्रिषु लोकेषु शाश्वती
प्राणधारणमात्रेण शक्यं कर्तुं तपस्त्वया
प्राणो हि परमो धर्मस् स्थिता देहेषु देहिनाम्
पिता-
अपि वर्षसहस्रस्त्वं बाल एव मतो मम
उत्पाद्य पुत्रं हि पिता कृतकृत्यो भवत्युत
बालानां क्षुद्बलवती जानाम्येतदहं तव
वृद्धोऽहं धारयिष्यामि त्वं बली भव पुत्रक
जीर्णेन वयसा पुत्र न मां क्षुद्बाधतेऽपि च
दीर्घकालं तपस्तप्तं न मे मरणतो भयम्
पुत्रः
अपत्यमस्मि ते पुत्रस् त्राणात् पुत्रो हि विश्रुतः
आत्मा पुत्रस्स्मृतस्तस्मात् त्राह्यात्मानमिहात्मना
पिता-
रूपेण सदृशस्त्वं मे शीलेन च दमेन च
परीक्षितश्च बहुधा सक्तूनादद्मि ते सुत
वैशम्पायनः-
इत्युक्त्वाऽऽदाय तान् सक्तून् प्रीतात्मा द्विजसत्तमः
प्रहसन्निव विप्राय स तस्मै प्रददौ तदा
भुक्त्वा तानपि सक्तून् स नैव तुष्टो बभूव ह
उञ्छवृत्तिस्तु सव्रीलो बभूव द्विजसत्तमः
तदा वधूस्स्थिता साध्वी ब्राह्मणप्रियकाम्यया
सक्तूनादाय संहृष्टा गुरुं तं वाक्यमब्रवीत्
वधूः-
सन्तानात् तव सन्तानं ममापि प्रभविष्यति
सक्तूनिमानतिथये गृहीत्वा त्वं प्रयच्छ मे
तव प्रसावनिर्वृत्या मम लोकाः किलाक्षयाः
पौत्रेण तानवाप्नोति यत्र गत्वा न शोचति
धर्माद्या हि यथा त्रेता वह्नित्रेता तथैव च
तथैव पुत्रपौत्राणां स्वर्ग त्रेताः किलाक्षयः
पितॄणां तारणात् तस्मात् पुत्र इत्यनुशुश्रुम
पुत्रपौत्रैश्च नियतस् सादुलोकानुपाश्नुते
श्वशुरः-
वातातपविशीर्णाङ्गीं त्वां विशीर्णां निरीक्ष्य वै
कर्शितां सुव्रताचारे क्षुधाविह्वलचेतसम्
कथं सक्तून् ग्रहीष्यामि भूत्वा धर्मोपघातकः
कल्याणवृत्ते कल्याणि नैव त्वं वक्तुमर्हसि
षष्ठे काले व्रतवतीं शीलशौचतपोन्विताम्
कृच्छ्रवृत्तिं निराहारां द्रक्ष्यामि त्वां कथं न्वहम्
बाला क्षुधार्ता नारी च रक्ष्या त्वं सततं मया
उपवासपरिश्रान्ता त्वं हि बान्धवनन्दिनी
स्नुषा-
गुरोर्मम गुरुस्त्वं वै यतो दैवतदैवतम्
देवातिदेवस्तस्मात् त्वं सक्तूनादत्स्व मे प्रभो
देहः प्राणश्च धर्मश्च शुश्रूषार्थमिदं गुरोः
तव विप्र प्रसादेन लोकान् प्राप्स्याम्यभीप्सितान्
अवेक्ष्या हीति कृत्वा त्वं दृढभक्तेति मां द्विज
चिन्त्या ममेयमिति वा सक्तूनादातुमर्हसि
श्वशुरः-
अनेन नित्यं साध्वी त्वं शीलवृत्तेन शोभसे
यत् त्वं धर्मपथोपेता गुरुवृत्तिमवेक्षसे
तस्मात् सक्तून् ग्रहीष्यामि वधुर्नार्हसि वञ्चनाम्
गणयित्वा महाभागे त्वं हि धर्मभृतां वरे
वैशम्पायनः-
इत्युक्त्वा तानुपादाय सक्तून् प्रादाद् द्विजातये
ततस्तुष्टोऽभवद्विप्रस् तस्य साधोर्महात्मनः
प्रीतात्मा स तु तं वाक्यम् इदमाह द्विजर्षभम्
वाग्मी तदा द्विजश्रेष्टो धर्मः पुरुषविग्रहः
ब्राह्मणः-
अनेन सक्तुदानेन न्यायोपेतेन तत्त्वतः
यथाशक्ति विमुक्तेन प्रीतोऽस्मि तव सत्तम
अहो दानं विधुष्टं ते स्वर्गे स्वर्गनिवासिभिः
गगनात् पुष्पवर्षं च पश्ये त्वं पतितं भुवि
सुरा देवर्षिगन्धर्वा ये च देवपुरस्सराः
स्तुवन्तो देवदूताश्च सिद्धाश्चापि सुविस्मिताः
ब्रह्मर्षयो विमानस्था ब्रह्मलोकगताश्च ये
काङ्क्षन्ते दर्शनं त्वद्य दिवं गच्छ द्विजर्षभ
पितृलोकगतास्सर्वे तारिताः पितरस्त्वया
अनागताश्च बहवस् सुबहूनि युगानि च
ब्रह्मचर्येण यज्ञेन दानेन तपसाऽथवा
अगह्वरेण धर्मेण तस्माद्गच्छ दिवं द्विज
श्रद्धया परया यत् त्वं तपश्चरसि सुव्रत
तस्माद्देवास्तवानेन प्रीता द्विजवरोत्तम
सर्वस्वमेतद्यस्मात् ते युक्तं शुद्धेन चेतसा
कृच्छ्रकाले ततस्स्वर्गो जितोऽयं तव कर्मणा
क्षुधा निर्णुदति प्रज्ञां धर्म्यां बुद्धिं व्यपोहति
क्षुधापरिगतज्ञानो धृतिं त्यजति चैव हि
बुभुक्षां जयते यस्तु स स्वर्गं जयते ध्रुवम्
यदा दानरुचिर्भावस् तदा धर्मो नु सीद्ध्यति
अनवेक्ष्य सुतस्नेहं कलत्रस्नेहमेव च
धर्ममेव गुरुं ज्ञात्वा तृष्णा न गणिता त्वया
द्रव्यागमो नृणां सूक्ष्मः पात्रे दानं ततः परम्
कालः परतरो दानाच् छ्रद्धा चैव ततः परा
स्वर्गद्वारं सुसूक्ष्मं हि नरैर्माहान्न दृश्यते
सङ्गर्गलं लोभकीलं रागगुप्तं दुरासदम्
तं तु पश्यन्ति पुरुषा जितक्रोधा जितेन्द्रियाः
ब्राह्मणास्तपसा युक्ता यथाश्रद्धाप्रदायिनः
सहस्रशक्तिश्च शतं शतशक्तिर्दशापि च
दद्यादपश्च यश्शक्त्या सर्वे तुल्यफलास्स्मृताः
रन्तिदेवोऽपि नृपतिर् अपः प्रादादकिञ्चनः
शुद्धेन मनसा विप्र नाकपृष्ठं ततो गतः
न धर्मः प्रीयते तात दानैर्दत्तैर्महाफलैः
न्यायलब्धैर्यथा सूक्ष्मैश् श्रद्धापूतैस्स तुष्यति
गोप्रदानसहस्राणि द्विजातिभ्यो नृगो नृपः
एकं दत्त्वा परस्वं तु नरकं समवाप्तवान्
आत्ममांसप्रदानेन शिबोरौशीनरो नृपः
प्राप्य पुण्यकृताल्ँलोकान् मोदते दिवि सुव्रतः
विभवेन नृणां पुण्यं स्वशक्त्या स्वार्जितं नृणाम्
न यज्ञैर्विविधैर्विप्र यथा न्यायेन सञ्चितैः
क्रोधो दानफलं हन्ति लोभात् स्वर्गं न गच्छति
न्यायवृत्तिर्हि तपसा दानवित् स्वर्गमश्नुते
न राजसूयैर्बहुभिर् इष्ट्वा विपुलदक्षिणैः
न चाश्वमेधैर्बहुभिः फलं सममिदं तव
सक्तुप्रस्थेन हि जितो ब्रह्मलोकस्त्वयाऽनघ
विरजो ब्रह्मसदनं गच्छ विप्र यथेप्सितम्
सर्वेषां वो द्विजश्रेष्ठ दिव्यं यानमुपस्थितम्
आरोहत यथाकामं धर्मोऽस्मि द्विजसत्तम
पावितो हि त्वया देहो लोके कीर्तिस्स्थिरा च ते
सभार्यस्सहपुत्रश्च सस्नुषश्च दिवं व्रज
नकुलः
इत्युक्तवाक्ये धर्मेण यानमारुह्य स द्विजः
सभार्यस्सस्नुषश्चापि ससुतश्च दिवं ययौ
तस्मिन् विप्रे गते स्वर्गं सपुत्रे सस्नुषे तदा
भार्याचतुर्थे धर्मज्ञे ततोऽहं निस्सृतो बिलात्
ततस्तु सक्तुगन्धेन क्लेदेन सलिलस्य च
दिव्यपुष्पवमर्दाच्च साधोर्दानलवैश्च तैः
विप्रस्य तपसा तस्य शिरो मे काञ्चनीकृतम्
तस्य सत्याभिसन्धस्य सक्ष्मदानेन चैव ह
शरीरार्धं च मे विप्राश् शातकुम्भमयं कृतम्
पश्यतेमं सुविपुलं तपसा तस्य धीमतः
कथमेवंविधं मे स्यात् अन्यत् पार्श्वमिति द्विजाः
तपोवनानि यज्ञांश्च हृष्टोऽभ्येमि पुनः पुनः
यज्ञं त्वहमिमं श्रुत्वा कुरुराजस्य धीमतः
आशया परया प्राप्तो न चाहं काञ्चनः कृतः
ततो मयोक्तं तत् पुण्यं प्रशस्य द्विजसत्तमाः
सक्तुप्रस्थेन यज्ञोऽयं सम्मितो नेति सर्वथा
सक्तुप्रस्थलवैस्तैर्हि तदाऽहं काञ्चनीकृतः
न हि यज्ञो महानेष सदृशस्तैर्मतो मम
वैशम्पायनः-
इत्युक्त्वा नकुलस्सर्वान् यज्ञे द्विजवरांस्तदा
जगामादर्सनं राजंस् ते च विप्रा ययुर्गृहान्
एतत् ते सर्वमाख्यातं मया परपुरञ्जय
यदाश्चर्यमभूत् तस्मिन्नश्वमेधे महाक्रतौ
न विस्मयस्ते नृपते यज्ञे कार्यः कथञ्चन
ऋषिकोटिसहस्राणि तपोभिर्ये दिवं गताः
अद्रोहस्सर्वभूतेषु सन्तोषश्शीलमार्जवम्
तपो दमश्च सत्यं च प्रदानं चेति सम्मितम्