जनमेजयः-
पितामहस्य मे यज्ञे धर्मपुत्रस्य धीमतः
यदाश्चर्यमभूत् किञ्चित् तद्भवान् वक्तुमर्हति
वैशम्पायनः-
श्रूयतां राजशार्दूल महदाश्चर्यमुत्तमम्
अश्वमेधे महायज्ञे निवृत्ते यदभूद्विभो
तर्पितेषु द्विजाग्र्येषु ज्ञातिसम्बन्धिबन्धुषु
दीनान्धकृपणे चाऽपि तदा भरतसत्तम
घुष्यमाणे महादाने दिक्षु सर्वासु भारत
पतत्सु पुष्पवर्षेषु धर्मराजस्य मूर्धनि
बिलान्निस्सृत्य नकुलो रुक्मपार्श्वस्तदा नृप
वज्राशनिसमं नादम् अमुञ्चत विशाम्पते
सकृदुत्सृज्य तन्नादं त्रासयानो मृगद्विजान्
मानुषं वचनं प्राह धृष्टो बिलशयो महान्
नकुलः-
सक्तुप्रस्थेन वो नायं यज्ञस्तुल्यो नराधिपाः
उञ्छवृत्तेर्वदान्यस्य कुरुक्षेत्रनिवासिनः
वैशम्पायनः-
तस्य तद्वचनं श्रुत्वा नकुलस्य विशाम्पते
विस्मयं परमं जग्मुस् सर्वे ते ब्राह्मणर्षभाः
ततस्समेत्य नकुलं पर्यपृच्छन्त ते द्विजाः
द्विजाः-
कुतस्त्वं समनुप्राप्तो यज्ञं साधुसमागमम्
किं बलं परमं ते ह किं श्रुतं किं परायणम्
कथं भवन्तं विद्याम यो नो यज्ञं विगर्हसे
अविलुप्यागमं कृत्स्नं विविधैर्याजकैर्हुतम्
यथागमं यथान्यायं कर्तव्यं च तथा कृतम्
पूजार्हाः पूजिताश्चात्र विधिवज्ज्ञानचक्षुषः
मन्त्रापूतं हुतश्चाग्निर् दत्तं देयममत्सरम्
तुष्टा द्विजर्षभाश्चात्र दानैर्बहुविधैरपि
क्षत्रियाश्च सुयुद्धेन श्राद्धैरपि पितामहाः
पालनेन विशस्तुष्टाः कामैस्तुष्टा वरस्त्रियः
अनुक्रोशैस्तथा शूद्रा दानश्शेषाः पृथग्जनाः
ज्ञातिसम्बन्धिनस्तुष्टश् शौचेन च नृपस्य नः
देवा हविर्भिः पुण्यैश्च रक्षणैश्शरणागताः
यदत्र तथ्यं तद्ब्रूहि सत्यंसन्ध द्विजातिषु
यथाश्रुतं यथादृष्टं पृष्टो ब्राह्मणकाम्यया
वैशम्पायनः-
श्रद्धेयवाक्यः प्राज्ञस्त्वं दिव्यरूपं बिभर्षि च
समागतश्च विप्रैस्त्वं तत्त्वतो वक्तुमर्हति
इति पृष्टो द्विजैस्तैः स प्रहसन्नकुलोऽब्रवीत्
नकुलः-
नैषा मृषा मया वाणी प्रोक्ता दर्पेण वा द्विजाः
यन्मयोक्तमिदं किञ्चिद् युष्माभिश्चाप्युपश्रुतम्
सक्तुप्रस्थेन वो नायं यज्ञस्तुल्यो द्विजर्षभाः
उञ्छवृत्तेर्वदान्यस्य कुरुक्षेत्रनिवासिनः
यद्यवश्यं मयैवैतद् वक्तव्यं द्विजपुङ्गवाः
शृणुताव्यग्रमनसस् तन्मे सर्वं द्विजर्षभाः
अनुभूतं च दृष्टं च यन्मयाऽद्भुतमुत्तमम्
उञ्छवृत्तेर्यथा वृत्तं दानधर्मं च यादृशम्
स्वर्गं स्थानं च सम्प्राप्तस् सभार्यस्ससुतस्नुषः
यथा चार्धं शरीरस्य ममेदं काञ्चनीकृतम्