वैशम्पायनः-
श्रपयित्वा पशूनन्यान् विधिवद्द्विजसत्तमाः
तुरगं तं यथाशास्त्रम् आलभन्त द्विजातयः
ततस्सञ्ज्ञप्य तुरगं विधिवद्याजकर्षभाः
उपसंवेशयाञ्चक्रुस् ततस्तां द्विजसत्तमाः
कलाभिस्तिसृभी राजन् यथाविधि समन्विताम्
उद्धृत्य तु वपां तत्र यथाशास्त्रं द्विजर्षभाः
श्रपयामासुराश् विधिवद्भरतर्षभ
तं वपाधूमगन्धं तु धर्मराजस्सहानुजः
उपाजिघ्रद्यथान्यायं सर्वपाप्मापहं तदा
शिष्टान्यङ्गानि यान्यासंस् तस्याश्वस्य नराधिप
तान्यग्रौ जुहुवुर्धीरास् समस्ताष् षोडशर्त्विजः
संस्थाप्यैवं तस्य राज्ञस् तं क्रतं शक्रतेजसः
व्यासस्सशिष्यो भगवान् वर्धयामास तं नृपम्
ततो युधिष्ठिरः प्रादात् सदस्येभ्यो यथाविधि
कोटीस्सहस्रं निष्काणां व्यासाय तु वसुन्धराम्
प्रतिगृह्य धरां राजन् व्यासस्सत्यवतीसुतः
अब्रवीद्भरतश्रेष्ठं धर्मात्मानं युधिष्ठिरम्
व्यासः-
पृथिवी भवतस्त्वेषां सन्न्यस्ता राजसत्तम
निष्क्रयो दीयतां मह्यं ब्राह्मणा हि धनार्थिना
व्यासः-
युधिष्ठिरस्तु तान् विप्रान् प्रत्युवाच महामनाः
भ्रातृभिस्सहितो धीमान् मध्ये राज्ञां महात्मनाम्
युधिष्ठिरः-
अश्वमेधे महायज्ञे पृथिवी दक्षिणा स्मृता
अर्जुनेन जिता सेयम् ऋत्विग्भ्यः प्रापिता मया
वनं यस्यामि विप्रेन्द्रा विभजध्वं महीमिमाम्
चतुर्धा पृथिवीं कृत्वा चातुर्होत्रप्रमाणतः
नाहमादातुमिच्छामि ब्रह्मस्वं मुनिसत्तमाः |
इदं मतं हि मे नित्यं भ्रातॄणां च समानघाः
वैशम्पायनः-
इत्युक्तवति तस्मिंस्ते भ्रातरो द्रौपदी च सा
एवमेतदिति प्राहुस् तदभूद्रोमहर्षणम्
ततोऽन्तरिक्षे वागासीत् साधु साध्विति भारत
तथैव द्विजसङ्घानां शंसतां विबभौ स्वनः
द्वैपायनस्तथोक्तस्तु पुनरेव युधिष्ठिरम्
उवाच मध्ये विप्राणाम् इदं सम्पूजयन् मुनिः
व्यासः-
दत्तैषा भवता मह्यं तां ते प्रतिददाम्यहम्
हिरण्यं दीयतामेभ्यो द्विजातिभ्योभ्यो धराऽस्तु ते
वैशम्पायनः-
श्रीभगवान्-
ततोऽब्रवीद्वासुदेवो धर्मराजं युधिष्ठिरम्
यथाऽऽह भगवान् व्यासस् तथा त्वं कर्तुमर्हसि
वैशम्पायनः-
इत्युक्तस्स कुरुश्रेष्ठः प्रीतात्मा भ्रातृभिस्सह
कोटिं कोटिं गवां प्रादाद् दक्षिणां त्रिगुणां क्रतौ
न करिष्यति तल्लोके कश्चिदन्यो नराधिपः
यत् कृतं कुरुसिंहेन मरुत्तमनुकुर्वता
प्रतिगृह्य तु तद्रत्नं कृष्णद्वैपायनः प्रभुः
ऋत्विग्भ्यः प्रददौ विद्वांश् चतुर्धा व्यभजंश्च ते
प्रथिव्या निष्क्रयं दत्त्वा तद्धिरण्यं युधिष्ठिरः
धूतपाप्मा जितस्वर्गो मुमुदे भ्रातृभिस्सह
ऋत्विजस्तमपर्यन्तं सुवर्णनिचयं तदा
व्यभजन्त द्विजातिभ्यो यथोत्साहं यथाविधि
यज्ञवाटे तु यत् किञ्चिद्धिरण्यमपि भूषणम्
तोरणानि च यूपांश्च घटान् पात्रीस्तथेष्टकाः
युधिष्ठिराभ्यनुज्ञातास् तत् सर्वं व्यभजन् द्विजाः
अनन्तरं ब्राह्मणेभ्यः क्षत्रिया जह्रिरे वसु
तथा विट्शूद्रसङ्घाश्च तथाऽन्ये म्लेच्छजातयः
कालेन महता जह्रुस् तत् सुवर्णं ततस्ततः
ततस्ते ब्राह्मणास्सर्वे मुदिता जग्मुरालयान्
तर्पिता वसुना चैव धर्मराज्ञा महात्मना
स्वमंशं भगवान् व्यासः कुन्त्यै पादाभिवादितः
प्रददौ तस्य महतो हिरण्यस्य महाद्युतिः
श्वशुरात् प्रीतिदानं तत् प्राप्य सा प्रीतमानसा
चकार पुण्यं कालेन सुमुहद्धि पृथा तथा
गत्वा त्ववभृथं राजा विपाप्मा भ्रातृभिस्सह
सभाज्यमानश्शुशुभे महेन्द्रो दैवतैरिव
पाण्डवाश्च महीपालैस् समेतैस्संवृतास्तदा
अशोभन्त महाराज ग्रहस्तारागणैर्यथा
राजभ्योपि ततः प्रादाद् रत्नानि विविधानि च
गजानश्वानलङ्कारान् स्त्रीश्च रत्नानि काञ्चनम्
तद्धनौघमपर्यन्तं पार्थः पार्थिवमण्डले
विसृजञ्शुशुभे राजन् यथा वैश्रवणस्तथा
आनीय च तथा वीरं राजानं बभ्रुवाहनम्
प्रदाय बहुलं वित्तं गृहान् प्रास्थापयत् तदा
दुश्शलायाश्च तं पौत्रं बालकं भरतर्षभ
स्वराज्ये पितुभिर्मुक्ते प्रीत्या समभिषेचयत्
राज्ञश्चैवापि तान् सर्वान् सुविभक्तान् सुपूजितान्
प्रस्थापयामास वशी कुरुराजो युधिष्ठिरः
एवं बभूव यज्ञस्स धर्मराजस्य धीमतः
बह्वन्नधनरत्नौघस् सुरामैरेयसागरः
सर्पिषश्च ह्रदा यत्र बहवश्चान्नपर्वताः
रसालकर्दमाः कुल्या बभूवुर्भरतर्षभ
भक्ष्याष्षड्रसरागाणां क्रियतां भुज्यतामिति
पशूनां वध्यमानान्नां नान्तं ददृशिरे जनाः
मत्तोन्मत्तप्रमुदितं प्रगीतवनिताजनम्
मृदङ्गशङ्खनादैश्च मनोरममभूत् तदा
दीयतां भुज्यतां चेति तत्र शब्दो महानभूत्
पीयतां दीयतां चेति दिवारात्रमवारिताः
तं महोत्सवसङ्काशम् अतिहृष्टजनाकुलम्
कथयन्ति स्म पुरुषा नानादेशनिवासिनः
वर्षित्वा धनधाराभिः कामै रत्नैर्धनैस्तथा
विपाप्मा भरतश्रेष्ठः कृतार्थः प्राविशत् पुरम्