वैशम्पायनः-
एतस्मिन्नेव काले तु स राजा बभ्रुवाहनः
मातृभ्यां सहितो धीमान् कुरूनभ्याजगाम ह
स समेत्यकुरून् सर्वान् सर्वैस्तैरभिनन्दितः
प्रविवेश पितामह्याः कुन्त्या भवनमुत्तमम्
स प्रविश्य यथान्यायं पाण्डवानां निवेशनम्
पितामहीमभ्यवन्दत् साम्ना परमवल्गुना
तथा चित्राङ्गदा देवी कौरवस्यात्मजाऽपि च
पृथां कृष्णां च सहिते विनयेनाभिजग्मतुः
सुभद्रां च यथान्यायं याश्चान्याः कुरुयोषितः
ददौ कुन्ती ततस्ताभ्यां रत्नानि विविधानि च
द्रौपदी च सुभद्रा च याश्चाप्यन्याः कुरुस्त्रियः
ऊषतुस्तत्र ते देव्यौ महार्हशयनासने
सुपूजिते स्वयं कुन्त्या पार्थस्य प्रियकाम्यया
स च राजा महावीर्यः पूजितो बभ्रुवाहनः
धूतराष्ट्रं महीपालम् उपतस्थे यथाविधि
युधिष्टिरं च राजानं भीमादींश्चापि पाण्डवान्
उपागम्य महातेजा विनयेनाभ्यवादयत्
स तैः प्रेम्णा परिष्वक्तः पूजितश्च यथाविधि
धनं चास्मै ददुर्भूरि प्रीयमाणा महारथाः
तथैव च महीपालः कृष्णं चक्रगदाधरम्
प्रद्युम्नवद्धृषीकेशं विनयेनोपजग्मिवान्
तस्मै कृष्णो ददौ राज्ञे राजार्हमतिपूजितम्
रथं हेमपरिष्कारं दिव्याश्वयुजमुत्तमम्
धर्मराजश्च भीमश्च यमजौ फल्गुनस्तथा
पृथक्पृथगथैवैनं माहार्थैरभ्यपूजयन्
ततस्तृतीये दिवसे सत्यवत्यास्सुतो मुनिः
युधिष्ठिरं समानीय वाग्मी वचनमब्रवीत्
व्यासः-
अद्यप्रभृति कौन्तेय यज्ञस्य समयो हि ते
मुहूर्तो यज्ञियः प्राप्तश् चोदयन्तीह याजकाः
अहीनो नाम राजेन्द्र क्रतुस्तेऽयं विकल्पवान्
बहुत्वात् काञ्चनस्यास्य ख्यातो बहुसुवर्णकः
एवमेव महाराज दक्षिणां त्रिगुणां कुरु
श्रीत्वं व्रजतु ते राजन् ब्राह्मणा ह्यत्र कारणम्
त्रीनश्वमेधानत्र त्वं सम्प्राप्य बहुदक्षिणान्
ज्ञातिहत्याकृतं पापं प्रहास्यसि नराधिप
पवित्रं परमं ह्येतत् पावनानां च पावनम्
यदश्वमेधावभृथं प्राप्स्यसे कुरुनन्दन
वैशम्पायनः-
इत्युक्तस्स तु तेजस्वी व्यासेनामितबुद्धिना
दीक्षां विवेश धर्मात्मा वाजिमेधाप्तये तदा
नराधिपः प्रायजत वाजिमेधं महाक्रतुम्
विधिवद्दक्षिणं राजा सर्वयज्ञगुणान्वितम्
तत्र वेदविदो राजंश् चक्रुः कर्माणि याजकाः
परिक्रामन्ति शास्त्रज्ञा यथावद्द्विजसत्तमाः
न तेषां स्खलितं तत्र नासीदपहुतं तदा
क्रमयुक्तं च युक्तं च चक्रुस्तत्र द्विजर्षभाः
कृत्वा प्रवर्ग्यं धर्मज्ञा यथावद्द्विजसत्तमाः
चक्रस्ते विधिवद्राजंस् तथैवाभिषवं द्विजाः
अभिषूय ततो राजन् सोमं सोमपसत्तमाः
सवनान्यानुपूर्व्येण चक्रुश्स्त्रानुसारिणः
न तत्र कृपणः कश्चिन्न दरिद्रो बभूव ह
क्षुधितो दुःखितो वाऽपि प्राकृतो वाऽपि मानवः
भोजनं भोजनार्थिभ्यो दापयामास सर्वदा
भीमसेनो महातेजास् सततं राजशासनात्
संस्तरे कुशलाश्चापि सर्वकार्याणि याजकाः
दिवसे दिवसे चक्रुर् यथाशास्त्रार्थचक्षुषः॥
नाषडङ्गविदत्रासीत् सदस्यो नाबहुश्रुतः
नाव्रतो नानुपाध्यायो न च वादाक्षमो द्विजः
यूपोच्छ्रये ततः प्राप्ते षड् बैल्वान् भरतर्षभ
खादिरान् बिल्वसहितांस् तावतस्सर्ववर्णिनः
देवदारुमयौ द्वौ तु यूपौ कुरुपतेः क्रतौ
श्लेष्मातकमयं चैकं याजकास्समकल्पयन्
सर्वानेतान् यथाशास्त्रं याजकास्समकारयन्
शोभार्थं चापरान् यूपान् काञ्चनान् भरतर्षभ
स भीमः कारयामास धर्मराजस्य शासनात्
ते व्यराजन्त राजर्षेर् वासोभिरुपशोभिताः
नरेन्द्राभिगता देवैर् यथा सप्तर्षयो दिवि
इष्टकाः काञ्चनाश्चात्र चयनार्थं कृता भवन्
शुशुभे चयनं तस्य दक्षस्येव प्रजापतेः
चतुश्चित्यस्स तस्यासीद् अष्टादशकरात्मकः
स रुक्मपक्षो निचितस् त्रिगुणो गरुडाकृतिः
ततो नियुक्ताः पशवो यथाशास्त्रं मनीषिभिः
तं तं देवं समुद्दिश्य पक्षिणः पशवश्च ये
ऋषभाश्शास्त्रपठितास् तथा जलचराश्च ये
सर्वांस्तानभ्ययुञ्जंस्ते तत्राग्निचयकर्मणि
यूपेषु नियतं चासीत् पशूनां त्रिशतं तथा
अश्वरत्नोत्तमं राज्ञः कौन्तेयस्य महात्मनः
स यज्ञश्शुशुभे तस्य साक्षाद्देवर्षिसङ्कुलः
गन्धर्वगणसङ्कीर्णश् शोभितोऽप्सरसां गणैः
स किम्पुरुषगीतैश्च किन्नरैश्चोपशोभितः
सिद्धविप्रनिवासैश्च समन्तादभिशोभितः
तस्मिन् सदसि नित्यास्तु व्यासशिष्या द्विजोत्तमाः
विश्वावसुश्चित्रसेनस् तथाऽन्ये गीतकोविदाः
नारदश्च बभूवात्र तुम्बुरुश्च महाद्युतिः
सर्वशास्त्रप्रणेतारः कुशला यज्ञकर्मसु
गन्धर्वा गीतकुशला नृत्तेषु च विशारदाः
रमयन्ति स्म तान् विप्रान् यज्ञकर्मान्तरेष्वथ