युधिष्ठिरः-
श्रुतं प्रियमिदं कृष्ण यत् त्वया मम भाषितुम्
तन्मेऽमृतरसप्रख्यं मनो ह्लादयते विभो
बहूनि किल युद्धानि विजयस्य नराधिपैः
पुनरासन् हृषीकेश तत्र तत्र मया श्रुतम्
तन्निमित्तं हि स तदा पार्थस्सुखविवर्जितः
अतीव विजयो धीमान् इति मे दूयते मनः
सञ्चिन्तयामि वार्ष्णेय सदा कुन्थीसुतं रहः
किं नु तस्य शरीरेऽस्ति सर्वलक्षणपूजिते
अनिष्टं लक्षणं कृष्ण येन दुःखान्युपाश्नुते
अती दुःखभागी स सततं कुन्तिनन्दनः
न च पश्यामि बीभत्सोर् निन्द्यं गात्रेषु किञ्चन
श्रोतव्यं चेन्मयैतद्वै तन्मे व्याख्यातुमर्हसि
वैशम्पायनः-
इत्युक्तस्स हृषीकेशो ध्यात्वा सुमहदन्तरम्
राजानं भोजराजन्यवर्धनो विष्णुरब्रवीत्
श्रीभगवान्-
न ह्यस्य नृपते किञ्चिद् अनिष्टमुपलक्षये
ऋते पुरुषसिंहस्य पिण्डिकेऽस्याधिके यतः
ताभ्यां स पुरुषव्याघ्रो नित्यमध्वसु युज्यते
न ह्यन्यदनुपश्यामि येनासौ दुःखभाग् जयः
वैशम्पायनः-
इत्युक्तस्स कुरुश्रेष्ठस् सत्यं कृष्णेन धीमता
प्रोवाच वृष्णिशार्दूल् एवमेतदिति प्रभुः
कृष्णा तु द्रौप्दी कृष्णं तिर्यक् सासूयमैक्षत |
प्रतिजग्राह तस्यास्तं प्रणयं चापि केशिहा
सख्युस्सखा हृषीकेशस् साक्षादिव धनञ्जयः
तत्र भीमादयस्ते तु कुरवो यादवास्तदा
विचित्रा रेमिरे श्रुत्वा धनञ्जयकथां विभो
तथा कथयतामेव तेषामर्जुनसङ्कथाः
उपायाद्वचनान्मर्त्यो विजयस्य महात्मनः
सोऽभिगम्य कुरुश्रेष्ठं नमस्कृत्य च बुद्धिमान्
उपायातं नरव्याघ्रम् अर्जुनं प्रत्यवेदयत्
तच्छ्रुत्वा नृपतिस्तस्मै हर्षबाष्पाकुलेक्षणः
प्रियाख्याननिमित्तं वै ददौ बहुधनं तदा
ततो द्वितीये दिवसे महाञ् शब्दोऽभ्यवर्धत
आयाति पुरुषव्याघ्रे पाणडवानां धुरन्धरे
ततो रेणुस्समुद्भूतो विबभौ तस्य वाजिनः
अभितो वर्तमानस्य यथोच्चैश्श्रवसस्तथा
तत्र हर्षकला वाचो नराणां शुश्रुवेऽर्जुनः
दिष्ट्या हि पार्थ कुशली धन्यो राजा युधिष्ठिरः
कोन्यो हि पृथिवीं कृत्स्नाम् अभिजित्य सुपार्थिवाम् |
चारयित्वा हयश्रेष्ठम् उपेयादर्जुनादृते
ये व्यतीता महात्मानो राजानस्सगरादयः
तेषामपीदृशं कर्म न किञ्चिदपि शुश्रुम
नैतदन्ये करिष्यन्ति भविष्यन्तो नराधिपाः
यत् त्वं कुरुकुलश्रेष्ठ दुष्करं कृतवानसि
इत्येवं वदतां तेषां नृणां श्रुतिसुखावहाः
शृण्वन् विवेश धर्मात्मा फल्गुनो यज्ञसंस्तरम्
ततो राजा सहामात्यः कृष्णश्च यदुनन्दनः
धृतराष्ट्रं पुरस्कृत्य ते तं प्रत्युद्ययुस्तदा
सोऽभिवाद्य पितुः पादौ धर्मराजस्य धीमतः
भीमादींश्चापि सम्पूज्य पर्यष्वजत केशवम्
तैस्समेत्यार्चितस्तान् स प्रत्यर्च्याथ यथाविधि
विशश्राम स धर्मात्मा तीरं लब्ध्वेव पारगः