वैशम्पायनः-
समागतान् वेदविदो राज्ञश्च पृथिवीश्वरान्
दृष्ट्वा युधिष्ठिरो राजा भीमसेनमथाब्रवीत्
युधिष्ठिरः-
उपयाता नरव्याघ्रा य इमे जगतीश्वराः
एतेषां क्रियतां पूजा पूजार्हा हि नरेश्वराः
वैशम्पायनः-
इत्युक्तस्स तथा चक्रे नरेन्द्रेण यशस्विना
भीमसेनो महातेजा यमाभ्यां सह कौरव
अथाभ्यगच्छद्गोविन्दो वृष्णिभिस्सह धर्मजम्
बलदेवं पुरस्कृत्य सर्वप्राणभृतां वरम्
युयुधानेन सहितः प्रद्युम्नेन गदेन च
निशठेनाथ साम्बेन तथैव कृतवर्मणा
तेषामपि परां पूजां चक्रे भीमो महाभुजः
विविशुस्ते च वेश्मानि रत्नवन्ति नरर्षभाः
युधिष्ठिरसमीपे तु कथान्ते मधुसूदनः
अर्जुनं कथयामास बहुसङ्ग्रामकर्शितम्
स तं प्रपच्छ कौन्तेयः पुनःपुनररिन्दमः
धर्मराट् भ्रातरं जिष्णुं स चाचष्ट जगत्पतिः
श्रीभगवान्-
आगमद्द्वारकावासी ममाप्तः पुरुषो नृप
सोऽद्राक्षीत् पाण्डवश्रेष्ठं बहुसङ्ग्रामकर्शितम्
वैशम्पायनः-
समीपे च महाबाहुम् आचष्ट मम स प्रभो
कुरु कार्याणि कौन्तेय हयमेधार्थसिद्धये
इत्युक्तः प्रत्युवाचैनं धर्मराजो युधिष्ठिरः
युधिष्ठिरः-
दिष्ट्या स कुशली जिष्णुर् उपायातस्स माधव
तव यत् सन्दिदेशासौ पाण्डवानां बलाग्रणीः
तदाख्यातुमिहेच्छामि भवता यदुनन्दन
वैशम्पायनः-
इत्युक्तो राजशार्दूल वृष्ण्यन्धकपतिस्तदा
प्रोवाचेदं वचो वाग्मी धर्मात्मानं युधिष्ठिरम्
श्रीभगवान्-
इदमाह महाराज पार्थवाक्यं नरेश्वरः
निवेद्यो युधिष्ठिरः कृष्ण काले वाक्यमिदं मम
आगमिष्यन्ति राजानस् सर्वतः कौरवान् प्रति
तेभ्य एकैकशः पूजा कार्यात्येतत् क्षमं हितम्
इत्येतद्वचनाद्राजा विज्ञाप्यो मम मानद
ते तदात्ययिकं न स्याद् यदर्घ्यानयनेऽभवत्
कर्तुमर्हति तद्राजा भवांश्चाप्यनुमन्यताम्
राजानो न विनश्येयुर् नेमा राजन् प्रजाः पुनः
इदमन्यच्च कौरव्य वचस्स पुरुषोऽब्रवीत्
धनञ्जयस्य नृपते तन्मे निगदतश्शृणु
उपयास्यति यज्ञं नो मणलूरपतिर्नृपः
पुत्रो मम महातेजा दयितो बभ्रुवाहनः
तं भवान् मदपेक्षार्थं विधिवत् प्रतिपूजयेत्
स हि भक्तोऽनुरक्तश्च मम नित्यमिति प्रभो
वैशम्पायनः-
इत्येतद्वचनं श्रुत्वा धर्मराजो युधिष्ठिरः
अभिनन्द्य स तद्वाक्यम् इदं वचनमब्रवीत्