वैशम्पायनः-
न्यवर्तत ततो वाजी यत्र नागाह्वयं पुरम्
तं निवृत्तं तु शुश्राव चारेणैव युधिष्ठिरः
श्रुत्वाऽर्जुनं कुशलिनं स च हृष्टमना ह्यभूत्
विजयस्य च तत् कर्म गान्धारविषये तदा
श्रुत्वा चान्येषु देशेषु स सुप्रीतोऽभवन्नृपः
एतस्मिन्नेव काले तु द्वादशीं माघमासिकीम्
इष्टं गृहीत्वा नक्षत्रं धर्मराजो युधिष्ठिरः
समानाय्य महातेजास् सर्वान् भ्रातॄन् महामनाः
भीमं च नकुलं चैव सहदेवं च कौरव
प्रोवाचेदं वचः काले तदा धर्मभृतां वरः
आमन्त्र्य वदतां श्रेष्ठो भीमं भीमपराक्रमम्
युधिष्ठिरः-
आयाति भीमसेनासौ सहाश्वेन तवानुजः
यथा मे पुरुषाः प्राहुर् ये धनञ्जयसारिणः
उपस्थितश्च कालोऽयम् अभितो वर्तते हयः
माघी च पौर्णमासीयं मासश्शेषो वृकोदर
प्रस्थाप्यन्तां हि विद्वांसो ब्राह्मणा वेदपारगाः
वाजिमेधार्थसिद्ध्यर्थं देशं पश्यन्तु यज्ञियम्
वैशम्पायनः-
इत्युक्तस्स तु तच्चक्रे भीमो नृपतिशासनम्
हृष्टश्श्रुत्वा नरवरैर् आयान्तं सव्यसाचिनम्
ततो ययौ भीमसेनः प्राज्ञैस्स्थपतिभिस्सह
ब्राह्मणानग्रतः कृत्वा कुशलान् यज्ञकर्मसु
तं समासाद्य देशं तु सुप्रतोलीविटङ्किनम्
मापयामास कौरव्यो यज्ञवाटं यथाविधि
प्रासादशतसम्बाधं मणिप्रवरकुट्टिमम्
सदस्सपत्नीसदनं साग्नीध्रमपि चोत्तरम्
स्तम्भान् कनकचित्रांश्च तोरणानि बृहन्ति च
यज्ञायतनदेशेषु सर्वेष्वेव च काञ्चनम्
कारयामास विधिवन्मणिहेमविभूषितम्
ब्राह्मणानां न वेश्मानि नानादेशसमेयुषाम्
अन्तःपुराणि राज्ञां च नानादेशिवासिनाम्
कारयामास धर्मात्मा तत्र तत्र यथाविधि
तथा सम्प्रेषयामास दूतान् नृपतिशासनात्
भीमसेनो महाराज राज्ञामक्लिष्टकर्मणाम्
ते प्रियार्थं कुरुपतेर् आययुर्नृपसत्तमाः
रत्नान्यनेकान्यादाय स्त्रियोऽश्वानायुधानि च
तेषां निवसतां तेषु शिबिरेषु सहस्रशः
नर्दतस्सागरस्येव शब्दो दिवमिवास्पृशत्
प्रत्युद्गम्य नमस्कृत्य ब्राह्मणांश्च न्यवेदयत्
तेषामभ्यागतानां च नानादेशनिवासिनाम्
व्यादिदेशान्नपानानि शय्याश्चातीवमानुषाः
वाहनानां च विविधाश् शालाश्शालीक्षुगोरसैः
उपेता पुरुषव्याघ्र व्यादिदेश स धर्मराट्
वर्णाः पृथक्सन्निविष्टा ह्युत्तरोत्तरपूजिताः
तथा तस्मिन् महायज्ञे धर्मराजस्य धीमतः
समाजग्मुर्मुनिगणा बहवो ब्रह्मवादिनः
ये च द्विजातिप्रवरास्तत्रासन्पृथिवीपते
समाजग्मुः सशिष्यांस्तान्प्रतिजग्राह कौरवः
सर्वांश्च ताननुययौ यावदावसथान्प्रति
स्वयमेव महातेजा दम्भं त्यक्त्वा युधिष्ठिरः
ततः कृत्वा स्थपतयः शिल्पिनोऽन्ये च ये तदा
कृत्स्नं यज्ञविधिं राजन्धर्मराजे न्यवेदयन्
तच्छ्रुत्वा धर्मराजस्तु कृतं सर्वमतन्द्रितः
हृष्टरूपोऽभवद्राजन्सह भ्रातृभिरादृतः
तस्मिन्यज्ञे प्रवृत्ते तु वाग्मिनो हेतुवादिनः
हेतुवादान्बहूनाहुः परस्परजिगीषवः
ददृशुस्तं नृपतयो यज्ञस्य विधिमुत्तमम्
देवेन्द्रस्येव विहितं भीमसेनेन भारत
ददृशुस्तोरणान्यत्र शातकुम्भमयानि ते
शय्यासनविहारांश्च सुबहून्रत्नसञ्चयान्
घटान्पात्रीः कटाहानि कलशान्वर्धमानकान्
न हि किञ्चिदसौवर्णमपश्यन्वसुधाधिपाः
यूपांश्च शास्त्रपठितान्दारवान्हेमभूषितान्
उपक्लृप्तान्यथाकालं विधिवद्भूरिवर्चसः
स्थलजा जलजा ये च पशवः केचन प्रभो
सर्वानेव समानीतानपश्यंस्तत्र ते नृपाः
गाश्चैव महिषीश्चैव तथा वृद्धस्त्रियोपि च
औदकानि च सत्वानि श्वापदानि वयांसि च
जरायुजाण्डजातानि स्वेदजान्युद्भिदानि च
पर्वतानूपजातानि भूतानि ददृशुश्च ते
एवं प्रमुदितं सर्वं पशुगोधनधान्यतः
यज्ञवाटं नृपा दृष्ट्वा परं विस्मयमागताः
‘अनिशं दीयते च स्म तत्र भोज्यं पृथग्विधम् |’
ब्राह्मणानां विशां चैव बहुमृष्टान्नमृद्धिमत्
पूर्णे शतसहस्रे तु विप्राणां तत्र भुञ्जताम्
दुन्दुभिर्मेघनिर्घोषो मुहुर्मुहुरताड्यत
विननादासकृच्चापि दिवसेदिवसे गते
एवं स ववृते यज्ञो धर्मराजस्य धीमतः
अन्नस्य सुबहून्राजन्नुत्सर्गान्पर्वतोपमान्
दधिकुल्याश्च ददृशुः सर्पिषश्च ह्रदाञ्जनाः
जम्बूद्वीपो हि सकलो नानजनपदायुतः
राजन्नदृस्यतैकस्थो राज्ञस्तस्य महामखे
तत्र जातिसहस्राणि पुरुषाणां ततस्ततः
गृहीत्वा धनमाजग्मुर्बहूनि भरतर्षभ
स्रग्विणश्चापि ते सर्वे सुमृष्टमणिकुण्डलाः
पर्यवेषन्द्विजातींस्ताञ्शतशोऽथ सहस्रशः
विविधान्यन्नपानानि पुरुषा येऽनुयायिनः
ते वै नृपोपभोज्यानि ब्राह्मणानां ददुश्च ह