वैशम्पायनः-
मागधेनार्चितो राजन् पाण्डवश्श्वेतवाहनः
दक्षिणां दिशमास्थाय चारयामास तं हयम्
ततस्स पुनरावृत्य हयः कामचरो बली
आससाद पुरीं रम्यां चेदीनां शुक्तिसाह्वयाम्
शरभेणार्चितस्तत्र शिशुपालात्मजेन सः
युद्धपूर्वेण मानेन पूजया च महाबलः
ततोऽर्चितो ययौ राजंश् तदा स तुरगोत्तमः
काशीन् मद्रान् कोसलांश्च किरातानाथ तङ्कणान्
तत्र पूजां यथान्यायं प्रतिगृह्य स पाण्डवः
पुनरागत्य कौन्तेयो दशार्णानचरत् तदा
तत्र चित्राङ्गदो नाम बलवान् वसधाधिपः
तेन युद्धमभूत् तस्य विजयस्यातिभैरवम्
तं चापि वशमानीय किरीटी पुरुषर्षभः
निषादराज्ञो विषयम् एकलव्यस्य जग्मिवान्
एकलव्यसुतश्चैनं युद्धेन जगृहे तदा
तत्र चक्रे निषादैश्च सङ्ग्रामं रोमहर्षणम्
ततस्तमपि कौन्तेयस् समरेष्वपराजितः
जिगाय समरे वीरो यज्ञविघ्नार्थमाद्यतम्
स तं जित्वा महाराज नैषादिं पाकशासनिः
अर्चितः प्रययौ भूयो दक्षिणं सलिलार्णवम्
तत्रापि द्रमिलैरान्ध्रै रौद्रैर्माहिषकैरपि
तथा गोल्लगिरेयैश्च युद्धमासीत् किरीटिनः
गोकर्णमथ चासाद्य प्रभासमपि जग्मिवान्
ततो द्वारवतीं रम्यां वृष्णिवीराभिरक्षिताम्
आससाद हयश्श्रीमान् कुरुराजस्य याज्ञियः
तमुन्मथ्य हयश्रेष्ठं यादवानां कुमारकाः
प्रययुस्तांस्तदा राजन्नुग्रसेनो न्यवारयत्
ततः पुराद्विनिष्क्रम्य वृष्ण्यन्धकपतिस्तदा
सहितो वासुदेवेन मातुलेन किरीटिना
तौ समेत्य नरश्रेष्ठं विधिवत् प्रीतिपूर्वकम्
परया भारतश्रेष्ठं पूजया समवस्थितौ
ततस्ताभ्यामनुज्ञातो ययौ येन हयो गतः
ततः पश्चिमदेशेन समुद्रान्तं तदा हयः
क्रमेण व्यचरत् स्फीतं ततः पञ्चनदं ययौ
तस्मादपि स कौरव्य गन्धारविषयं हयः
विचचार यथाकामं कौन्तेयानुगतस्तदा
तत्र गान्धारराजेन युद्धमासीन्महात्मनः
घोरं शकुनिपुत्रेण पूर्ववैरानुसारिणा