वैशम्पायनः-
स तु वाजी समुद्रान्ताम् अभ्येत्य पृथिवीमिमाम्
निवृत्तोऽभिमुखो राजन् येन नागाह्वयं पुरम्
अनुगच्छन् स तेजस्वी निवृत्तोऽथ किरीटधृक्
यदृच्छया समापेदे पुरं राजगृहं तदा
तमभ्याशगतं राजा जरासन्धात्मजात्मजः
क्षत्रधर्मे स्थितो वीरस् समरायाजुहाव ह
ततः पुरात् स निष्क्रम्य रथी धन्वी तली शरी
मेघसन्धिः पदातिं तं धनञ्जयमुपाद्रवत्
आसाद्य च महातेजा मेघसन्धिर्धनञ्जयम्
बालभावान्महाराज प्रोवाचेदं न कौशलात्
मेघसन्धिः-
किमयं चार्यते वाजी स्त्रीमध्य इव कौरव
हयमेनं हरिष्यामि प्रयतस्व विमोक्षणे
वैशम्पायनः-
अर्तो ननु पुरा युद्धे यदि त्वं भ्रातृभिस्सह
करिष्यामि तवातिथ्यं प्रहर प्रहरामि च
इत्युक्तः प्रत्युवाचैनं प्रहसन्निव पाण्डवः
अर्जुनः-
विघ्नकर्ता मया वार्य इति मे व्रतमाहितम्
भ्रात्रा ज्येष्ठेन नृपते तवापि विदितं ध्रुवम्
प्रहरस्व यथाशक्ति न मन्युर्विद्यते मम
वैशम्पायनः-
इत्युक्तः प्राहरत् पूर्वं पाण्डवं मगधेश्वरः
किरञ्छरसहस्राणि वर्षाणीव सहस्रदृक्
ततो गाण्डीवभृच्छूरो गाण्डीवप्रेरितैश्शरैः
चकार बाणांस्तान् मोघान् अयत्नाद् भरतर्षभ
स मोघं तस्य बाणौघं कृत्वा वानरकेतनः
शरान् मुमोच ज्वलितान् दीप्तास्यानिव पन्नगान्
रथे पताकादण्डे च रथयन्त्रहयेषु च
अन्येषु च रथाङ्गेषु न शरीरे न सारथौ
संरक्ष्यमाणः पार्थेन शरीरे फल्गुनेन ह
मन्यमानस्स्ववीर्यं तं मागधः प्राहिणोच्छरान्
ततो गाण्डीवभृच्छूरो मागधेन भृशार्दितः
बभौ वसन्तिक इव पलाशः पुष्पितो महान्
अवध्यमानस्सोऽभ्यघ्नन्मागधः पाण्डवर्षभम्
तेन तस्थौ स कौरव्य लोकवीरस्य दर्शने
सव्यसाची तु सङ्क्रुद्धो विकृष्य बलवद्धनुः
हयांश्चकार निर्देहान् सारथेश्च शिरोऽहरत्
धनुश्चास्य महच्चित्रं क्षुरेण विचकर्त ह
हस्तावापं पताकां च ध्वजं चास्य न्यपातयत्
स राजा व्यथितो व्यश्वो विधनुष्को विसारथिः
गदामादाय कौन्तेयम् अभिदुद्राव वेगवान्
तस्यापतत एवाशु गदां हेमपरिष्कृताम्
शरैश्चकर्त निशितैर् बहुभिर्गृध्रवाजितैः
सा गदा शकलीभूता विकीर्णमणिबन्धना
व्याली निर्मुच्यमानेव पपात धरणीं प्रति
विरथं तं विधनुषं गदया परिवर्जितम्
नैच्छत् ताडयितुं धीमान् अर्जुनस्समराग्रणीः
तत एनं विमनसं क्षत्रधर्मं समास्थितम्
सान्त्वपूर्वमिदं वाक्यम् अब्रवीत् कपिकेतनः
अर्जुनः-
पर्याप्तः क्षत्रधर्मोऽयं दर्शितः पुत्र गम्यताम्
बह्वेतत् समरे कर्म तव बालस्य पार्थिव
युधिष्ठिरस्य सन्देशो न हन्तव्या नृपा इति
तेन जीवसि राजंस्त्वम् अपराद्धोऽपि मे रणे
वैशम्पायनः-
इति मत्वा स चात्मानं प्रत्यादिष्टस्स मागधः
तथ्यमित्यभिगम्यैनं प्राञ्जलिः प्रत्यपूजयत्
तमर्जुनस्समाश्वास्य पुनरेवेदमब्रवीत्
अर्जुनः-
आगन्तव्यं परां चैत्रीम् अश्वमेधे नृपस्य नः
वैशम्पायनः-
इत्युक्तस्स तथेत्युक्त्वा पूजयामास तं हयम्
फल्गुनं च युधि श्रेष्ठं विधिवत् सहदेवजः
ततो यथेष्टमगमत् पुनरेव स कौरवः
ततस्समुद्रतीरेण वङ्गान् पुण्ड्रान् सकेरलान्
तत्र तत्र च भूरीणि म्लेच्छसैन्यान्यनेकशः
विजिग्ये धनुषा राजन् गाण्डीवेन धनञ्जयः