अर्जुनः-
किमागमनकृत्यं ते कौरव्यकुलनन्दिनि
मणलूरपतेर्मातुस् तथैव च रणाजिरे
कच्चित् कुशलकामाऽसि राज्ञोऽस्य भुजगात्मजे
मम वा चञ्चलापाङ्गे कच्चित् त्वं सुखमिच्छसि
कच्चित् ते पृथुलश्रोणि नाप्रियं शुभदर्शने
अकार्षमहमज्ञानाद् अयं वा बभ्रुवाहनः
वैशम्पायनः-
कच्चिच्च राजपुत्री ते सपत्नी चैत्रवाहनी
चित्राङ्गदा वरारोहा नापराध्यति किञ्चन
तमुवाचोरगपतेर्दुहिता प्रहसन्त्यथ
उलूपि-
न मे त्वमपराद्धोऽसि न नृपो बभ्रुवाहनः
न जनित्री तथाऽस्येयं मम यो प्रेष्यवत् स्थिता
श्रूयतां यद्यथा चेदं मया सर्वं विचेष्टितम्
न मे कोपस्त्वया कार्यश् शिरसा त्वां प्रसादये
त्वत्प्रियार्थं हि कौरव्य कृतमेतन्मयाऽनघ।
यत् तच्छृणु महाबाहो निखिलेन धनञ्जय
महाभारतयुद्धे यत् त्वया शान्तनवो नृपः
अधर्मेण हतः पार्थ तस्यैषा निष्कृतिः कृता
न हि भीष्मस्त्वया वीर युद्ध्यमानो निपातितः
शिखण्डिना तु संयुक्तस् तमाश्रित्य हतस्त्वया
तस्य शान्तिमकृत्वा तु त्यजेस्त्वं यदि जीवितम्
कर्मणा तेन पापेन पतेथा निरये ध्रुवम्
एषाऽत्र विहिता शान्तिः पुत्रात् त्वं प्राप्तवानसि
वसुभिर्वसुधापाल गङ्गया च महामते
पुरा हि श्रुतमेतद्वै वसुभिः कथितं मम
गङ्गायास्तीरमागम्य हते शान्तनवे नृप
आप्लुत्य देवा वसवस् समाप्लुत्य महानदीम्
इदमूचुर्वचो घोरं भागीरथ्या मते तदा
एष शान्तनवो भीष्मो निहतस्सव्यसाचिना
अयुद्ध्यमानस्सङ्ग्रामे संसक्तोऽन्येन भामिनि
तदनेनाभिषङ्गेण वयमप्यर्जुनं शुभे
शापेन योजयामे’ति तथाऽस्त्विति च साऽब्रवीत्
तदहं पितुरावेद्य भृशं प्रव्यथितेन्द्रिया
अभवं स च तच्छ्रुत्वा विषादमगमत् परम्
पिता तु मे वसून् गत्वा त्वदर्थं समयाचत
पुनः पुनः प्रसाद्यैतांस् त एनमिदमब्रुवन्
पुत्रोऽस्य तु महाराजो मणलूरेश्वरो युवा
स एनं रणमध्यस्थं शरैः पातयिता भुवि
एवं कृते स नागेन्द्र मुक्तशापो भविष्यति
गच्छे’ति वसुभिश्चोक्तो मम चेदं शशंस सः
तच्छ्रुत्वा त्वं मया तस्माच् छापादसि विमोक्षितः
न हि त्वां देवराजोऽपि समरेषु पराजयेत्
आत्मा पुत्रस्स्मृतस्तस्मात् तेनेहासि पराजितः
नात्र दोषो मम मतः कथं वा मन्यसे विभो
वैशम्पायनः-
अर्जुनः-
इत्येवमुक्तो विजयः प्रसन्नात्माऽब्रवीदिदम्
सर्वं मे सुप्रियं देवि यदेतत्कृतवत्यसि
वैशम्पायनः-
इत्युक्त्वा सोऽब्रवीत् पुत्रं मणलूरेश्वरं जयः
चित्राङ्गदायाश्शृण्वन्त्याः कौरव्यदुहितुस्तथा
अर्जुनः-
युधिष्ठिरस्याश्वमेधः परां चैत्रीं भविष्यति
तत्रागच्छेस्सहामात्यो मातृभ्यां सहितो नृप
वैशम्पायनः-
इत्येवमुक्तः पार्थेन स राजा बभ्रुवाहनः
उवाच पितरं धीमान् इदमस्राविलेक्षणः
बभ्रुवाहनः-
उपयास्यामि धर्मज्ञ भवतश्शासनादहम्
अश्वमेधमहायज्ञे द्विजातिपरिवेषकः
मम त्वनुग्रहार्थं हि प्रविशस्व पुरं स्वकम्
भार्याभ्यां सह शत्रुघ्न मा भूत् तेऽत्र विचारणा
उषित्वा च विशल्यस्त्वं सुखं वेश्मनि च प्रभो
पुनरश्वानुगमनं कर्ताऽसि जयतां वर
वैशम्पायनः-
इत्युक्तस्स तु पुत्रेण तदा वानरकेतनः
हसन् प्रोवाच कौन्तेयस् तदा चित्राङ्गदासुतम्
अर्जुनः-
विदितं ते महाबाहो यथा दीक्षां चराम्यहम्
न स तावत् प्रवेक्ष्यामि पुरं ते पृथुलोचन
यथाकामं प्रयात्वेष यज्ञियश्च तुरङ्गमः
स्वस्ति तेऽस्तु गमिष्यामि न स्थानं विद्यते मम
वैशम्पायनः-
स तत्र विधिवत् तेन पूजितः पाकशासनिः
भार्याभ्यामभ्यनुज्ञातः प्रायाद्भरतसत्तमः