वैशम्पायनः-
प्रायोपविष्टे नृपतौ मणलूरेश्वरे तदा
पितृशोकसमाविष्टे सह मात्रा परन्तप
उलूपी चिन्तयामास तदा सञ्जीवनं मणिम्
स चोपातिष्ठत तदा पन्नगानां परायणम्
तं गृहीत्वा तु कौरव्य पन्नगाधिपतेस्सुता
मनःप्रह्लादनीं वाचं सैनिकानामथाब्रवीत्
उत्तिष्ठ मा शुचः पुत्र नैव जिष्णुस्त्वया हतः
अजेयः पुरुषैरन्यैर् देवैरपि सवासवैः
मया तु मोहनी नाम मायैषा सम्प्रयोजिता
प्रियार्थं पुरुषव्याघ्र पितुस्तेऽद्य यशस्विनः
जिज्ञासुर्ह्येष वै पुत्र बलस्य तव कौरव
सङ्ग्रामे युद्ध्यमानस्य सम्प्राप्तः परवीरहा
तस्मादसि मया पुत्र युद्धार्यं परिचोदितः
मा पापमात्मनः पुत्र शङ्केथा ह्यण्वपि प्रभो
ऋषिरेष महातेजाः पुरुषश्शाश्वतोऽव्ययः
नैनं शक्तो हि सङ्ग्रामे जेतुं शक्रोऽपि पार्थिव
अयं तु मे मणिर्दिव्यस् समानीतो विशाम्पते
मृतान् मृतान् पन्नगेन्द्रान् सञ्जीवयति सर्वदा
एनमस्योरसि त्वं च स्थापपाद्य पितुः प्रभो
सञ्जीवितं पुनः पुत्र ततो द्रष्टासि पाण्डवम्
वैशम्पायनः-
इत्युक्तस्स्थापयामास तस्योरसि मणिं तदा
पार्थस्यामिततेजास्स पितुस्स्नेहादपापकृत्
तस्मिन् न्यस्ते मणौ वीरो जिष्णुरुज्जीवितः प्रभुः
सुप्तोत्थित इवोत्तस्थौ स्पष्टलोहितलोचनः
तमुत्थितं महात्मानं लब्धसञ्ज्ञं मनस्विनम्
समीक्ष्य पितरं स्वस्थं ववन्दे बभ्रुवाहनः
उत्थिते पुरुषव्याघ्रे पुनर्लक्ष्मीवति प्रिये
दिव्यास्सुमनसः पुण्या ववर्ष बलसूदनः
अनाहता दुन्दुभयो प्रणेदुर्मेघनिस्स्वनाः
साधु साध्विति चाकाशे बभूव सुमहान् स्वनः
उत्थाय च महाबाहुः पर्याश्वस्तो धनञ्जयः
बभ्रुवाहनमालिङ्ग्य समाजिघ्रत मूर्धनि
ददर्श चाविदूरेऽस्य मातरं शोककर्शिताम्
उलूप्या सह तिष्ठन्तीं ततोऽपृच्छद्धनञ्जयः
अर्जुनः-
किमिदं लक्ष्यते सर्वं शोकविस्मयहर्षवत्
रणाजिरममित्रघ्न यदि जानासि शंस मे
जननी च किमर्थं ते रणभूमिमुपागता
नागेन्द्रदुहिता चेयम् उलूपी किमिहागता
जानाम्यहमिदं युद्धं त्वया मद्वचनात् कृतम्
स्त्रीणामत्रागमे हेतुम् अहमिच्छामि वेदितुम्
तमुवाच ततः पृष्टो मणलूरपतिस्तदा
प्रसाद्य शिरसा विद्वान् उलूपी पृच्छ्यतामिति