वैशम्पायनः-
ततो विलप्योपरता भर्तुः पादौ प्रगृह्य सा
उपविष्टाऽभवद्देवी सोच्छ्वासं पुत्रमीक्षती
ततस्सञ्ज्ञां पुनर्लब्ध्वा स राजा बभ्रुवाहनः
मातरं तामथालोक्य रणभूमावथाब्रवीत्
बभ्रुवाजनः-
इतो दुःखतरं किं नु यन्मे माता सुखैधिता
भूमौ निपतितं वीरम् अनुशेते पतिव्रता
निहन्तारं रणेऽरीणां सर्वशस्त्रभृतां वरम्
मया विनिहतं सङ्ख्ये प्रेक्षते दुर्मरं प्रतिम्
अहोऽस्या हृदयं देव्या दृढं यन्न विदीर्यते
व्यूढोरस्कं महाबाहुं प्रेक्षन्त्याः पतितं पतिम्
दुर्मरं पुरुषेणेह मन्ये काले ह्यनागते
यत्र नाहं न मे माता विप्रयुक्तौ स्वजीवितात्
अहो धिक् कुरुवीरस्य किरीटं काञ्चनं भुवि
अपविद्धं हतस्येह मया पुत्रेण पश्यता
भो भो पश्यत मे वीरं पितरं ब्राह्मणा भुवि
शयानं वीरशयने मया पुत्रेण पातितम्
ब्राह्मणाः कुरुमुख्यस्य प्रयुक्ता हयसारिणः
कुर्वन्तु शान्तिकं त्वद्य रणे योऽयं मया हतः
आदिशन्तु च किं विप्राः प्रायश्चित्तमिहाद्य मे
सुनृशंसस्य पापस्य पितृहन्तू रणाजिरे
दुश्चरा द्वादश समा हत्वा पितरमद्य वै
ममेह सुनृशंसस्य संवीतस्यास्य कर्मणा
शिरःकपाले चास्यैव भुञ्जतः पितुरद्य मे
प्रायश्चित्तं हि नास्त्यन्यद्धत्वाऽद्य पितरं मम
पश्य नागोत्तमसुते भर्तारं निहतं मया
कृतं प्रियं मया तेऽद्य निहत्य समरेऽर्जुनम्
सोऽहमप्यद्य गमिष्यामि गतिं पितृनिषेविताम्
न शक्नोम्यात्मनाऽऽत्मानम् अहं धारयितुं शुभे
सा त्वं मयि मृते मातस् तथा गाण्डीवधन्वनि
भव प्रीतिमती देवि सत्येनात्मानमालभे
वैशम्पायनः-
इत्युक्त्वा स ततो राजा दुःखशोकसमाहतः
उपस्पृश्य महाराज दुःखाद्वचनमब्रवीत्
बभ्रुवाहनः-
शृण्वन्तु सर्वभूतानि स्थावराणि चराणि च
त्वं च मातर्यथा सत्यं ब्रवीमि भुजगोत्तमे
यदि नोत्तिष्ठति जयः पिता मे भरतर्षभः
अस्मिन्नेव रणोद्देशे शाययिष्ये कलेबरम्
न हि मे पितरं हत्वा निष्कृतिर्विद्यते क्वचित्
नरकं प्रतिपत्स्यामि ध्रुवं गुरुवधार्दितः
वीरं हि क्षत्रियं हत्वा गोसहस्रेण मुच्यते
पितरं तु निहत्यैवं दुष्करा निष्कृतिर्मम
एवं ह्येष महातेजाः पाण्डुपुत्रो धनञ्जयः
पिता च मम धर्मात्मा तस्य मे निष्कृतिः कुतः
इत्येवमुक्त्वा नृपते धनञ्जयसुतो नृपः
उपस्पृश्याभवत् तूष्णीं प्रायोपेतो महामतिः