वैशम्पायनः-
ततो बहुविधं भीरर् विलप्य कमलेक्षणा
मुमोह दुःखाद् दुर्धर्षा निपपात च भूतले
प्रतिलभ्य च सा सञ्ज्ञां देवी दिव्यवपुर्धरा
उलूपीं पन्नगसुतां दृष्ट्वेदं वाक्यमब्रवीत्
चित्राङ्गदा-
उलूपि पश्य भर्तारं शयानं निहतं रणे
त्वत्कृते मम पुत्रेण बाणेन समितिञ्जयम्
ननु त्वमार्या धर्मज्ञा ननु चासि पतिव्रता
यत् त्वत्कृतेऽयं पतितः पतिस्ते निहतो रणे
किं नु मन्देऽपकराद्धोऽयं यदि तेऽद्य धनञ्जयः
उलूपि याच्यमाना वै सञ्जीवयधनञ्जयम्
ननु त्वमार्या धर्मज्ञा त्रैलोक्यविदितं शुभे
यद् धातयित्वा भर्तारं पुत्रेण न हि शोचसि
नाहं शोचामि तनयं निहतं पन्नगात्मजे
पतिमेव तु शोचामि यस्यातिथ्यमिदं कृतम्
वैशम्पायनः-
इत्युक्त्वा सा तदा देवीम् उलूपीं पन्नगात्मजाम्
भर्तारमभिगम्येदम् इत्युवाच यशस्विनी
चित्राङ्गदा-
उत्तिष्ठ कुरुमुख्य त्वं प्रियकाम मम प्रिय
अयमश्वो महाबाहो मयो ते परिमोक्षितः
ननु नाम त्वया विर धर्मराजस्य याज्ञियः
अयमश्वोऽनुसर्तव्यस् संशेषे किं महीतले
त्वयि प्राणास्समायत्ताः कुरूणां कुरुवर्धन
स कस्मात् प्राणदोऽन्येषां प्राणान् सन्त्यक्तवानसि
उलूपि साधु सम्पश्य भर्तारं निहितं रणे
पुत्रं चैनं समुत्साद्य पातयित्वा न शोचसि
कामं स्वपितु बालोऽयं भूमौ प्रेतगतिं गतः
लोहिताक्षो गुडाकेशो विजयस्साधु जीवतु
नापराधोऽस्ति सुभगे नराणां बहुभार्यता
नारीणां न भवत्येतन्मा ते भूद् बुद्धिरीदृशी
सख्यं चैतत् कृतं धात्रा शश्वतं चाव्ययं च तत्
सख्यं समभिजानीहि सत्यं सङ्गतमस्तु ते
पुत्रेण पातयित्वेवं पतिं यदि न लज्जसे
जीवितं दर्शयस्वाद्य परित्यक्ष्यामि जीवितम्
साऽहं दुःखान्विता देवि पतिपुत्रविनाकृता
इहैव प्रायमाशिष्ये पश्यन्त्यास्ते न संशयः
वैशम्पायनः-
इत्युक्त्वा पन्नगसुतां सपत्नी चैत्रवाहनी
ततः प्रायमुपासीना तूष्णीमासीज्जनाधिप