वैशम्पायनः-
ततो गाण्डीवभृच्छूरो युद्धाय समुपस्थितः
विबभौ युधि दुर्धर्षो हिमवानचलो यथा
ततस्सैन्धवायोधास्ते पुनरेव व्यवस्थिताः
व्यमुञ्चन्तस्सुसंरब्धाश् शरवर्षाणि भारत
तान् प्रहस्य महावीर्यः पुनरेव व्यवस्थितान्
ततः प्रोवाच कौन्तेयो मुमूर्षूञ्श्लक्ष्णया गिरा
अर्जुनः-
युध्यध्वं परया शक्त्या यतध्वं च वधे मम
कुरुध्वं सर्वकार्याणि महद्वो भयमागतम्
एष योत्स्यामि वस्सर्वान् निवार्य शरवागुराम्
तिष्ठध्वं युद्धमनसो दर्पान् विनयितास्मि वः
वैशम्पायनः-
एतावदुक्त्वा कौरव्यो रोषाद्गाण्डीवभृत् तदा
न तताप वचस्स्मृत्वा भ्रातुर्ज्येष्ठस्य भारत
न हन्तव्या रणे तात क्षत्रिया विजिगीषवः
जेतव्याश्चेति यत् प्रोक्तं धर्मराज्ञा महात्मना
चिन्तयामास च तदा फल्गुनः पुरुषर्षभः
इत्युक्तोऽहं नरेन्द्रेण न हन्तव्या नृपा इति
कथं तन्न मृषेह स्याद् धर्मराजवचश्शुभम्
न हन्येव्याश्च राजानो राज्ञश्चाज्ञा कृता भवेत्
अर्जुनः-
इति सञ्चिन्त्य स तदा भ्रातुः प्रियहिते रतः
प्रोवाच वाक्यं धर्मज्ञस् सैन्धवान् युद्धदुर्मदान्
बालांस्त्रियो वा युद्धेषु न हिंसे समुपस्थितान्
यश्च वक्ष्यति सङ्ग्रामे तवास्मीति पराजितः
एतच्छ्रुत्वा वचो मह्यं कुरुध्वं हितमात्मनः
अतोऽन्यथा कृच्छ्रगता भविष्यथ मयाऽर्दिताः
वैशम्पायनः-
एवमुक्त्वा तु तान् वीरान् युयुधे नरपुङ्गवः
अत्वरावानसंरब्धस् संरब्धर्विजिगीषुभिः
ततश्शतसहस्राणि शराणां नतपर्वणाम्
मुमुचुस्सैन्धवा राजंस् तदा गाण्डीवधन्वनि
स तानापततः क्रूरान् आशीविषविषोपमान्
चिच्छेद निशितैर्बाणैर् अन्तरिक्षे धनञ्जयः
छित्त्वा तु तानाशु जवान् कङ्कपत्राञ्शिलाशितान्
एकैकमेष दशभिर् बिभेद समरे शरैः
ततः प्रास्रांश्च शक्तीश्च पुनरेव धनञ्जये
जयद्रथं हतं स्मृत्वा चिक्षिपुस्सैन्धवा नृप
तेषां किरीटी सङ्कल्पं मोघं चक्रे महामनाः
सर्वांस्तानन्तरा च्छित्त्वा मुदा चुक्रोश पाण्डवः
तथैवापततां तेषां योधानां जयगृद्धिनाम्
शिरांसि पातयामास भल्लैस्सन्नतपर्वभिः
तेषां विद्रवतां चैवं पुनरेवा च धावताम्
निवृत्तानां च शब्दोऽभूत् पूर्णस्येव महोदधेः
ते वध्यमाना हि तदा पार्थेनामिततेजसा
यथोत्साहं यथोशक्ति योधयामासुरर्जुनम्
ततस्ते फल्गुनेनाजौ शरैस्सन्नतपर्वभिः
कृता विसञ्ज्ञा भूयिष्ठाः क्लान्तवाहनसैनिकाः
दुश्शला बालमादाय नप्तारं प्रययौ तदा
महारथसुतं वीरं रथेनाथागतं तदा
शान्त्यर्थं सर्वयोधानाम् अभ्यगच्छद्धि पाण्डवम्
सा धनञ्जयमासाद्य मुमोचार्तस्वरं तदा
धनञ्जयोऽपि तां दृष्ट्वा धनुर्विससृजे तदा
समुत्सृष्टधनुः पार्थो विधिवद्भगिनीं तदा
प्राह किं करवाणीति सा च तं वाक्यमब्वीत्
दुश्शला-
एष ते भरतश्रेष्ठ स्वस्रीयस्यात्मजश्शिशुः
अभिवादयते वीर तं पश्य भरतर्षभ
वैशम्पायनः-
इत्युक्तस्तस्य पितरं स पप्रच्छार्जुनस्तदा
क्वासाविति ततो राजन् दुश्शला वाक्यमब्रवीत्
दुश्शला-
पितृशोकाभिसन्तप्तो विषादार्तोऽस्य वै पिता
पञ्चत्वमगमद्वीरो यथा तन्मे निशामय
स पूर्वं पितरं श्रुत्वा हतं युद्धे त्वयाऽनघ
त्वामागतं च संश्रुत्य युद्धाय हयसारिणम्
पितुश्च मृत्युदुःखार्तो जहौ प्राणान् धनञ्जय
प्राप्तो बीभत्सुरित्येव नाम श्रुत्वैव तेऽनघ
विषादार्तः पपातोर्व्यां ममार च ममात्मजः
तं दृष्ट्वाऽहं निपतितं ततस्तस्यात्मजं विभो
गृहीत्वा समनुप्राप्ता त्वामद्य शरणैषिणी
वैशम्पायनः-
इत्युक्त्वाऽऽर्तस्वरं सा तु मुमोच धृतराष्ट्रजा
दीना दीनं स्थितं पार्थम् अब्रवीच्चाप्यधोमुखम्
दुश्शला-
स्वसारं समवेक्षस्व स्वस्रीयात्मजमेव च
कर्तुमर्हसि धर्मज्ञ दयां मयि कुरुद्वह
विस्मृत्य कुरुराजानं तं च मन्दं जयद्रथम्
अभिमन्योर्यथा जातः परिक्षित् परवीरहा
तथाऽयं सुरथाज्जातो मम पौत्रो महाभुज
तमादाय नरव्याघ्र प्राप्ताऽस्म्यद्य तवान्तिकम्
शमार्थं सर्वयोधानां शृणु चेदं वचो मम
आगतोऽयं महाबाहो तस्य मन्दस्य पुत्रकः
प्रसादमस्य बालस्य तस्मात् त्वं कर्तुमर्हसि
एष प्रसाद्य शिरसा मया सार्धमरिन्दम
याचते त्वां महाबाहो शमं गच्छ धनञ्जय
बालस्य हतबन्धोश्च पार्थ किञ्चिदजानतः
प्रसादं कुरु धर्मज्ञ मा त्वं मन्युवशं गमः
तमनार्यं नृशंसं च विस्मृत्यास्य पितामहम्
आगस्कारिणमत्यर्थं प्रसादं कर्तुमर्हसि
वैशम्पायनः-
एवं ब्रुवत्यां करुणं दुश्शलायां धनञ्जयः
संस्मृत्य देवीं गान्धारीं धृतराष्ट्रं जनेश्वरम्
प्रोवाच पुत्रशोकार्तः क्षत्रधर्मं विगर्हयत्
अर्जुनः-
धिक् तं दुर्योधनं क्षुद्रं राज्यलुब्धं च मानिनम्
यत्कृते बान्धवास्सर्वे मया नीता यमक्षयम्
वैशम्पायनः-
इत्युक्त्वा बहु सान्त्वादि प्रसादमकरोज्जयः
परिष्वज्य च तां प्रीतो विससर्ज गृहान् प्रति
दुश्शला चापि तान् सर्वान् निवार्य महतो रणात्
सम्पूज्य पार्थं प्रययौ गृहान् प्रति शुभानना
ततस्सैन्धवकान् योधान् निर्जित्य स नरर्षभः
पुनरेवाश्वमेधार्थं हयं कामविचारिणम्
ससार याज्ञियं वीरो विधिवत् स विशाम्पते
तारामृगामिवाकाशो देवदेवः पिनाकधृक्
स पार्थिवान् वशे कृत्वा तांस्तान् देशान् यथासुखम्
विचचार यथाकामं कर्म पार्थस्य वर्धयन्