वैशम्पायनः-
जित्वा प्रसाद्य राजानं भगदत्तसुतं तदा
विसृज्य याते तुरगे सैन्धवान् प्रति भारत
सैन्धवैरभवद्युद्धं ततस्तस्य किरीटिनः
हतशेषैर्महायुद्धे हतानां च सुतैरपि
तेऽवतीर्णमुपश्रुत्य विषयं श्वेतवाहनम्
प्रत्युद्ययुरमृष्यन्तो राजानः पाण्डवर्षभम्
अश्ववन्तं परामृश्य विषयान्ते विगाहितम्
न भयं चक्रिरे पार्थाद् भीमसेनादनन्तरात्
तेऽविदूराद्धनुष्पाणिं यज्ञियस्य हयस्य च
बीभत्सुं प्रत्यपश्यन्त पदातिं प्रत्युपस्थितम्
ततस्ते तं महावीर्यं राजानः पर्यवारयन्
जिगीषन्तो नरव्याघ्राः पूर्वं विनिकृता युधि
ते नामान्यथ गोत्राणि कर्माणि विविधानि च
कीर्तयन्तस्तदा पार्थं शरवर्षैरवाकिरन्
ते किरन्तश्शरांस्तीक्ष्णान् वारणेन्द्रनिवारणान्
रणे जयमभीप्सन्तः कौन्तेयं पर्यवारयन्
ते समीक्ष्य तु तं वीरम् उग्रकर्माणमाहवे
सर्वे युयुधिरे वीरा रथस्थास्तं पदातिनम्
ते तमाजघ्निरे वीरा निवातकवचान्तकम्
संशप्तकनिहन्तारं हन्तारं सैन्धवस्य च
ततो रथसहस्रेण गजानामयुतेन च
कोष्ठकीकृत्य कौन्तेयं सम्प्रस्थितमवारयन्
संस्मरन्तो वधं वीरास् सिन्धुराजस्य धीमतः
जयद्रथस्य कौरव्य समरे सव्यसाचिना
ततः पर्जन्यवत् सर्वे शरवृष्टीरवासृजन्
तैः कीर्णश्शुशुभे पार्थो रविर्मेघान्तरे यथा
स शरैस्समवच्छन्नो ददृशे पाण्डवर्षभः
पञ्चरान्तरसञ्चारी शकुन्त इव भारत
ततो हाहाकृतं सर्वं कौन्तेये शरपीडिते
त्रैलोक्यमभवत् सर्वं रविश्चासीद्रजोरुणः
ततो ववौ महाराज मारुतो रोमहर्षणः
राहुरग्रसदादित्यं युगपत् सोममेव च
उल्काश्च जघ्निरे सूर्यं कीर्यमाणास्समन्ततः
वेपथुश्चाभवद्राजन् कैलासस्य महागिरेः
मुमुचुश्चास्रमत्युष्णं दुःखशोकसमन्विताः
सप्तर्षयो जातभयास् तथा देवर्षयोऽपि च
शशचाशु विनिर्भिद्य मण्डलं शशिनोऽगमत्
विपरीतस्तथाऽऽकाशस् तस्मिन्नुत्पातलक्षणे
रासभारुणसङ्काशा धनुष्मन्तस्सविद्युतः
आवृत्य गगनं मेघा मुमुचुर्मांसशोणितम्
एवमासीत् तदा वीरे शरवर्षाभिसंवृते
लोकेऽस्मिन् भरतश्रेष्ठ तदद्भुतमिवाभवत्
तस्य तेनाभिकीर्णेन शरजालेन सर्वतः
मोहात् पपात गाण्डीवम् आवापश्च करादपि
तस्मिन् मोहमनुप्राप्ते शरजालं महत्तरम्
सैन्धवा मुमुचुस्तूर्णं गतसत्वे महारथे
ततो मोहसमापन्नं ज्ञात्वा पार्थं दिवौकसः
सर्वे वित्रस्तमनसस् सर्वे शान्तिपरास्स्थिताः
ततो देवर्षयस्सर्वे तथा सप्तर्षयोऽपि च
ब्रह्मर्षयश्च विजयं जेपुः पार्थस्य धीमतः
ततः प्रदीपिते देवैः पार्थतेजसि पार्थिव
तस्थावचलवद्धीमान् सङ्ग्रामे परमास्त्रवित्
विचकर्ष धनुर्दिव्यं ततः कौरवनन्दनः
वज्रस्येवेह शब्दोऽभून्महांस्तस्य पुनः पुनः
ततस्स शरवर्षाणि प्रत्यमित्रान् प्रति प्रभुः
ववर्ष च तथा पार्थो वर्षाणीव पुरन्दरः
ततस्ते सैन्धवा योधास् सर्व एव सराजकाः
नादृश्यन्त शरैः कीर्णाश् शलभैरिव पादपाः
तस्य शब्देन वित्रेसुर् भयार्ताश्च विदुद्रुवुः
मुमुचुश्चाश्रु शोकार्ताः निकृत्ताश्चापि सैन्धवाः
तांस्तु सर्वान् नरश्रेष्ठस् सर्वतो विचरद्बली
अलातचक्रवद्राजञ् शरजालैस्समार्पयन्
तमिन्द्रजालप्रतिमं बाणजालममित्रहा
व्यसृज्यद् दिक्षु सर्वासु महेन्द्र इव सर्वृतः
मेघजालनिभं सैन्यं विदार्य स रविप्रभः
विबभौ कौरवश्रेष्ठस् शरदीव दिवाकरः