वैशम्पायनः-
प्राग्ज्योतिषमथाभ्येत्य व्यचरत् स हयोत्तमः
भगदत्तात्मजस्तत्र निर्ययौ रणकर्कशः
सहयं पाण्डुपुत्रं तु विषयान्तमुपागतम्
युयुधे भरतश्रेष्ठ यज्ञदत्तो महीपतिः
सोऽभिनिर्याय नगराद् भगदत्तसुतो नृपः
अश्वमायान्तमुन्मथ्य नगराभिमुखो ययौ
तमालक्ष्य महाबाहुः कुरूणामृषभस्तदा
गाण्डीवं विक्षिपंस्तूर्णं सहसा समुपाद्रवत्
ततो गाण्डीवनिर्मुक्तैर् इषुभिर्मोहितो नृपः
हयमुत्सृज्य तं वीरस् ततः पार्थमुपाद्रवत्
पुनः प्रविश्य नगरं दंशितस्तु नृपोत्तमः
आरुह्य नागप्रवरं निर्ययौ युद्धकाङ्क्षया
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि
दोधूयमानेन तदा चामरेण महारथः
ततः पार्थं समासाद्य पाण्डवानां महारथम्
आहूतवान् हि कौरव्यं बाल्यान्मोहाच्च संयुगे
स वारणं नगप्रख्यं प्रभिन्नकरटामुखम्
प्रेषयामास सङ्क्रुद्धस् ततश्श्वेतहयं प्रति
विक्षरन्तं यथा मेघं परवारणवारणम्
शस्त्रवत् कल्पितं सङ्ख्ये विशालं युद्धदुर्मदम्
प्रचोद्यमानस्स गजस् तेन राज्ञा महाबलः
तदाऽङ्कुशेन विबभावुत्पतिष्यन्निवाम्बरम्
तमापतन्तं सम्प्रेक्ष्य क्रुद्धो राजन् धनञ्जयः
भूमिष्ठो वारणगतं योधयामास भारत
वज्रदत्तस्तु सङ्क्रुद्धो मुमोचाशु धनञ्जये
तोमरानग्निसङ्काशाञ् छलभानिव वेगितान्
अर्जुनस्तानसम्प्राप्तान् गाण्डीवप्रभवैश्शरैः
द्विधा त्रिधा च चिच्छेद ख एव खगमैस्तदा
स तान् दृष्ट्वा तदा छिन्नांस् तोमरान् भगदत्तजः
इषूनसक्तांस्त्वरितः प्राहिणोत् पाण्डवं प्रति
ततोऽर्जुनस्तूर्णतरं रुक्मपुङ्खानजिह्मगान्
प्रेषयामास सङ्क्रुद्धो भगदत्तात्मजं प्रति
स तैर्विद्धो महातेजा वज्रदत्तो महाहवे
भृशं हतः पपातोर्व्यां न त्वेनमजहात् स्मृतिः
ततस्स पुनरारुह्य वारणप्रवरं रणे
अव्यग्रं प्रेषयामास जयार्थी विजयं प्रति
तस्मै बाणांस्ततो जिष्णुर् निर्मुक्ताशीविषोपमान्
प्रेषयामास सङ्क्रुद्धो ज्वलितानिव पावकान्
स तैर्विद्धो महाभागो विस्रवन् रुधिरं बभौ
हिमवानिव शैलेन्द्रो बहुप्रस्रवणस्तदा