वैशम्पायनः-
त्रिगर्तैरभवद्युद्धं कृतवैरैः किरीटिनः
महारथसमाज्ञातैर् हतानां पुत्रनप्तृभिः
ते समाज्ञाय सम्प्राप्तं यज्ञियं तुरगोत्तमम्
विषयान्ते ततो वीरा दंशिताः पर्यवारयन्
रथिनो बद्धतूणीरास् सदश्वैस्समलङ्कृतैः
परिवार्य हयं राजन् ग्रहीतुमुप्रचक्रमुः
ततः किरीटी सञ्चिन्त्य तेषां राज्ञां चिकीर्षितम्
वारयामास तान् वीरान् सान्त्वपूर्वमरिन्दमः
तमनादृत्य ते सर्वे शरैरभ्यहनंस्तदा
तमोरजोभ्यां सञ्छन्नांस् तान् किरीटी न्यवारयत्
अब्रवीच्च ततो जिष्णुः प्रहसन्निव भारत
अर्जुनः-
निवर्तध्वमधर्मज्ञाः श्रेयो जीवितमेव च
वैशम्पायनः-
स्वयं वीरः प्रयास्यन् वै धर्मराजेन वारितः
‘अबान्धवा न ते पार्थ हन्तव्याः क्षत्रिया’ इति
स तदा तद्वचश्श्रुत्वा धर्मराजस्य धीमतः
तान् निवर्तध्वमित्याह न न्यवर्तन्त चापि ते
ततस्त्रिगर्तराजानं सूर्यवर्माणमाहवे
वितत्य शरजालेनि प्रजहास धनञ्जयः
ततस्ते रथघोषेण सुरनेमिस्वनेन च
पूरयन्तो दिशस्सर्वा धनञ्जयमुपाद्रवन्
सूर्यवर्मा ततः पार्थे शराणां नतपर्वणाम्
शतान्यमुञ्चद्राजेन्द्र लघ्वं त्वभिदर्शयन्
तथा चान्ये महेष्वासा ये तस्यैवानुयायिनः
मुमुचुश्शरवर्षाणि धनञ्जयमुपाद्रवन्
ततस्त्रिगतैर्निर्मुक्तान् बहुभिस्सुबहूञ्छरान्
चिच्छेद पाण्डवो राजंस् ते भूमौ न्यपतंस्तदा
केतुवर्मा तु तेजस्वी तस्यैवावरजो युवा
युयुधे भ्रातुरर्थाय पाण्डवेन महात्मना
तमापतन्तं सम्प्रेक्ष्य केतुवर्माणमाहवे
अभ्यघ्नन्निशितैर्बाणैर् बीभत्सुः परवीरहा
केतुवर्मण्यभिहते धृतवर्मा महारथः
रथेनाशु समुवृत्य शरैर्जिष्णुमवाकिरत्
तस्य तां शीघ्रता ज्ञात्वा तुतोषातीव वीर्यवान्
गुडाकेशो महातेजा बालस्य धृतवर्मणः
न सन्दधानं ददृशे नाददानं च तं तदा
किरन्तमेवं स शरान् ददृशे पाकशासनिः
स तु तं पूजयामास धृतवर्माणमाहवे
मनसा तु मुहूर्तं वै रणे समभिहर्षयन्
न विव्याध रणे क्रुद्धं कुन्तीपुत्रो हसन्निव
सौभद्रस्येव तत् कर्म दृष्ट्वा बालस्य विस्मितः
तं पन्नगमिव क्रुद्धं कुरुवीरस्स्मयन्निव
प्रीतिपूर्वं महाराज न च प्राणैर्व्ययोजयत्
स तथा रक्ष्यमाणो वै पार्थेनामिततेजसा
धृतवर्मा शरं दीप्तं मुमोच विजये तदा
स तेन विजयस्तूर्णम् आसीन् विद्धः करे भृशम्
मुमोच गाण्डिवं मोहात् तत् पपाताथ भूतले
धनुषः पततस्तस्य सव्यसाचिकराद्विभो
इन्द्रस्येवायुधस्यासीद् रूपं भरतसत्तम
तस्मिन् निपतिते दिव्ये महाधनुषि पार्थिवः
जहास सस्वनं राजन् धृतवर्मा महाहवे
ततो रोषान्वितो जिष्णुः प्रमृज्य रुधिरं करात्
धनुरादत्त तद्दिव्यं शरवर्षैर्ववर्ष च
ततो हलहलाशब्दो दिवस्पृगभवत् तदा
नानाविधानां भूतानां तत् कर्मतीव शंसताम्
ततस्सम्प्रेक्ष्य सङ्क्रुद्धं कालान्तकयमोपमम्
जिष्णुं त्रैगर्तका योधास् त्वरिताः पर्यवारयन्
अभिसृत्य परीप्सार्थं ततस्ते धृतवर्मणः
परिवव्रुर्गुडाकेशं तत्राक्रुद्ध्यद्धनञ्जयः
ततो योधाञ्जघानाशु तेषां स दश चाष्ट च
महेन्द्रवज्रप्रतिमैर् आयसैर्निशितैश्शरैः
तांस्तु भग्नान् स सम्प्रेक्ष्य त्वरमाणो धनञ्जयः
शरैराशीविषाकारैर् जघान स्वनवद्धसन्
ते भग्नमनसस्सर्वे त्रैगर्तास्तु महारथाः
दिशो विदुद्रुवू राजन् धनञ्जयशरार्दिताः
हतावशिष्टा हि परा पार्थं दृष्टपराक्रमाः
तमूचुः पुरुषव्याघ्रं संशप्तकनिषूदनम्
त्रैगर्ताः-
तव स्म किङ्करास्सर्वे सर्वे च वशगास्तव
आज्ञापयस्व नः पार्थ प्रह्वान् प्रेष्यानव स्थितान्
करिष्यामः प्रियं सर्वे तव कौरवनन्दन
वैशम्पायनः-
अर्जुनः-
एतदाज्ञाय वचनं सर्वांस्तानब्रवीत् तदा
जीवितं रक्षत नृपाश् शासनं गृह्यतां मम