वैशम्पायनः-
दीक्षाकाले तु सम्प्राप्ते ततस्ते सुमहर्त्विजः
विधिवद्दीक्षयामासुर् अश्वमेधाय पार्थिवम्
कृत्वा स पशुमेधांस्तु दीक्षितः पाण्डुनन्दनः
धर्मराजो महातेजास् सहर्त्विग्भिर्व्यरोचत
हयश्च हयमेधार्थं स्वयं स ब्रह्मवादिना
उत्सृष्टश्शास्त्रविधिना व्यासेनामिततेजसा
स राजा धर्मतो राजन् दीक्षितो विबभौ तदा
हेममाली रुक्मकण्ठः प्रदीप्त इव पावकः
कृष्णाजिनी दण्डपाणिः क्षौमवासास्स धर्मजः
विबभौ द्युतिमान् भूयः प्रजापतिरिवाध्वरे
तथैवास्यर्त्विजस्सर्वे तुल्यवेषा विशाम्पते
बभूवुरर्जुनश्चैव प्रदीप्त इव पावकः
श्वेताश्वः कपिकेतुश्च ससाराश्वं धनञ्जयः
विधिवत् पृथिवीपाल धर्मराजस्य शासनात्
विक्षिपन् गाण्डिवं राजन् बद्धगोधाङ्गुलित्रवान्
तमश्वं पृथिवीपाल मुदा युक्तस्ससार ह
आकुमारं तदा राजन्नागमत् तत् पुरं विभो
द्रष्टुकामं कुरुश्रेष्ठं प्रयास्यन्तं धनञ्जयम्
तेषामन्योन्यसम्मर्दाद् ऊष्मेव समजायत
दिदृक्षूणां हयं तं च तं चैव हयसारिणम्
ततश्शब्दो महाराज दिशाशाः प्रतिपूरयन्
बभूव प्रेक्षतां नॄणां कुन्तीपुत्रं धनञ्जयम्
एष गच्छति कौन्तेयस् तुरगश्चैव दीप्तिमान्
समन्वेति महाबाहुस् संस्पृशन् धनुरुत्तमम्
एवं शुश्राव वदतां गिरो जिष्णुरुदारधीः
स्वस्ति तेऽस्तु व्रजारिष्टं पुनश्चैहीति भारत
अथापरे मनुष्येन्द्र पुरुषा वाक्यमब्रुवन्
नैनं पश्याम सम्मर्दे धनुरेतत् प्रदृश्यते
एतद्धि मेघनिर्ह्रादं विश्रुतं गाण्डिवं धनुः
स्वस्ति गच्छत्वरिष्टं वै पन्थानमकुतोभयम्
निवृत्तमेनं द्रक्ष्यामः पुनरेवं च तेऽब्रुवन्
एवमादि मनुष्याणाम् अर्जुनो भरतर्षभ
शुश्राव मधुरा वाचः पुनःपुनरुदीरिता
याज्ञवल्क्यस्सशिष्यश्च कुशलो यज्ञकर्मणि
प्रायात् पार्थेन सहितश् शान्त्यर्थं वेदपारगः
ब्राह्मणाश्च महीपाल बहवो वेदपारगाः
अनुजग्मुर्महात्मानं क्षत्रियाश्च विशोऽपि च
पाण्डवैः पृथिवीमश्वो निर्जितां शस्त्रतेजसा
चचार स महाराज यथादेशं च सत्तम
यत्र युद्धानि वृत्तानि यान्यासन् पाण्डवस्य ह
तानि वक्ष्यामि ते वीर विचित्राणि महान्ति च
स हयः पृथिवीं राजन् प्रदक्षिणमरिन्दम
ससारोत्तरतः पूर्वं तन्निबोध महीपते
अवमृद्गन् स राष्ट्राणि पार्थिवानां हयोत्तमः
शनैस्तथा परिययौ श्वेताश्वश्च महारथः
तत्र सङ्गणना नास्ति राज्ञामयुतशस्तदा
अयुध्यन्त महाराज क्षत्रिया हतबान्धवाः
किराता विकृता राजन् बहवो हि धनुर्धराः
म्लेच्छाश्चान्ये विनिकृताः पुरा राजन् महारणे
आर्याश्च पृथिवीपालाः प्रहृष्टनरवाहनाः
समीयुः पाण्डुपुत्रेण बहवो युद्धदुर्मदाः
एवं युद्धानि वृत्तानि तत्र तत्र विशाम्पते
अर्जुनस्य महीपालैर् नानादेशनिवासिभिः
यानि तूभयतो राजन् प्रवृत्तानि महान्ति च
तानि युद्धानि वक्ष्यामि कौन्तेयस्य महात्मनः