वैशम्पायनः-
एवमुक्तस्तु कृष्णेन धर्मराजो युधिष्ठिरः
व्यासमामन्त्र्य मेधावी ततो वचनमब्रवीत्
युधिष्ठिरः-
यदा कालं भवान् वेत्ति हयमेधस्य तत्त्वतः
दीक्षयस्व तदाऽऽत्मानं त्वदायत्तो हि मे क्रतुः
व्यासः-
अयं पैलोऽथ कौन्तेय याज्ञवल्क्यस्तथैव च
विधानं यद्यथाकालं तत् कर्तारो न संशयः
चैत्र्यां हि पौर्णमास्यां वै तव दीक्षा भविष्यति
सम्भारास्सम्भ्रियन्तां ते यज्ञार्थं पुरुषर्षभ
अश्वविद्याविदश्चैव सूता विप्राश्च तद्विदः
मेध्यमश्वं परीक्षन्तां तव यज्ञार्थसिद्धये
तमुत्सृज यथाशास्त्रं पृथिवीं सागराम्बराम्
स पर्येतु यशो दीप्तं तव पार्थिव वर्धयन्
वैशम्पायनः-
इत्युक्तस्स तथेत्युक्त्वा पाण्डवः पृथिवीपतिः
चकार सर्वं राजेन्द्रो यथोक्तं ब्रह्मवादिना
सम्भाराश्चैव राजेन्द्र सर्वे सङ्कल्पिता भवन्
स सम्भारान् समाहृत्य नृपो धर्मात्मजस्तदा
न्यवेदयदमेयात्मा कृष्णद्वैपायनाय वै
व्यासः-
ततोऽब्रवीन्महातेजा व्यासो धर्मात्मजं नृपम्
यथाकालं यथायोगं सज्जास्स्म तव दीक्षणे
स्त्रु क् च कूर्चं च सौवर्णो यच्चान्यदपि कौरव
यत्तु योग्यं भवेत् किञ्चित् तद्रौक्मं क्रियतामिह
अश्वश्चोत्सृज्यतामद्य पृथ्व्यामथ यथाक्रमम्
सुगुप्तश्च चरत्वेष यथाशास्त्रं युधिष्ठिरः
युधिष्ठिरः-
अयमश्वो यथा ब्रह्मन्नुत्सृष्टः पृथिवीमिमाम्
चरिष्यति यथाकामं तत्र सम्यग्विवधीयताम्
पृथिवीं पर्यटन्तं हि तुरगं कामचारिणम्
कः पालयेदिति मुने तद्भवान् वक्तुमर्हति
वैशम्पायनः-
इत्युक्तस्स तु राजेन्द्र कृष्णद्वैपायनोऽब्रवीत्
व्याडः-
भीमसेनादवरजश् श्रेष्ठस्सर्वधनुष्मताम्
जिष्णुस्सहिष्णुर्धृष्णुस् स एनं पालयिष्यति
शक्तस्स हि महीं जेतुं निवातकवचान्तकः
तस्मिन्नस्त्राणि दिव्यानि वर्तन्ते खलु सर्वदा
दिव्यं धनश्चेषुधी च स एनमनुयास्यति
स हि धर्मार्थकुशलस् सर्वविद्याविशारदः
यथाशास्त्रं नृपश्रेष्ठ चारयिष्यति ते हयम्
राजपुत्रो महाबाहुश् श्यामो राजीवलोचनः
अभिमन्योः पिता वीरस् स एनमनुयास्यति
भीमसेनोऽपि तेजस्वी कौन्तेयोऽमितविक्रमः
समर्थो रक्षितुं राष्ट्रं नकुलश्च विशाम्पते
सहदेवस्तु कौरव्य समायन्यत् करिष्यति
कुटुम्बतन्त्रं विधिवत् सर्वमेवन्महायशाः
वैशम्पायनः-
एतत् सर्वं यथान्यायम् उक्तं कुरुकुलोद्वहः
चकार फल्गुनं चापि सन्दिदेश हयं प्रति
युधिष्ठिरः-
एह्यर्जुन त्वया वीर हयोऽयं परिपाल्यताम्
त्वमर्हो रक्षितुं ह्येनं नान्यः कश्चन मानवः
ये चापि त्वां महाबाहो प्रत्युदीयुर्नराधिपाः
तैर्विग्रहो यथा न स्यात् तथा कार्यं त्वयाऽनघ
आख्यातव्यश्च भवता यज्ञोऽयं मम सर्वशः
पार्थिवेभ्यो महाबाहो समये गम्यतामिति
वैशम्पायनः-
एवमुक्त्वा स धर्मात्मा भ्रातरं सव्यसाचिनम्
भीमं च नकुलं चैव पुरगुप्तौ समादधत्
कुटुम्बतन्त्रे च तदा सहदेवं युधां पतिम्
अनुमान्य महीपालं धृतराष्ट्रं युधिष्ठिरः