वैशम्पायनः-
तान् समीपगताञ् श्रुत्वा पाण्डवाञ् छत्रुकर्शनः
वासुदेवस्सहामात्यः प्रत्युद्यातो दिदृक्षया
ते समेत्य यथान्यायं पाण्डवा वृष्णिभिस्सह
विविशुस्सहिता राजन् पुरं वारणसाह्वयम्
महतस्तस्य सैन्यस्य रथनेमिस्वनेन च
द्यावापृथिव्यौ खं चैव शब्देनासीत् समावृतम्
ते कोशानग्रतः कृत्वा विविशुस्स्वपुरं तदा
पाण्डवाः प्रीतमनसस् सामात्यास्ससुहृद्गणाः
ते समेत्य यथान्यायं धृतराष्ट्रं जनेश्वरम्
कीर्तयन्तस्स्वनामानि तस्य पादौ ववन्दिरे
धृतराष्ट्रस्यानुमते गान्धारीं सुबलात्मजाम्
कुन्तीं च राजशार्दूल तदा भरतसत्तमाः
विदुरं पूजयित्वा च वैश्यापुत्रं समेत्य च
पूज्यमानास्तु ते वीरा व्यराजन्त विशाम्पते
ततस्तत् परमाश्चर्यं विचित्रं महदद्भुतम्
शुश्रुवुस्ते महावीराः पितुस्ते जन्म भारत
तदुपश्रुत्य ते कर्म वासुदेवस्य धीमतः
पूजार्हं पूजयामासुः कृष्णं देवकिनन्दनम्
ततः कतिपयाहस्सु व्यासस्सत्यवतीसुतः
आजगाम महातेजा नगरं नागसाह्वयम्
तस्य सर्वे यथान्यायं पूजां चक्रुः कुरूद्वहाः
सह वृष्ण्यन्धकव्याघ्रैर् उपासाञ्चक्रिरे तदा
तत्र नानाविधाकाराः कथास्समनुकीर्त्य वै
युधिष्ठिरो धर्मसुतो व्यासं वचनमब्रवीत्
युधिष्ठिरः-
भवत्प्रसादाद्भगवन् यदिदं रत्नमाहृतम्
उपयोक्तुं तदिच्छामि वाजिमेधे महाक्रतौ
तमनुज्ञातुमिच्छामि भवता मुनिसत्तम
त्वदधीना वयं सर्वे कृष्णस्य च महात्मनः
व्यासः-
अनुजानामि राजंस्त्वां क्रियतां यदनन्तरम्
यजस्व वाजिमेधेन विधिवद्दक्षिणावता
अश्वमेधो हि राजेन्द्र पावनस्सर्वपाप्मनाम्
तेनेष्ट्वा त्वं विपाप्मा वै भविता नात्र संशयः
वैशम्पायनः-
इत्युक्तस्स तु धर्मात्मा कुरुराजो युधिष्ठिरः
अश्वमेधस्य कौरव्य चकाराहरणे मतिम्
समनुज्ञाप्य तु स तं कृष्णद्वैपायनं नृपः
वासुदेवमथामन्त्र्य वाग्मी वचनमब्रवीत्
युधिष्ठिरः-
देवकी सुप्रजा देवी त्वया पुरुषसत्तम
यद्ब्रूयास्त्वं महाबाहो तत् कुर्यामहमच्युत
त्वं गतिस्सर्वभूतानाम् इति मे निश्चिता मतिः
त्वत्प्रभावार्जितान् भोगान् अश्नीमो यदुनन्दन
पराक्रमेण बुद्ध्या च तवेयं निर्जिता मही
दीक्षयस्व त्वमात्मानं त्वं हि नः परमो गुरुः
त्वयीष्टवति धर्मज्ञ विपाप्मा स्यामहं विभो
त्वं हि यज्ञोऽक्षरश्शब्दो धर्मज्ञस्त्वं प्रजापतिः
श्रीभगवान्-
त्वमेवैतन्महाबाहो वक्तुमर्हस्यरिन्दम
त्वं गतिस्सर्वभूतानाम् इति मे निश्चिता मतिः
त्वं चाद्य कुरुवीराणां धर्मेणाति विराजसे
गुरुभूतस्तु मे राजंस् त्वं नो राजा मतो गुरुः
यजस्व विजिमेधेन प्राप्त एष क्रतुस्त्वया
युनक्तु नो भवान् कार्ये यत्र वाञ्छसि भारत
सत्यं ते प्रतिजानामि सर्वं कर्तास्मि तेऽनघ
भीमसेनार्जुनौ चैव तथा माद्रवतीसुतौ
इष्टवन्तो भविष्यन्ति त्वयीष्टवति पार्थिव