वैशम्पायनः-
एवमुक्तस्तु राजेन्द्र केशिहा दुःखमूर्च्छितः
तथेति व्याजहारोच्चैर् ह्लादयन्निव तं जनम्
वाक्येनैतेन सहसा तं जनं पुरुषर्षभः
ह्लादयामास स विभुर् घर्मार्थं सलिलैरिव
ततस्स प्राविशत् तूर्णं जन्मवेश्म पितुस्तव
अर्चितं पुरुषव्याघ्र सितैर्माल्यैर्यथाविधि
अपां कुम्भैस्सुपूर्णैश्च विन्यस्तैस्सर्वतोदिशम्
घृतेन तिन्दुकालाजैस् सर्षपैश्च महाभुजः
शस्त्रैश्च विमलैर्न्यस्तैः पावकैश्च समन्ततः
वृद्धाभिश्चानुरूपाभिः परिवारार्थमाप्युतः
दक्षैश्च परितो वीर भिषग्भिः कुशलैस्तथा
ददर्श च स तेजस्वी रक्षोघ्नान्यपि सर्वशः
द्रव्याणि स्थापितानि स्म विधिवत् कुशलैस्तथा
जनैर्युक्तं च तद्दृष्ट्वा जन्मवेश्म पितुस्तव
हृष्टोऽभवद्धृषीकेशस् साधु साध्विति सोऽब्रवीत्
तथा ब्रुवति गोविन्दे प्रहृष्टवदने तदा
द्रौपदी त्वरिता गत्वा वैराटीं वाक्यमब्रवीत्
द्रौपदी-
अयमायाति ते भर्तुर् मातुलो मधुसूदनः
पुराणर्षिरचिन्त्यात्मा समीपमपराजितः
वैशमप्यानः-
सा तु बाष्पकलां वाचं निगृह्याश्रूणि चैव ह
सुसंवीता तदा भूत्वा देववत् कृष्णमीक्षति
सा तदा दूयमानेन हृदयेन मनस्विनी
दृष्ट्वा गोविन्दमायान्तं कृपणं पर्यदेवयत्
उत्तरा-
पुण्डरीकाक्ष पश्य त्वं बालाविह विनाकृतौ
अभिमन्युं च मां चैव हतौ तुल्यं जनार्दन
वार्ष्णेय मधुहन् वीर शिरसा त्वां प्रसादये
द्रोणपुत्रास्त्रनिर्दग्धं जीवयैनं जनार्दन
यदि स्म धर्मराजेन भीमसेनेन वा पुनः
त्वया वा पुण्डरीकाक्ष वाक्यमुक्तमिदं भवेत्
अजातानामिषीकेयं जनित्रीं हन्त्विति प्रभो
अहमेव विनष्टा स्यां नेदमेवं गतं भवेत्
गर्भस्थस्यास्य बालस्य ब्रह्मास्त्रेण निपातनम्
कृत्वा नृशंसं दुर्बुद्धिर् द्रौणिः किं फलमश्नुते
सा त्वां प्रणम्य शिरसा याचे शत्रुनिबर्हण
प्राणांस्त्यक्ष्यामि गोविन्द नायं जीवति वा यदि
अस्मिन् हि बहवः कृष्ण ये ममासन् मनोरथाः
ते द्रोणपुत्रेण हताः किं नु जीवामि केशव
आसीन्मम मतिः कृष्ण पूर्णोत्सङ्गा जनार्दन
अभिवादयिष्ये हृष्टेति तदिदं वितथं कृतम्
चपलाक्षस्य दायादे मृतेऽस्मिन् पुरुषर्षभ
विफला मे कृताः कृष्ण हृदि सर्वे मनोरथाः
चपलाक्षः किलातीव प्रियस्ते मधुसूदन
सुतमीक्षस्व तस्यैनं ब्रह्मास्त्रेण निपातितम्
कृतघ्नोऽयं नृशंसोऽयं यथाऽस्य जनकस्तथा
यः पाण्डवीं श्रियं त्यक्त्वा गतोऽद्य यमसादनम्
मया चैतत् प्रतिज्ञातं रणमूर्धनि केशव
अभिमन्यौ हते वीर त्वामेष्याम्यचिरादिव
तच्च नाकरवं कृष्ण नृशंसा जीवितप्रिया
इदानीमागतां तत्र किं नु वक्ष्यति फाल्गुनिः