वैशम्पायनः-
एतस्मिन्नेव काले तु वासुदेवः प्रतापवान्
उपायाद्वृष्णिभिस्सार्धं पुरं वारणसाह्वयम्
समयं वाजिमेधस्य विदित्वा पुरुषर्षभः
यथोक्तो धर्मपुत्रेण प्रव्रजन् स्वपुरीं प्रति
रौक्मिणेयेन सहितो युयुधानेन चैव हि
चारुदेष्णेन साम्बेन गदेन कृतवर्मणा
सारणेन च वीरेण निशठेनोन्मुखेन च
बलदेवं पुरस्कृत्य सुभद्रासहितस्तदा
द्रौपदीमुत्तरां चापि पृथां चाप्यवलोककः
समाश्वासयितुं चापि क्षत्रियान् निहतेश्वरान्
तानागतान् समीक्ष्यैव धृतराष्ट्रो महीपतिः
प्रत्यगृह्णाद्यथान्यायं विदुरश्च महामनाः
तत्रैव न्यवसत् कृष्णस् सत्कृतः पुरुषर्षभः
विदुरेण महातेजास् तथैव च युयुत्सुना
वसत्सु वृष्णिवीरेषु तत्राथ जनमेजय
जज्ञे तव पिता राजा परिक्षित् परवीरहा
स तु जातो महाराज ब्रह्मास्त्रेण च पीडितः
शवो बभूव निश्चेष्टो हर्षशोकविवर्धनः
हृष्टानां सिंहनादेन जनानां तत्र निस्स्वनः
आविवश दिशस्सर्वाः पुनरेवाप्युपारमत्
ततस्सोऽभित्वरन् कृष्णो विवेशान्तः पुरं तदा
युयुधानद्वितीयो वै व्यथितेन्द्रियमानसः
ततस्त्वरितमायान्तीं ददर्श स्वां पितृष्वसाम्
क्रोशन्तीमभिधावन्तीं वासुदेवं पुनःपुनः
पृष्ठतो द्रौपदीं चैव सुभद्रां च यशस्विनीम्
विक्रोशन्त्यश्च करुणं पाण्डवानां स्त्रियो नृप
ततः कृष्णं समासाद्य कुन्ती राजसुता तदा
प्रोवाच राजशार्दूल बाष्पगद्गदया गिरा
कुन्ती-
वासुदेव महाबाहो सुप्रजा देवकी त्वया
त्वं नो गतिः प्रतिष्ठा च त्वदायत्तमिदं कुलम्
यदुप्रवीर योऽयं ते स्वस्त्रीयस्यात्मजः प्रभो
अश्वत्थाम्ना हतो जातस् तमुज्जीवय केशव
त्वया ह्येतत् प्रतिज्ञातम् ऐषीके यदुनन्दन
अहं सञ्जीवयिष्यामि मृतं जातमिति प्रभो
सोऽयं जातो मृतस्तात पश्यैनं पुरुषर्षभ
उत्तरां च सुभद्रां च द्रौपदीं मां च माधव
धर्मपुत्रं च भीमं च फल्गुनं नकुलं तथा
सहदेवं च दुर्धर्षं सर्वांश्च भरतानपि
अस्मिन् प्राणास्समायत्ताः पाण्डवानां ममैव च
पाण्डोश्च पिण्डो दाशार्ह तथैव श्वशुरस्य मे
अभिमन्योश्च भद्रं ते प्रियस्य सदृशस्य च
प्रियमुत्पादयाद्य त्वं प्रेतस्यापि जनार्दन
उत्तरा हि पुरोक्तं वै कथयत्यरिसूदन
अभिमन्योर्वचः कृष्ण प्रियं तत् ते न संशयः
अब्रवीन् किल दाशार्ह वैराटीमार्जुनिस्तदा
अभिमन्युः-
मातुलस्य कुलं भद्रे तव पुत्रो गमिष्यति
गत्वा वृष्ण्यन्धककुलं धनुर्वेदं ग्रहीष्यति
अस्त्राणि च विचित्राणि नीतिशास्त्रं च केवलं
कुन्ती-
इत्येतत् प्रणयात् तात सौभद्रः परवीरहा
कथयामास दुर्धर्षस् तथैवैतन्न संशयः
तास्त्वां वयं प्रणम्येह याचामो मधुसूदन
कुलस्यास्य हितार्थं त्वं कुरु कल्याणमुत्तमम्
वैशम्पायनः-
एवमुक्त्वा तु वार्ष्णेयं पृथा पृथुललोचना
उद्धृत्य बाहू दुःखार्ता प्रापतद्भुवि विह्वला
अब्रुवंश्च महाराज सर्वास्सास्त्राविलेक्षणाः
स्वस्त्रीयो वासुदेवस्य मृतो जात इति प्रभो
एवं गते ततः कुन्तीं पर्यगृह्णाज्जनार्दनः
भूमौ निपतितां चैनां सान्त्वयामास भारत