वैशम्पायनः-
ततस्ते प्रययुर्हृष्टास् सबलास्सहवाहनाः
रथघोषेण महता पूरयन्तो वसुन्धराम्
संस्तूयमानास्स्तुतिभिस् सूतमागधवन्दिभिः
स्वेन सैन्येन सहिता यथाऽऽदित्यास्स्वरश्मिभिः
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि
बभौ युधिष्टिरस्तत्र पौर्णमास्यामिवोडुराट्
जयाशिषः प्रहृष्टास्ते नराणां पथि पार्थिवाः
प्रत्यगृह्णान् यथान्यायं यथावद्भरतर्षभ
तथैव सैनिका राजन् राजानमनुयान्ति ये
तेषां हलहलाशब्दो दिगन्तं व्याप्य तिष्ठत
स सरांसि सरितश्चैव वनान्युपवनानि च
अत्यक्रामन्महाराजो गिरिं चाप्यन्वपद्यत
तस्मिन् देशे च राजेन्द्र यत्र तद्द्रव्यमुत्तमम्
चक्रे निवेशनं राजा पाण्डवस्सहसैनिकैः
शिवे देशे समे चैव तदा भरतसत्तम
अग्रतो ब्राह्मणान् कृत्वा तपोविद्यादमान्वितान्
पुरोहितं च कौरव्य वेदवेदाङ्गपारगम्
प्राङ्निवेशात्तु राजानं ब्राह्मणास्सपुरोहिताः
कृत्वा शान्तिं यथान्यायं सर्वतः पर्यवारयन्
कृत्वा मध्ये च राजानम् अमात्यांश्च यथाविधि
षट्पदं नवसंस्थानं निवेशं चक्रिरे जनाः
मत्तानां वारणेन्द्राणां निवेशं च यथाविधि
कारयित्वा स राजेन्द्रो ब्राह्मणानिदमब्रवीत्
युधिष्ठिरः-
अस्मिन् कार्ये द्विजश्रेष्ठा नक्षत्रे दिवसे शुभे
यथा भवन्तो मन्यन्ते कर्तुमर्हन्ति तद्विदः
न नः कालात्ययो वै स्याद् इहैव परितिष्ठताम्
इति निश्चित्य विप्रेन्द्राः क्रियतां यदनन्तरम्
वैशम्पायनः-
श्रुत्वैतद्वचनं राज्ञो ब्राह्मणास्सपुरोधसः
इदमूचुर्वचो हृष्टा धर्मराजप्रियेप्सवः
ब्राह्मणा-
अद्यैव नक्षत्रमहश्च पुण्यं यतामहे श्रेष्ठतमं क्रियासु
तपोभिरद्येह वसाम राजन्नुपोष्यतां चापि भवद्भिरद्य
वैशम्पायनः-
श्रुत्वा तु तेषां द्विजसत्तमानां कृतोपवासा रजनीं नरेन्द्राः
ऊषुः प्रतीताः कुशसंस्तरेषु यथाऽध्वरेषूज्ज्वलिता हह्ववाहाः
ततो निशा सा व्यगमन्महात्मनां संशृण्वतां विप्रसमीरिता गिरः
ततः प्रभाते विमले द्विजर्षभा वचोऽब्रुवन् धर्मसुतं नराधिपम्