वैशम्पायनः
एतच्छ्रुत्वा तु पुत्रस्य वचः शूरात्मजस्तदा
विहाय शोकं धर्मात्मा ददौ श्राद्धमनुत्तमम्
तथैव वासुदेवश्च स्वस्त्रीयस्य महात्मनः।
दयितस्य पितुर्नित्यमकरोदौर्ध्वदेहिकम्
षष्टिं शतसहस्राणि ब्राह्मणानां महाभुज।
विधिवद्भोजयामास भोज्यं सर्वगुणान्वितम्
आच्छाद्य च महाबाहुर्धनतृष्णामपानुदत्
ब्राह्मणानां तदा कृष्णस्तदभूद्रोमहर्षणम्
सुवर्णं चैव गाश्चैव शयनाच्छादनं तथा
दीयमानं तदा विप्राः प्रभूतमिति चाब्रुवन्
वासुदेवोऽथ दाशार्हो बलदेवः ससात्यकिः
अभिमन्योस्तदा श्राद्धमकुर्वन्सत्यविक्रमाः
अतीव दुःखसन्तप्ता न शमं चोपलेभिरे
तथैव पाण्डवा धीरा नगरे नागसह्वये
नोपागच्छंस्तथा शान्तिमभिमन्युविनाकृताः
सुबहूनि च राजेन्द्र दिवसानि विराटजा
नाभुङ्क्त पतिशोकार्ता तदभूत्करुणं महत्
ध्रियमाणे तु तस्मिंस्तु गर्भे कुक्षिस्थ एव च
आजगाम ततो व्यासो ज्ञात्वा दिव्येन चक्षुषा
आगम्य चाब्रवीद्धीमान्पृथां पृथुललोचनाम्
उत्तरां च महातेजाः शोकः सन्त्यज्यतामिति
व्यासः
जनिष्यति महातेजाः पुत्रस्तव यशस्विनि
प्रभावाद्वासुदेवस्य मम व्याहरणादपि
पाण्डवानामयं चान्ते पालयिष्यति मेदिनीम्
वैशम्पायनः
धनञ्जयं च सम्प्रेक्ष्य धर्मराजस्य पश्यतः
व्यासो वाक्यमुवाचेदं हर्षयन्निव भारत
व्यासः
पौत्रौ ध्रुवं महाभागो भविष्यति महामनाः
पृथ्वीं सागरपर्यन्तां पालयिष्यति चैव ह
तस्माच्छोकं कुरुश्रेष्ठ जहि त्वमरिमर्दन
विचार्यमत्र न हि ते सत्यमेतद्भविष्यति
यच्चापि वृष्णिवीरेण कृष्णेन कुरुनन्दन
पुरा चोक्तं तथा भावि मा ते भूदत्र संशयः॥
विबुधानां गतो लोकानक्षयानात्मनिर्जितान्
न स शोच्यस्तथा वत्स न चान्यैः कुरुभिस्तथा
वैशम्पायनः
एवं पितामहेनोक्तो धर्मात्मा स धनञ्जयः
त्यक्त्वा शोकं महाराज हृष्टरूपोऽभवत्तदा
पिताऽपि तव धर्मज्ञ गर्भे तस्मिन्महामते
अवर्धत यथाकामं शुक्लपक्षे यथा शशी
ततः सञ्चोदयामास व्यासो धर्मात्मजं नृपम्
अश्वमेधं प्रति तदा ततः सोऽन्तर्हितोऽभवत्
धर्मराजोऽपि मेधावी श्रुत्वा व्यासस्य तद्वचः
वित्तोपनयने तात चकार गमने मतिम्