जनमेजयः-
उदङ्काय वरं दत्त्वा गोविन्दो द्विजसत्तम
अत ऊर्ध्वं महाबाहुः किं चकार महायशाः
वैशम्पायनः-
दत्वा वरमुदङ्काय प्रायात् सात्यकिना सह
द्वारकामेव गोविन्दश् शीघ्रवेगैर्हयोत्तमैः
स सरांसि नदीश्चैव वनानि विविधानि च
अतिक्रम्याससादाथ रम्यां द्वारवतीं पुरीम्
वर्तमाने महाराज महे रैवतकस्य च
उपायात् पुण्डरीकाक्षो युयुधानानुगस्तथा
अलङ्कृतस्तु स गिरिर् नानारूपैर्विचित्रितैः
बभौ रुक्ममयैः कोशैस् सर्वत्र पुरुषर्षभ
काञ्चनस्रग्भिरग्र्याभिस् सुमनोभिस्तथैव च
वासोभिश्च महाशैलः कल्पवृक्षैश्च सर्वशः
दीपवृक्षैश्च सौवर्णैर् अभीक्ष्णमभिशोभितः
गुहानिर्झरभोगेषु दीपभूतो बभूव ह
पताकाभिश्च चित्राभिः सङ्घट्टाभिस्समन्ततः
पुम्भिस्स्त्रीभिश्च सम्पूर्णः प्रगीत इव चाभवत्
अतीव प्रेक्षणीयोऽभून्मेरुर्मुनिगणैरिव
मत्तानां हृष्टरूपाणां स्त्रीणां पुंसां च भारत
गायतां पर्वतेन्द्रस्य दिविस्पृगिव निस्स्वनः
मत्तप्रमत्तसम्मत्तक्ष्वेडिताकृष्टसङ्कुलः
तथा किलकिलाशब्दैर् भूरभूत् सुमनोरमा
विपणापणवान् रम्यो भक्ष्यभोज्यविहारवान्
वस्त्रमाल्योत्करयुतो वीणावेणुमृदङ्गवान्
सुरामैरेयमिश्रेण भक्ष्यभोज्येन चैव हि
दीनान्धकृपणादिभ्यो दीयमानेन चानिशम्
बभौ परमकल्याणो महस्तस्य महागिरेः
पुण्यावसथवान् वीरैः पुण्यकृद्भिर्निषेवितः
विहारो वृष्णिवीराणां बभौ रैवतकस्य च
स तथा वेश्मसङ्कीर्णो देवलोक इवाबभौ
तदा च कृष्णसान्निध्यान्मुदा देवगणैर्युतः
स्तुवन्त्यन्तर्हिता देवा गन्धर्वाश्च सहर्षिभिः
देवगन्धर्वाः-
साधकस्सर्वधर्माणाम् असुराणां विनाशकः
त्वं स्रष्टा सृज्यमाधारं कारणं धर्मवेदवित्
त्वया यत् क्रियते देव न जानीमोऽत्र मायया
केवलं त्वाऽभिजानीमश् शरणं परमेश्वरम्
ब्रह्मादीनां च गोविन्द सान्निध्यं शरणं नमः
वैशम्पायनः-
इति स्तुते मानुषैश्च पूजिते देवकीसुते
शक्रसद्मप्रतीकाशो बभूव स हि शैलराट्
ततस्सम्पूज्यमानस्स विवेश भवनं शुभम्
गोविन्दस्सात्यकिश्चापि जग्मतुर्भवनं स्वकम्
विवेश च स हृष्टात्मा चिरकालप्रवासकः
कृत्वा नसुकरं कर्म दानवेष्विव वासवः
उपायान्तं तु वार्ष्णेयं भोजवृष्ण्यन्धकास्तदा
अभ्यगच्छन्महात्मानं देवा इव शतक्रतुम्
स तानभ्यर्च्य मेधावी पृष्ट्वा च कुशलं तदा
अभ्यवादयत प्रीतः पितरं मातरं तदा
ताभ्यां स सम्परिष्वक्तस् सान्त्वितस्स महाभुजः
उपोपविष्टस्तैस्सर्वैर् वृष्णिभिः परिवारितः
स विश्रान्तो महातेजाः कृतपादावसेचनः
कथयामास तं कृत्स्नं पृष्टः पित्रा महाहवम्