वैशम्पायनः
स मित्रसहमासाद्य त्वभिज्ञानमयाचत
तस्मै ददावभिज्ञानं स चेक्ष्वाकुवरस्तदा
सौदासः
न चैवैषा गतिः क्षेम्या न चान्या विद्यते गतिः
एतन्मतं ममाज्ञाय प्रयच्छ मणिकुण्डले
वैशम्पायनः
इत्युक्तस्तामुदङ्कस्तु भर्तुर्वाक्यमथाब्रवीत्
श्रुत्वा तु सा ततः प्रादात् तस्मै ते मणिकुण्डले॥
अवाप्य कुण्डले ते तु राजानं पुनरब्रवीत्
उदङ्कः
किमेतद्गुह्यवचनं श्रोतुमिच्छामि ते वचः
सौदासः
प्रजातिसर्गाद्विप्रान्वै क्षत्रियाः पूजयन्ति ह
विप्रेभ्यश्चापि बहवो दोषाः प्रादुर्भवन्ति नः
सोऽहं द्विजेभ्यः प्रणतो विप्राद्दोषमवाप्तवान्
गतिमन्यां न पश्यामि मदयन्तीसहायवान्
न चान्यामपि पश्यामि गतिं गतिमतां वर
स्वर्गद्वारस्य गमने स्थाने चेह द्विजोत्तम
न हि राज्ञा विशेषेण विरुद्धेन द्विजातिभिः
शक्यं त्रिलोके संस्थातुं प्रेत्य वा सुखमेधितुम्
तदिष्टेन मयैवैते दत्ते स्वे मणिकुण्डले
यः कृतस्तेऽद्य समयः सफलं तं कुरुष्व मे
उदङ्कः
राजंस्तथैव कर्ताऽस्मि पुनरेष्यामि ते वशम्
प्रश्नं च कञ्चित्प्रष्टुं त्वां व्यवसिष्ये परन्तप
सौदासः
ब्रूहि विप्र यथाकामं प्रतिवक्ताऽस्मि ते वचः
छेत्ताऽस्मि संशयं तेऽहं न मेऽत्रास्ति विचारणा
उदङ्कः
प्राहुर्वाक्सङ्गमं मित्रं धर्मनैपुण्यदर्शिनः
मित्रेषु यश्च विषमः स्तेन इत्येव तं विदुः
स भवान्मित्रतामद्य सम्प्राप्तो मम पार्थिव
स मे बुद्धिं प्रयच्छ त्वं युक्तां बुद्धिमतां वर
अवाप्तार्थोऽहमद्यास्मि भवांश्च पुरुषादकः
भवत्सकाशमागन्तुं क्षमं मम न वेति वै
सौदासः
समं चेदिह वक्तव्यं मया द्विजवरोत्तम
मत्समीपं द्विजश्रेष्ठ नागन्तव्यं कथञ्चन
तवैव तु प्रपश्यामि श्रेयो भृगुकुलोद्वह
आगच्छतो हि ते विप्र भवेन्मृर्त्युन संशयः
वैशम्पायनः
इत्युक्तः स तदा राजा क्षमं बुद्धिसमाहितम्
अनुज्ञाप्य स राजानमहल्यां प्रति जग्मिवान्
गृहीत्वा कुण्डले दिव्ये गुरुपत्न्याः प्रियङ्करः
जवेन महता प्रायाद्गौतमस्याऽऽश्रमं प्रति
यथा तथा रक्षणं च मदयन्त्याऽभिभाषितम्
तथा ते कुण्डले बध्वा तदा कृष्णाजिनेन यत्
स कस्मिंश्चित्क्षुधाविष्टः फलभारावनामितम्
बिल्वं ददर्श तस्मिंश्चारुरोह क्षुधान्वितः।
शाखास्वासज्य तस्यैव कृष्णाजिनमरिन्दम
यस्मिंस्ते कुण्डले बद्धे तदा द्विजवरेण वै
विशीर्णबन्धने तस्मिन्गते कृष्णाजिने महीम्
अपश्यद्भुजगः कश्चित्ते तत्र मणिकुण्डले
ऐरावतकुलोद्भूतः शीघ्रो भूत्वा तदा हि सः
विगृह्यास्येन वल्मीकं विवेशाथ सकुण्डलः॥
ह्रियमाणे स दृष्ट्वा तु कुण्डले पन्नगेन तु
पपात वृक्षात्सोद्वेगो दुःखात्परमकोपनः
स दण्डकाष्ठमादाय वल्मीकं न्यखनत्तदा।
अहानि त्रिंशदव्यग्रः पञ्च चान्यानि भारत
क्रोधामर्षाभितप्ताङ्गस्ततो वै द्विजसत्तमः
दण्डकाष्ठाभिनुन्नाङ्गी चचाल भृशमातुरा॥
ततः खनत एवास्य विप्रर्षेर्धरणीतलम्
नागलोकस्य पन्थानं कामयानस्य निश्चयात्
रथेन हरियुक्तेन तं देशमभिजग्मिवान्
वज्रपाणिर्महातेजास्तं ददर्श द्विजोत्तमम्
स तत्र ब्राह्मणो भूत्वा तस्य दुःखेन दुःखितः
उदङ्कमब्रवीत् तात नैतच्छक्यं त्वयेति वै
इतोऽस्ति नागलोको वै योजनानि सहस्रशः
न दण्डकाष्ठसाध्यं च मन्ये कार्यमिदं तव
उदङ्कः
नागलोके यदि ब्रह्मन्न शक्ये कुण्डले मया
प्राप्तुं प्राणान्विमोक्ष्यामि पश्यतस्ते द्विजोत्तम
वैशम्पायनः
यदा स नाशकत्तस्य निश्चयं कर्तुमन्यथा
वज्रपाणिस्तदा दण्डं वज्रास्त्रेण युयोज ह
ततो वज्रप्रहारैस्तैर्दार्यमाणा वसुन्धरा
नागलोकस्य पन्थानमकरोज्जनमेजय
स तेन मार्गेण तदा नागलोकं विवेश ह
ददर्श नागलोकं च योजनानि सहस्रशः
प्राकारनिचयैर्दिव्यैर्मणिमुक्ताद्यलङ्कृतैः
उपपन्नं महाभाग शातकुम्भमयैस्तथा
वापीः स्फटिकसोपाना नदीश्च विमलोदकाः
ददर्श वृक्षांश्च बहून्नानाद्विजगणायुतान्
नागलोकस्य विवरं स ददर्श भृगूद्वहः
पञ्चयोजनविस्तारमायतं शतयोजनम्
नागलोकमुदङ्कस्तु प्रेक्ष्य दीनोऽभवत्तदा
निराशश्चाभवत्तत्र कुण्डलाहरणे पुनः
तत्र प्रोवाच तुरगस्तं कृष्णश्वेतवालधिः
ताम्रास्यनेत्रः कौरव्यः प्रज्वलन्निव तेजसा
अश्वः
धम ह्यपानमेतन्मे ततस्त्वं विप्र लप्स्यसे
ऐरावतसुतेनेह तवानीते हि कुण्डले
मा जुगुप्सां कृथाः पुत्र त्वमत्रार्थे कथञ्चन
आसेवितस्त्वयैतद्धि गौतमस्याऽऽश्रमे तदा
उदङ्कः
कथं भवन्तं जानीयामुपाध्यायाश्रमं प्रति
तन्मया चीर्णपूर्वं हि श्रोतुमिच्छामि तत्त्वतः॥
अश्वः
गुरोर्गुरुं मां जानीहि ज्वलितं जातवेदसम्
त्वया ह्यहं सदा वत्स गुरोरर्थे तपोधन
सततं पूजितो विप्र शुचिना भृगुसत्तम
ततच्छ्रेयो विधास्यामि तवैवं कुरु मा चिरम्
वैशम्पायनः
इत्युक्तस्तु तथाऽकार्षीदुदङ्कश्चित्रभानुना
घृतार्चिः प्रीतिमांश्चापि प्रजज्वाल दिधक्षया
ततोऽस्य रोमकूपेभ्यो ध्मायमानस्य भारत
घनः प्रादुरभूद्धूमो नागलोकभयावहः
तेन धूमेन सहसा वर्धमानेन भारत
नागलोके महाराज न प्राज्ञायत किञ्चन
हाहाकृतमभूत्सर्वमैरावतनिवेशनम्
वासुकिप्रमुखानां च नागानां जनमेजय
न प्राकाशन्त वेश्मानि धूमरुद्धानि सर्वशः
नीहारसंवृतानीव वनानि गिरयस्तथा
ते धूमरक्तनयना वह्नितेजोभितापिताः
आजग्मुर्निश्चयं ज्ञातुं भार्गवस्य महात्मनः
श्रुत्वा च निश्चयं तस्य महर्षेरतितेजसः
सम्भ्रान्तनयनाः सर्वे पूजां चक्रुर्यथाविधि
सर्वे प्राञ्जलयो नागा वृद्धबालपुरोगमाः
शिरोभिः प्रणिपत्योचुः प्रसीद भगवन्निति
प्रसाद्य ब्राह्मणं ते तु पाद्यमर्घ्यं निवेद्य च
प्रायच्छन्कुण्डले दिव्ये पन्नगाः परमार्चिते
ततः स पूजितो नागैस्तदोदङ्कः प्रतापवान्
अग्निं प्रदक्षिणं कृत्वा जगाम गुरुसद्म तत्
स गत्वा त्वरितो राजन्गौतमस्य निवेशनम्
प्रायच्छत्कुण्डले दिव्ये गुरुपत्न्यास्तदाऽनघ
एवं लोकद्वयं तेन विप्रेण जनमेजय
परिक्रम्याऽऽहृते दिव्ये ततस्ते मणिकुण्डले
एवम्प्रभावः स मुनिरुदङ्को भरतर्षभ
परेण तपसा युक्तो यन्मां त्वं परिपृच्छसि