वैशम्पायनः-
स तं दृष्ट्वा तथाभूतं राजानं घोरदर्शनम्
दीर्घश्मश्रुधरं नॄणां शोणितेन समुक्षितम्
चकार न व्यथां विप्रो राजा त्वेनमथाब्रवीत्
प्रत्युत्थाय महातेजा भयकर्ता यमोपमः
सौदासः-
दिष्ट्या त्वमसि कल्याण षष्ठे काले ममान्तिकम्
भक्ष्यं मृगयमाणस्य सम्प्राप्तो द्विजसत्तम
न च शक्यस्त्वमुत्स्रष्टुं क्षुधितस्य ममाद्य वै
उदङ्कः-
राजन् गुर्वर्थिनं विद्धि चरन्तं मामिहागतम्
न च गुर्वर्थमुद्युक्तं हिंस्यमाहुर्मनीषिणः
सौदासः-
षष्ठे काले ममाहारो विहितो द्विजसत्तम
न शक्यस्त्वं समुत्स्रष्टुं क्षुधितेन मयाऽद्य वै
उदङ्कः-
एवमस्तु महाराज समयः क्रियतां तु वै
गुर्वर्थमभिनिर्वर्त्य पुनरेष्यामि ते वशम्
संश्रुतश्च मया योऽर्थो गुरवे राजसत्तम
त्वदधीनस्स राजेन्द्र तं त्वां भिक्षे नरेश्वर
ददासि विप्रमुख्येभ्यस् त्वं हि रत्नानि नित्यदा
दाता च त्वं नरव्याघ्र पात्रभूतः क्षिताविह
पात्रं प्रतिग्रहे चापि विद्धि मां नृपसत्तम
उपाहृत्य गुरोरर्थं त्वदायत्तमरिन्दम
समयेनेह राजेन्द्र पुनरेष्यामि ते वशम्
सत्यं ते प्रतिजानामि नात्र मिथ्या कथञ्चन
अनृतं नोक्तपूर्वं मे स्वैरेष्वपि कुतोऽन्यथा
सौदासः-
यद्यस्मासु तवायत्तो गुर्वर्थः कृत एव सः
यदि चास्ति प्रतिग्राह्यं साम्प्रतं तद्वदस्व मे
उदङ्कः-
प्रतिग्राह्यो वरो मे त्वं सदैव पुरुषर्षभ
सोऽहं त्वामनु सम्प्राप्तो भिक्षितुं मणिकुण्डले
सौदासः-
पत्न्यास्ते मम विप्रर्षे रुचिरे मणिकुण्डले
वरयस्वेदमन्यन्मे तं ते दास्यामि सुव्रत
उदङ्कः-
वैशम्पायनः-
अलं ते व्यपदेशेन प्रमाणं यदि ते वयम्
प्रयच्छ कुण्डले मे त्वं सत्यवाग् भव वै विभो
इत्युक्तस्त्वब्रवीद्राजा तमुदङ्कं वचस्तदा
सौदासः-
गच्छ मद्वचनाद्देवीं ब्रूहि देहीति सत्तम
सैवमुक्ता त्वया नूनं मद्वाक्येन शुचिव्रता
प्रदास्यति द्विजश्रेष्ठ कुण्डले ते न संशयः
उदङ्कः-
क्व पत्नी भवतश्शक्या मया द्रष्टुं नरेश्वर
स्वयं वाऽपि भवान् पत्नीं किमर्थं नोपसर्पति
सौदासः-
द्रक्ष्यते भवाता साऽद्य कास्मिंश्चिद्वननिर्झरे
षष्ठे काले न हि मया सा शक्या द्रष्टुमद्य वै
वैशम्पायनः-
उदङ्कस्तु तथेत्युक्त्वा जगाम भरतर्षभ
मदयन्तीं च तां दृष्ट्वा ज्ञापयत् स्वं प्रयोजनम्
सौदासवचनं श्रुत्वा ततस्सा पृथुलोचना
प्रत्युवाच महाबुद्धिम् उदङ्कं जनमेजय
मदयन्ती-
एवमेतन्महाब्रह्मन् नानृतं भाषसेऽनघ
अभिज्ञानं तु किञ्चिन्मे त्वमानेतुमिहार्हसि
इमे हि दिव्ये मणिकुण्डले शुभे देवाश्च यक्षाश्च महोरगाश्च
तैस्तैरुपायैरपहर्तुकामाश् छिद्रेषु नित्यं परितर्कयन्ते
निक्षिप्तमेतद्भुवि पन्नगास्तु रत्नं समासाद्य परामृशेयुः
यक्षास्तथोच्छिष्टधृतं सुराश्च निद्रावशं त्वां परिधर्षयेयुः
छिद्रेष्वेतेषु च सदा धृष्यसे च द्विजर्षभ
देवराक्षसयक्षाणाम् अप्रमत्तेन धार्यते
एते दिवाऽपि भासेते रात्रौ च द्विजसत्तम
नक्तं नक्षत्रताराणां प्रभामाक्षिप्य वर्ततः
एते ह्यामुच्य भगवन् क्षुत्पिपासाभयं कुतः
विषाग्निश्वापदेभ्यश्च भयं जातु न विद्यते
ह्रस्वेन चैते आमुक्ते भवतो ह्रस्वके सदा
अनुरूपेण चामुक्ते तत्प्रमाणे तथैव ते
एवंविधे ममाप्येते कुण्डले परमार्चिते
त्रिषु लोकेषु विख्याते तदभिज्ञानमानय