जनमेजयः-
उदङ्कः केन तपसा संयुक्तस्स वै महातपाः
यश्शापं दातुकामोऽभूद् विष्णवे प्रभविष्ववे
वैशम्पायनः-
उदङ्को महता युक्तस् तपसा जनमेजय
गुरभक्तस्स तेजस्वी नान्यत् किञ्चिदपूजयत्
सर्वेषामृषिपुत्राणाम् एष चासीन्मनोरथः
औदङ्कीं गुरुवृत्तिं वै प्राप्नुयामेति भारत
गौतमस्य तु शिष्याणां बहूनां जनमेजय
उदङ्केऽभ्यधिका प्रीतिस् स्नेहश्चैवाभवत् तदा
स तस्य दमशौचाभ्यां विक्रान्तेन च कर्मणा
सम्यक् चैवोपचारेण गौतमः प्रीतिमानभूत्
अथ शिष्यसहस्राणि समनुज्ञाय गौतमः
उदङ्कं परया प्रीत्या नाभ्यनुज्ञातुमैच्छत
तं क्रमेण जरा तात प्ररिरेभे महामुनिम्
न चान्वबुध्यत तदा स मुनिर्गुरुवत्सलः
ततः कदाचिद्राजेन्द्र काष्ठान्यानयितुं ययौ
उदङ्कः काष्ठभारं च महान्तं समुपानयत्
स तद्भाराभिभूतात्मा काष्ठभारमरिन्दम
निष्पिपेष क्षितौ राजन् परिश्रान्तो बुभुक्षितः
तस्य काष्ठे विलग्नाऽभूज् जटा रूप्यसमप्रभा
ततः काष्ठैस्सह तदा पपात धरणीतले
ततस्स भारनिष्पिष्टः क्षुधाविष्टश्च भार्गवः
दृष्ट्वा तां वयसोऽवस्थां रुरोदार्तस्वरं तदा
ततो गुरुसुता तस्य पद्मपत्रायतेक्षणा
जग्राहाश्रूणि सुश्रोणी तपोयुक्तस्य धिमतः
पितुर्नियोगाद्धर्मज्ञा शिरसाऽवनता तदा
तस्या निपेततुर्दग्धौ करौ तैरश्रुबिन्दुभिः
न हि तानश्रुपातान् वै शक्ता धारयितुं मही
गौतमस्त्वब्रवीद्विप्रम् उदङ्कं प्रीतमानसः
गौतमः-
कस्मात् तात तवाद्येह शोकोत्तरमिदं मनः
स स्वैरं ब्रूहि विप्रर्षे श्रोतुमिच्छामि ते वचः
उदङ्कः-
भवद्गतेन मनसा भवत्प्रियचिकीर्षया
भवद्भक्तिगतेनेह भवद्भावानुगेन च
जरेयं नावबुद्धा मे नाभिज्ञातं सुखं च मे
शतवर्षोषितं हि त्वं न मामभ्यनुजाज्ञिवान्
भवता ह्यभ्यनुज्ञाताश् शिष्याः प्रत्यवरा मम
उपपन्ना द्विजश्रेष्ठ शतशोऽथ सहस्रशः
गौतमः-
त्वत्प्रीतियुक्तेन मया गुरुशुश्रूषया तव
व्यतिक्रामन्महान् कालो नावबुद्धो द्विजर्षभ
किं त्वद्य यदि ते श्रद्धा गमनं प्रति भार्गव
अनुज्ञां प्राप्य मत्तस्त्वं स्वगृहान् गच्छ मा चिरम्
उदङ्कः-
गुर्वर्थं किं प्रयच्छामि ब्रूहि त्वं द्विजसत्तम
किमुपाहृत्य गच्छेयम् अनुज्ञातस्त्वया विभो
गौतमः-
दक्षिणा परितोषो वै गुरूणां सद्भिरुच्यते
तव ह्याचरतो धर्मं तुष्टोऽहं वै न संशयः
इत्थं हि परितुष्टं मां विजानीहि भृगूद्वह
युवा षोडशवर्षो हि तदद्य तदा भविष्यसि
ददानि पत्नीं कन्यां च स्वां ते दुहितरं द्विज
एतामृते हि नान्या वै त्वत्तेजोऽर्हति सेवितुम्
वैशम्पायनः-
ततस्तां प्रतिजग्राह युवा भूत्वा यशस्विनीम्
गुरुणा चाभ्यनुज्ञातो गुरुपत्नीमथाब्रवीत्
उदङ्कः-
किं भवत्यै प्रयच्छामि गुर्वर्थं विनियुङ्क्ष्व माम्
प्रियं हि तव काङ्क्षामि प्राणैरपि धनैरपि
यद्दुर्लभं हि लोकेऽस्मिन् रत्नमत्यद्भुतं भवेत्
तदानयेयं तपसा न हि मेऽत्रास्ति संशयः
अहल्या-
वैशम्पायनः-
परितुष्टाऽस्मि ते विप्र नित्यं भगवता सह
पर्याप्तमेतद्भद्रं ते गच्छ तात यथेप्सितम्
उदङ्कस्तु महाराज पुनरेवाब्रवीद्वचः
उदङ्कः-
आज्ञापयस्व मां मातः किं कर्तव्यं प्रियं तव
अहल्या-
सौदासपत्न्या विधृते दिव्ये ये मणिकुण्डले
ते समानय भद्रं ते गुर्वर्थः सुकृतो भवेत्
वैशम्पायनः-
स तथेति प्रतिश्रुत्य जगाम जनमेजय
गुरुपत्नीप्रियार्थं वै ते समानयितुं तदा
स जगाम ततश्शीघ्रम् उदङ्को ब्राह्मणर्षभः
सौदासं पुरुषादं वै भिक्षितुं मणिकुण्डले
गौतमस्त्वब्रवीत् पत्नीम् उदङ्को नात्र दृश्यते
इति पृष्टा तमाचष्ट कुण्डलार्थे गतं तु वै
ततः प्रोवाच पत्नीं स न ते सम्यगिदं कृतम्
शप्तस्स पार्थिवो नूनं ब्राह्मणं तं हनिष्यति
अहल्या-
अजानन्त्या नियुक्तस्स भगवन् ब्राह्मणोऽद्य वै
भवत्प्रसादान्न भयं किञ्चित् तस्य भविष्यति
वैशम्पायनः-
इत्युक्तः प्राह तां पत्नीम् एवमस्त्विति गौतमः
उदङ्कोऽपि वने शून्ये राजानं तं ददर्श ह