उदङ्कः-
अभिजानामि जगतः कर्तारं त्वां जनार्दन
नूनं भवत्प्रसादोऽयम् इति मे नास्ति संशयः
चित्तं च सुप्रसन्नं मे त्वद्भावगतमच्युत
विनिवृत्तश्च मे शाप इति विद्धि यदूत्तम
यदि त्वनुग्रहं कञ्चित् त्वत्तोऽर्हाऽहं जनार्दन
द्रष्टुमिच्छामि ते रूपं वैष्णवं मां निदर्शय
वैशम्पायनः-
ततस्स तस्मै प्रीतात्मा दर्शयामास तद्वपुः
शाश्वतं वैष्णवं धीमान् यद्ददर्श धनञ्जयः
स ददर्श महात्मानं विश्वरूपं महाभुजम्
विस्मयं च ययौ विप्रस् तं दृष्ट्वा रूपमैश्वरम्
उदङ्कः-
नमो नमस्ते सर्वात्मन् नारायण परात् पर
परमात्मन् पद्मनाभ पुण्डरीकाक्ष माधव
हिरण्यगर्भरूपाय संसारोत्तारणाय च
पुरुषाय पुराणाय चान्तर्यामाय ते नमः
अविद्यातिमिरादित्यं भवव्याधिमहौषधिम्
संसारार्णवपारं त्वां प्रणमामि गतिर्भव
सर्ववेदैकवेद्याय सर्ववेदमयाय च
वासुदेवाय नित्याय नमो भक्तप्रियाय ते
दयया दुःखमोहान्मां समुद्धर्तुमिहार्हसि
कर्मभिर्बहुभिः पापैर् बद्धं पाहि जनार्दन
विश्वरूप नमस्तेऽस्तु यस्य ते रूपमैश्वरम्
पद्म्यां ते पृथिवी व्याप्ता शिरसा चावृतं नभः
द्यावापृथिव्योर्यन्मध्यं जठरेण तदावृतम्
भुजाभ्यामावृताश्चाशास् त्वमिदं सर्वमच्युत
संहरस्व पुनर्देव रूपमक्षय्यमुत्तमम्
पुनस्त्वां स्वेन रूपेण द्रष्टुमिच्छामि शाश्वतम्
वैशम्पायनः-
तमुवाच प्रसन्नात्मा गोविन्दो जनमेजय
वरं वृणीष्वेति तदा तमुदङ्कोऽब्रवीदिदम्
उदङ्कः-
पर्याप्त एष एवाद्य वरस्त्वत्तो महाद्युते
यत् ते रूपमिदं कृष्ण पश्यामि प्रभवाप्ययम्
वैशम्पायनः-
तमब्रवीत् पुनः कृष्णो मा त्वमत्र विचारय
अवश्यमेतत् कर्तव्यम् अमोघं दर्शनं मम
उदङ्कः-
अवश्यं करणीयं चेद् यदेवं मन्यसे विभो
तोयमिच्छामि यत्रेष्टं मरुष्वेतद्धि दुर्लभम्
वैशम्पायनः-
ततस्संहृत्य तत् तेजः प्रोवाचोदङ्कमीश्वरः
एष्टव्ये सति चिन्त्योऽहम् इत्युक्त्वा द्वारकां ययौ
ततः कदाचिद्भगवान् उदङ्कस्तोयकाङ्क्षया
तृषितः परिचक्राम मरौ सस्मार चाच्युतम्
ततो दिग्वाससं धीमान् मातङ्गं मलपङ्किनम्
अपश्यत मरौ तस्मिञ् श्वगणैः परिवारितम्
भीषणं बद्धनिस्त्रिंशं बाणकार्मुकधारिणम्
तस्याधस्स्रोतसोऽपश्यद् वारि भूरि द्विजोत्तमः
स्मरन्त स च तं प्राह मातङ्गः प्रहसन्निव
मातङ्गः-
एह्युदङ्क प्रतीच्छस्व मत्तो वारि भृगूद्वह
कृपा हि मे सुमहती त्वां दृष्ट्वा तृट्समाश्रितम्
वैशम्पायनः-
इत्युक्तस्तेन स मुनिस् तत् तोयं नाभ्यनन्दत
चुकोप च स तं धीमान् पिबस्वेति तमब्रवीत्
पुनःपुनश्च मातङ्गः पिबस्वेति तमब्रवीत्
न चापिबत् स च क्रोधात् क्षुभितेनान्तरात्मना
स तथा निश्चयात् तेन प्रत्याख्यातो महात्मनाः
श्वभिस्सह महाराज तत्रैवान्तरधीयत
उदङ्कस्तं तथा दृष्ट्वा ततो व्रीडितमानसः
मेने प्रलब्धमात्मानं कृष्णेनामिततेजसा
अथ तेनैव मार्गेण शङ्कचक्रगदाधरः
आजगाम महाबाहुर् उदङ्कश्चैनमब्रवीत्
उदङ्कः-
न युक्तं तादृशं दातुं त्वया पुरुषसत्तम
सलिलं विप्रमुख्येभ्यो मातङ्गस्रोतसा विभो
वैशम्पायनः-
इत्युक्तवचनं तं तु महाबुद्धिर्जनार्दनः
उदङ्कं श्लक्ष्णया वाचा सान्त्वयन्निदमब्रवीत्
श्रीभगवान्-
यादृशेनेह रूपेण योग्यं दातुमनेन वै
तादृशं खलु ते दत्तं त्वं तु तन्नावबुध्यसे
मया त्वदर्थमुक्तो हि वज्रपाणिः पुरन्दरः
उदङ्कायामृतं देहि तोयरूपमिति प्रभुः
स मामुवाच देवेन्द्र न मर्त्योऽमर्त्यतां व्रजेत्
अन्यमस्मै वरं देहीत्यसकृद् भृगुनन्दन
अमृतं देयमित्येव मयोक्तस्स शचीपतिः
स मां प्रसाद्य देवेन्द्रः पुनरेवेदमब्रवीत्
देवेन्द्रः-
यदि देयमवश्यं चेन्मातङ्गोऽहं महाद्युते
भूत्वाऽमृतं प्रदास्यामि भार्गवाय महात्मने
यद्येतत् प्रतिगृह्णाति भार्गवोऽमृतमद्य वै
प्रदातुमेष गच्छामि भार्गवस्यामृतं विभो
प्रत्याख्यातस्त्वहं तेन न दास्यामीति भार्गव
श्रीभगवान्-
स तथा समयं कृत्वा तेन रूपेण वासवः
उपस्थितस्त्वया चापि प्रत्याख्यातोऽमृतं ददत्
चाण्डालरूपी भगवान् सुमहांस्ते व्यतिक्रमः
यत्तु शक्यं मया कर्तुं भूय एव तवेप्सितम्
तोयेप्सां तव दुर्धर्षां करिष्ये सफलामहम्
येष्वहस्सु तव ब्रह्मन् सलिलेप्सा भविष्यति
तदा मरौ भविष्यन्ति जलपूर्णाः पयोधराः
रसवच्च प्रदास्यन्ति तोयं ते भृगुनन्दन
उदङ्कमेघा इत्युक्ताः ख्यातिं यास्यन्ति चापि ते
वैशम्पायनः-
इत्युक्तः प्रीतिमान् विप्रः कृष्णेन स बभूव ह
अद्याप्युदङ्कमेघाश्च मरौ वर्षन्ति भारत