वैशम्पायनः-
तथा प्रयान्तं वार्ष्णेयं द्वारकां भरतर्षभाः
परिष्वज्य न्यवर्तन्त सानुयात्राः परन्तपाः
पुनःपुनश्च वार्ष्णेयं पर्यष्वजत फल्गुनः
आचक्षुर्विषयाच्चैनं ददर्श स पुनःपुनः
कृच्छ्रेणैव च तां पार्थो गोविन्दे विनिवेशिताम्
सञ्जहार ततो दृष्टिं कृष्णश्चाप्यपराजितः
तत्र प्रयाणे यान्यासन् निमित्तानि महात्मनः
बहून्यद्भुतरूपाणि तानि मे गदतश्शृणु
वायुर्वेगेन महता रथस्य पुरतो ववौ
कुर्वन् निश्शर्करं मार्गं विरजस्कमकण्टकम्
ववर्ष वासवश्चैव तोयं शुचि सुगन्धि च
दिव्यानि चैव पुष्पाणि पुरतश्शार्ङ्गधन्वनः
सम्प्रयातो महाबाहुस् समेषु मरुधन्वसु
आगच्छन्तमपश्यद्वै उदङ्कं नाम नामतः
महर्षिं सिद्धतपसं त्रिषु लोकेषु विश्रुतम्
स तं सम्पूज्य तेजस्वी मुनिं कमललोचनः
पूजितस्तेन च तदा पर्यपृच्छदनामयम्
स पृष्टः कुशलं तेन सम्पूज्य मधुसूदनम्
उदङ्को ब्राह्मणश्रेष्ठस् ततः पप्रच्छ माधवम्
उदङ्कः-
कच्चिच्छौरे त्वया गत्वा कुरुपाण्डवसद्म तत्
कृतं सौभ्रात्रममलं तन्मे व्याख्यातुमर्हसि
अपि सन्धाय तान् वीरान् उपावृत्तोऽसि केशव
सम्बन्धिनस्सुदयितान् सततं वृष्णिपुङ्गव
कच्चित् पाण्डुसुताः पञ्च धृतराष्ट्रस्य चात्मजाः
लोकेषु विहरिष्यन्ति त्वया सह परन्तपाः
स्वराष्ट्रेषु च राजानः कच्चित् प्राप्स्यन्ति वै सुखम्
कौरवेषु प्रशान्तेषु त्वया नाथेन केशव
या मे सम्भावना तात त्वयि नित्यमवर्तत
अपि सा सफला तात कृता ते भरतान् प्रति
श्रीभगवान्-
कृतो यत्नो मया ब्रह्मन् सौशाम्ये कौरवान् प्रति
ना चाशक्यन्त सन्धातुम् अधर्मरुचयो मया
ततस्ते निधनं प्राप्तास् सर्वे ससुतबान्धवाः
न दिष्टमप्यतिक्रान्तुं शक्यं बुद्ध्या बलेन वा
महर्षे विदितं नूनं सर्वमेतत् तवानघ
अत्यक्रामन् वचो मह्यं भीष्मस्य विदुरस्य च
ततो यमक्षयं जग्मुस् समासाद्येतरेतरम्
पञ्चैव पाण्डवाश्शिष्टा हतमित्रा हतात्मजाः
धार्तराष्ट्राश्च निहतास् सर्वे ससुतबान्धवाः
वैशम्पायनः-
इत्युक्तवचने कृष्णे भृशं क्रोधसमन्वितः
उदङ्कः प्रत्युवाचेदं क्रोधादुद्वृत्य लोचने
उदङ्कः-
यस्माच्छक्तेन ते कृष्ण न त्राताः कुरुपाण्डवाः
सम्बन्धिनः प्रियास्तस्माच् छप्स्येऽहं त्वां न संशयः
न च वै प्रसभं यस्मात् ते निगृह्य निवर्तिताः
तस्मान्मन्युपरीतस्त्वां शप्स्यामि मधुसूदन
त्वया शक्तेन हि सता मिथ्याचारेण माधव
प्रमापिताः कुरुश्रेष्ठा यत् त्वया समुपेक्षिताः
श्रीभगवान्-
शृणु मे विस्तरेणेदं यद्वक्ष्ये भृगुनन्दन
गृहाणानुनयं चैव तपस्वी ह्यसि भार्गव
श्रुत्वा तु मे तदध्यात्मं मुञ्चेथाश्शापमद्य वै
न च मां तपसाऽल्पेन शक्तोति शपितुं भवान्
न च ते तपसो नाशम् इच्छामि तपतां वर
तपस्ते सुमहत् तप्तं गुरवश्चापि तोषिताः
कौमारं ब्रह्मचर्यं ते जानामि द्विजसत्तम
दुःखार्जितस्य तपसस् तस्मान्नेच्छामि ते व्ययम्